अक्षर आकार:

श्रीबगलाष्टोत्तरशतनामावली २

shrIbagalAShTottarashatanAmAvalI 2

श्रीबगलाष्टोत्तरशतनामावली २

श्रीबगलायै नमः । श्रीविष्णुवनितायै नमः । श्रीविष्णुशङ्करभामिन्यै नमः । श्रीबहुलायै नमः । श्रीवेदमात्रे नमः । श्रीमहाविष्णुप्रस्वै नमः । श्रीमहामत्स्यायै नमः । श्रीमहाकूर्मायै नमः । श्रीमहावाराहरूपिण्यै नमः । श्रीनरसिंहप्रियायै नमः । १० श्रीरम्यायै नमः । श्रीवामनायै नमः । श्रीवटुरूपिण्यै नमः । श्रीजामदग्न्यस्वरूपायै नमः । श्रीरामायै नमः । श्रीरामप्रपूजितायै नमः । श्रीकृष्णायै नमः । श्रीकपर्दिन्यै नमः । श्रीकृत्यायै नमः । श्रीकलहायै नमः । २० श्रीकलकारिण्यै नमः । श्रीबुद्धिरूपायै नमः । श्रीबुद्धभार्यायै नमः । श्रीबौद्धपाखण्डखण्डिन्यै नमः । श्रीकल्किरूपायै नमः । श्रीकलिहरायै नमः । श्रीकलिदुर्गतिनाशिन्यै नमः । श्रीकोटिरूर्यप्रतीकाशायै नमः । श्रीकोटिकन्दर्पमोहिन्यै नमः । श्रीकेवलायै नमः । ३० श्रीकठिनायै नमः । श्रीकाल्यै नमः । श्रीकलायै नमः । श्रीकैवल्यदायिन्यै नमः । श्रीकेशव्यै नमः । श्रीकेशवाराध्यायै नमः । श्रीकिशोर्यै नमः । श्रीकेशवस्तुतायै नमः । श्रीरुद्ररूपायै नमः । श्रीरुद्रमूर्त्यै नमः । ४० श्रीरुद्राण्यै नमः । श्रीरुद्रदेवतायै नमः । श्रीनक्षत्ररूपायै नमः । श्रीनक्षत्रायै नमः । श्रीनक्षत्रेशप्रपूजितायै नमः । श्रीनक्षत्रेशप्रियायै नमः । श्रीनित्यायै नमः । श्रीनक्षत्रपतिवन्दितायै नमः । श्रीनागिन्यै नमः । श्रीनागजनन्यै नमः । ५० श्रीनागराजप्रवन्दितायै नमः । श्रीनागेश्वर्यै नमः । श्रीनागकन्यायै नमः । श्रीनागर्यै नमः । श्रीनगात्मजायै नमः । श्रीनगाधिराजतनयायै नमः । श्रीनगराजप्रपूजितायै नमः । श्रीनवीनायै नमः । श्रीनीरदायै नमः । श्रीपीतायै नमः । ६० श्रीश्यामायै नमः । श्रीसौन्दर्यकारिण्यै नमः । श्रीरक्तायै नमः । श्रीनीलायै नमः । श्रीघनायै नमः । श्रीशुभ्रायै नमः । श्रीश्वेतायै नमः । श्रीसौभाग्यदायिन्यै नमः । श्रीसुन्दर्यै नमः । श्रीसौभगायै नमः । ७० श्रीसौम्यायै नमः । श्रीस्वर्णाभायै नमः । श्रीस्वर्गतिप्रदायै नमः । श्रीरिपुत्रासकर्यै नमः । श्रीरेखायै नमः । श्रीशत्रुसंहारकारिण्यै नमः । श्रीभामिन्यै नमः । श्रीमायायै नमः । श्रीस्तम्भिन्यै नमः । श्रीमोहिन्यै नमः । ८० श्रीशुभायै नमः । श्रीरागद्वेषकर्यै नमः । श्रीरात्र्यै नमः । श्रीरौरवध्वंसकारिण्यै नमः । श्रीयक्षिण्यै नमः । श्रीसिद्धनिवहायै नमः । श्रीसिद्धेशायै नमः । श्रीसिद्धिरूपिण्यै नमः । श्रीलङ्कापतिध्वंसकर्यै नमः । श्रीलङ्केशरिपुवन्दितायै नमः । ९० श्रीलङ्कानाथकुलहरायै नमः । श्रीमहारावणहारिण्यै नमः । श्रीदेवदानवसिद्धौघपूजितापरमेश्वर्यै नमः । श्रीपराणुरूपापरमायै नमः । श्रीपरतन्त्रविनाशिन्यै नमः । श्रीवरदायै नमः । श्रीवरदाऽऽराध्यायै नमः । श्रीवरदानपरायणायै नमः । श्रीवरदेशप्रियावीरायै नमः । श्रीवीरभूषणभूषितायै नमः । १०० श्रीवसुदायै नमः । श्रीबहुदावाण्यै नमः । श्रीब्रह्मरूपावराननायै नमः । श्रीबलदायै नमः । श्रीपीतवसनापीतभूषणभूषितायै नमः । श्रीपीतपुष्पप्रियायै नमः । श्रीपीतहारायै नमः । श्रीपीतस्वरूपिण्यै नमः । १०८