अक्षर आकार:

श्रीबगलाष्टोत्तरशतनामावली

shrIbagalAShTottarashatanAmAvalI

श्रीबगलाष्टोत्तरशतनामावली

श्रीब्रह्मास्त्ररूपिणीदेवीमाताश्रीबगलामुख्यै नमः । श्रीचिच्छक्त्यै नमः । श्रीज्ञानरूपायै नमः । श्रीब्रह्मानन्दप्रदायिन्यै नमः । श्रीमहाविद्यायै नमः । श्रीमहालक्ष्म्यै नमः । श्रीमत्त्रिपुरसुन्दर्यै नमः । श्रीभुवनेश्यै नमः । श्रीजगन्मात्रे नमः । श्रीपार्वत्यै नमः । १० श्रीसर्वमङ्गलायै नमः । श्रीललितायै नमः । श्रीभैरव्यै नमः । श्रीशान्तायै नमः । श्रीअन्नपूर्णायै नमः । श्रीकुलेश्वर्यै नमः । श्रीवाराह्यै नमः । श्रीछिन्नमस्तायै नमः । श्रीतारायै नमः । श्रीकाल्यै नमः । २० श्रीसरस्वत्यै नमः । श्रीजगत्पूज्यायै नमः । श्रीमहामायायै नमः । श्रीकामेश्यै नमः । श्रीभगमालिन्यै नमः । श्रीदक्षपुत्र्यै नमः । श्रीशिवाङ्कस्थायै नमः । श्रीशिवरूपायै नमः । श्रीशिवप्रियायै नमः । श्रीसर्वसम्पत्करीदेव्यै नमः । ३० श्रीसर्वलोकवशङ्कर्यै नमः । श्रीवेदविद्यायै नमः । श्रीमहापूज्यायै नमः । श्रीभक्ताद्वेष्यै नमः । श्रीभयङ्कर्यै नमः । श्रीस्तम्भरूपायै नमः । श्रीस्तम्भिन्यै नमः । श्रीदुष्टस्तम्भनकारिण्यै नमः । श्रीभक्तप्रियायै नमः । श्रीमहाभोगायै नमः । ४० श्रीश्रीविद्यायै नमः । श्रीललिताम्बिकायै नमः । श्रीमेनापुत्र्यै नमः । श्रीशिवानन्दायै नमः । श्रीमातङ्ग्यै नमः । श्रीभुवनेश्वर्यै नमः । श्रीनारसिंह्यै नमः । श्रीनरेन्द्रायै नमः । श्रीनृपाराध्यायै नमः । श्रीनरोत्तमायै नमः । ५० श्रीनागिन्यै नमः । श्रीनागपुत्र्यै नमः । श्रीनगराजसुतायै नमः । श्रीउमायै नमः । श्रीपीताम्बरायै नमः । श्रीपीतपुष्पायै नमः । श्रीपीतवस्त्रप्रियायै नमः । श्रीशुभायै नमः । श्रीपीतगन्धप्रियायै नमः । श्रीरामायै नमः । ६० श्रीपीतरत्नार्चितायै नमः । श्रीशिवायै नमः । श्रीअर्द्धचन्द्रधरीदेव्यै नमः । श्रीगदामुद्गरधारिण्यै नमः । श्रीसावित्र्यै नमः । श्रीत्रिपदायै नमः । श्रीशुद्धायै नमः । श्रीसद्योरागविवर्द्धिन्यै नमः । श्रीविष्णुरूपायै नमः । श्रीजगन्मोहायै नमः । ७० श्रीब्रह्मरूपायै नमः । श्रीहरिप्रियायै नमः । श्रीरुद्ररूपायै नमः । श्रीरुद्रशक्त्यै नमः । श्रीचिन्मय्यै नमः । श्रीभक्तवत्सलायै नमः । श्रीलोकमाताशिवायै नमः । श्रीसन्ध्यायै नमः । श्रीशिवपूजनतत्परायै नमः । श्रीधनाध्यक्षायै नमः । ८० श्रीधनेश्यै नमः । श्रीधर्मदायै नमः । श्रीधनदायै नमः । श्रीधनायै नमः । श्रीचण्डदर्पहरीदेव्यै नमः । श्रीशुम्भासुरनिवर्हिण्यै नमः । श्रीराजराजेश्वरीदेव्यै नमः । श्रीमहिषासुरमर्दिन्यै नमः । श्रीमधुकैटभहन्त्र्यै नमः । श्रीरक्तबीजविनाशिन्यै नमः । ९० श्रीधूम्राक्षदैत्यहन्त्र्यै नमः । श्रीचण्डासुरविनाशिन्यै नमः । श्रीरेणुपुत्र्यै नमः । श्रीमहामायायै नमः । श्रीभ्रामर्यै नमः । श्रीभ्रमराम्बिकायै नमः । श्रीज्वालामुख्यै नमः । श्रीभद्रकाल्यै नमः । श्रीशत्रुनाशिन्यै नमः । श्रीइन्द्राण्यै नमः । १०० श्रीइन्द्रपूज्यायै नमः । श्रीगुहमात्रे नमः । श्रीगुणेश्वर्यै नमः । श्रीवज्रपाशधरादेव्यै नमः । श्रीजिह्वाधारिण्यै नमः । श्रीमुद्गरधारिण्यै नमः । श्रीभक्तानन्दकरीदेव्यै नमः । श्रीबगलापरमेश्वर्यै नमः । १०८