अक्षर आकार:

बगलामुखी (पीताम्बरी) ध्यानम्

bagalAmukhI (pItAmbarI) dhyAnam

बगलामुखी (पीताम्बरी) ध्यानम्

मध्ये सुधाब्धिमणिमण्डपरत्नवेदी- सिंहासनोपरि गतां परिवीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रून्परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥ सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् । हस्तैर्मुद्गरपाशवज्ररशनाः सम्बिभ्रतीं भूषणैः व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ ३॥ इति बगलामुखी अथवा पीताम्बरी ध्यानम् ॥