अक्षर आकार:

श्रीबालौपचाराः

Shri Bala Upachara

श्रीबालौपचाराः

प्रदक्षिणं १०. पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादि फलं ददाति । तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ नमस्कारः १०. रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् । अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ शरणागतदीनार्तपरित्राण परायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ आत्मार्पणं १०. विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते सन्निधिं प्राप्तं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु । चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक् च मे जातु चेत् तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्त्वत्परायणः । त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥ त्वयाऽऽर्जितमिदं सर्वं तव स्वं परमेश्वरि । त्वदधीनं करोमीह त्वदर्थे तन्नियोजय । तव देवि वशे वर्ते तवाज्ञामेव पालयन् ॥ त्वं मातापितरौ त्वमेव सुहृदस्त्वं भ्रातरस्त्वं सखा त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम् । किं भूयः सकलं त्वदीहितमिति ज्ञात्वा कृपाकोमले श्रीविद्येश्वरी संप्रसीद शरणं मातः परं नास्ति मे ॥ शान्तिप्रार्थना माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् । अनिराकरणं मेऽस्तु अनिराकरणं मम । स्वाविद्यैकनिबद्धोऽकरवं कर्माणि मुह्यमानः सन् । दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिः स्यां वा ॥ मायावशेन सुप्तो मध्येऽपश्यं सहस्रशः स्वप्नान् । देशिकवचः प्रबुद्धो दीव्येयं मोदवारिधौ किं वा ॥ जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्त्वं पश्येयं वा मुनिः शान्तः ॥ जगदखिलमिदमसारं मायिकमेवेति मनसि मननेन । पर्यटनपाटिताशः प्रगलितमदमत्सरः स्यां वा ॥ त्वमहमभिमानविहीनो मोदितनानाजनाचारः । बालाचरितः स्यां वा विमलसुखाम्भोनिधौ मग्नः ॥ अवधूतकर्मजालो जडबधिरान्धोपमाचारः । आत्मारामो यतवागकुतश्चनवसतिरासीय ॥ चपलं मनःकुरङ्गं चारु निगृह्णन्विमर्शवागुरया । निगमारण्यविहारश्रान्तं शान्तं विदध्यां वा ॥ सन्त्यज्य शास्त्रवार्ताः संव्यवहारं च लौकिकं त्यक्त्वा । अन्तरनुसन्दधन्मनुं ते स्यां वा निष्कम्पदीपवद्योगी ॥ जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् । भूतं भावि च न विदन् निर्मृष्टाशेषविषयेहः ॥ त्यजतश्च न सम्पन्नं नासम्पन्नं च वाञ्छतः क्वापि । तृप्तिमनुत्तमसीमां लब्धवतः किं लभेय पदम् ॥ पूजासमर्पणं १० अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मिन् भगवति भवनेऽस्तु ते निवासः ॥ १० मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां अक्षस्रक्पुस्तहस्तामभयवरकरां चन्द्रचूडां त्रिणेत्राम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ १० एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ सर्वा आवरणदेवता मन्त्रदेवताश्च देव्यङ्गे विलीना भावये । देवी ज्योतिर्मयी चिन्मयी भाति । लम्बीजा पृथिवी गन्धं समर्पयति । हम्बीज आकाशः पुष्पाणि समर्पयति । यम्बीजो वायुर्धूपमाघ्रापयति । रं बीजोऽग्निः दीपं दर्शयति । वं बीजो वरुणोऽमृतोपहारं निवेदयति । देव्याः पादतले निविष्टः पुष्पाञ्जलिं समर्पयामि । देवीं संविन्मयीं हृदयं नयामि (खेचर्या) । संविदात्मरूपिणीं भावये । जपसमर्पणं वक्रतुण्डादीनां षडङ्गन्यासः । दिग्बन्धः । ध्यानम् । मन्त्रजपः । षडङ्गन्यासः । दिग्विमोकः । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ देव्या हस्ते जपं समर्ययेत् । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतिःस्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि । ॐ तत् सत् । ब्रह्मार्पणमस्तु ॥ इति श्रीबालौपचाराः समाप्ताः ।