अक्षर आकार:

श्रीबालात्रिशतीस्तोत्रम्

Shri Bala Trishati Stotram

श्रीबालात्रिशतीस्तोत्रम्

अस्य श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीबालात्रिपुरसुन्दरी देवता । ऐं बीजं । सौः शक्तिः । क्लीं कीलकं । श्रीबलात्रिपुरसुन्दरी प्रीत्यर्थं श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्रपारायणे विनियोगः । मूलेन द्विरावृत्त्या करहृदयन्यासः । ध्यानम्- रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाभयदामहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ऐंकाररूपा ऐंकारनिलया ऐम्पदप्रिया । ऐंकाररूपिणी चैव ऐंकारवरवर्णिनी ॥ १॥ ऐंकारबीजसर्वस्वा ऐंकाराकारशोभिता । ऐंकारवरदानाढ्या ऐंकारवररूपिणी ॥ २॥ ऐंकारब्रह्मविद्या च ऐंकारप्रचुरेश्वरी । ऐंकारजपसन्तुष्टा ऐंकारामृतसुन्दरी ॥ ३॥ ऐंकारकमलासीना ऐंकारगुणरूपिणी । ऐंकारब्रह्मसदना ऐंकारप्रकटेश्वरी ॥ ४॥ ऐंकारशक्तिवरदा ऐंकाराप्लुतवैभवा । ऐंकारामितसम्पन्ना ऐंकाराच्युतरूपिणी ॥ ५॥ ऐंकारजपसुप्रीता ऐंकारप्रभवा तथा । ऐंकारविश्वजननी ऐंकारब्रह्मवन्दिता ॥ ६॥ ऐंकारवेद्या ऐंकारपूज्या ऐंकारपीठिका । ऐंकारवाच्या ऐंकारचिन्त्या ऐं ऐं शरीरिणी ॥ ७॥ ऐंकारामृतरूपा च ऐंकारविजयेश्वरी । ऐंकारभार्गवीविद्या ऐंकारजपवैभवा ॥ ८॥ ऐंकारगुणरूपा च ऐंकारप्रियरूपिणी । क्लींकाररूपा क्लींकारनिलया क्लींपदप्रिया ॥ ९॥ क्लींकारकीर्तिचिद्रूपा क्लीङ्कारकीर्तिदायिनी । क्लीङ्कारकिन्नरीपूज्या क्लीङ्कारकिंशुकप्रिया ॥ १०॥ क्लींकारकिल्बिषहरी क्लींकारविश्वरूपिणी । क्लींकारवशिनी चैव क्लींकारानङ्गरूपिणी ॥ ११॥ क्लींकारवदना चैव क्लींकाराखिलवश्यदा । क्लींकारमोदिनी चैव क्लीङ्कारहरवन्दिता ॥ १२॥ क्लींकारशम्बररिपुः क्लींकारकीर्तिदा तथा । क्लींकारमन्मथसखी क्लीङ्कारवंशवर्धनी ॥ १३॥ क्लींकारपुष्टिदा चैव क्लींकारकुधरप्रिया । क्लींकारकृष्णसम्पूज्या क्लीं क्लीं किञ्जल्कसन्निभा ॥ १४॥ क्लींकारवशगा चैव क्लींकारनिखिलेश्वरी । क्लींकारधारिणी चैव क्लींकारब्रह्मपूजिता ॥ १५॥ क्लींकारालापवदना क्लींकारनूपुरप्रिया । क्लींकारभवनान्तस्था क्लीं क्लीं कालस्वरूपिणी ॥ १६॥ क्लींकारसौधमध्यस्था क्लींकारकृत्तिवासिनी । क्लींकारचक्रनिलया क्लीं क्लीं किम्पुरुषार्चिता ॥ १७॥ क्लींकारकमलासीना क्लीं क्लीं गन्धर्वपूजिता । क्लींकारवासिनी चैव क्लींकारक्रुद्धनाशिनी ॥ १८॥ क्लींकारतिलकामोदा क्लींकारक्रीडसम्भ्रमा । क्लींकारविश्वसृष्ट्यम्बा क्लींकारविश्वमालिनी ॥ १९॥ क्लींकारकृत्स्नसम्पूर्णा क्लीं क्लीं कृपीठवासिनी । क्लीं मायाक्रीडविद्वेषी क्लीं क्लींकारकृपानिधिः ॥ २०॥ क्लींकारविश्वा क्लींकारविश्वसम्भ्रमकारिणी । क्लींकारविश्वरूपा च क्लींकारविश्वमोहिनी ॥ २१॥ क्लीं माया कृत्तिमदना क्लीं क्लीं वंशविवर्धिनी । क्लींकारसुन्दरी रूपा क्लींकारहरिपूजिता ॥ २२॥ क्लींकारगुणरूपा च क्लींकारकमलप्रिया । सौःकाररूपा सौःकारनिलया सौःपदप्रिया ॥ २३॥ सौःकारसारसदना सौःकारसत्यवादिनी । सौः प्रासादसमासीना सौःकारसाधनप्रिया ॥ २४॥ सौःकारकल्पलतिका सौःकारभक्ततोषिणी । सौःकारसौभरीपूज्या सौःकारप्रियसाधिनी ॥ २५॥ सौःकारपरमाशक्तिः सौःकाररत्नदायिनी । सौःकारसौम्यसुभगा सौःकारवरदायिनी ॥ २६॥ सौःकारसुभगानन्दा सौःकारभगपूजिता । सौःकारसम्भवा चैव सौःकारनिखिलेश्वरी ॥ २७॥ सौःकारविश्वा सौःकारविश्वसम्भ्रमकारिणी । सौःकारविभवानन्दा सौःकारविभवप्रदा ॥ २८॥ सौःकारसम्पदाधारा सौः सौः सौभाग्यवर्धिनी । सौःकारसत्त्वसम्पन्ना सौःकारसर्ववन्दिता ॥ २९॥ सौःकारसर्ववरदा सौःकारसनकार्चिता । सौःकारकौतुकप्रीता सौःकारमोहनाकृतिः ॥ ३०॥ सौःकारसच्चिदानन्दा सौःकाररिपुनाशिनी । सौःकारसान्द्रहृदया सौःकारब्रह्मपूजिता ॥ ३१॥ सौःकारवेद्या सौःकारसाधकाभीष्टदायिनी । सौःकारसाध्यसम्पूज्या सौःकारसुरपूजिता ॥ ३२॥ सौःकारसकलाकारा सौःकारहरिपूजिता । सौःकारमातृचिद्रूपा सौःकारपापनाशिनी ॥ ३३॥ सौःकारयुगलाकारा सौःकारसूर्यवन्दिता । सौःकारसेव्या सौःकारमानसार्चितपादुका ॥ ३४॥ सौःकारवश्या सौःकारसखीजनवरार्चिता । सौःकारसम्प्रदायज्ञा सौः सौः बीजस्वरूपिणी ॥ ३५॥ सौःकारसम्पदाधारा सौःकारसुखरूपिणी । सौःकारसर्वचैतन्या सौः सर्वापद्विनाशिनी ॥ ३६॥ सौःकारसौख्यनिलया सौःकारसकलेश्वरी । सौःकाररूपकल्याणी सौःकारबीजवासिनी ॥ ३७॥ सौःकारविद्रुमाराध्या सौः सौः सद्भिर्निषेविता । सौःकाररससल्लापा सौः सौः सौरमण्डलगा ॥ ३८॥ सौःकाररससम्पूर्णा सौःकारसिन्धुरूपिणी । सौःकारपीठनिलया सौःकारसगुणेश्वरी ॥ ३९॥ सौः सौः पराशक्तिः सौः सौः साम्राज्यविजयप्रदा । ऐं क्लीं सौः बीजनिलया ऐं क्लीं सौः पदभूषिता ॥ ४०॥ ऐं क्लीं सौः ऐन्द्रभवना ऐं क्लीं सौः सफलात्मिका । ऐं क्लीं सौः संसारान्तस्था ऐं क्लीं सौः योगिनीप्रिया ॥ ४१॥ ऐं क्लीं सौः ब्रह्मपूज्या च ऐं क्लीं सौः हरिवन्दिता । ऐं क्लीं सौः शान्तनिर्मुक्ता ऐं क्लीं सौः वश्यमार्गगा ॥ ४२॥ ऐं क्लीं सौः कुलकुम्भस्था ऐं क्लीं सौः पटुपञ्चमी । ऐं क्लीं सौः पैलवंशस्था ऐं क्लीं सौः कल्पकासना ॥ ४३॥ ऐं क्लीं सौः चित्प्रभा चैव ऐं क्लीं सौः चिन्तितार्थदा । ऐं क्लीं सौः कुरुकुल्लाम्बा ऐं क्लीं सौः धर्मचारिणी ॥ ४४॥ ऐं क्लीं सौः कुणपाराध्या ऐं क्लीं सौः सौम्यसुन्दरी । ऐं क्लीं सौः षोडशकला ऐं क्लीं सौः सुकुमारिणी ॥ ४५॥ ऐं क्लीं सौः मन्त्रमहिषी ऐं क्लीं सौः मन्त्रमन्दिरा । ऐं क्लीं सौः मानुषाराध्या ऐं क्लीं सौः मागधेश्वरी ॥ ४६॥ ऐं क्लीं सौः मौनिवरदा ऐं क्लीं सौः मञ्जुभाषिणी । ऐं क्लीं सौः मधुराराध्या ऐं क्लीं सौः शोणितप्रिया ॥ ४७॥ ऐं क्लीं सौः मङ्गलाकारा ऐं क्लीं सौः मदनावती । ऐं क्लीं सौः साध्यगमिता ऐं क्लीं सौः मानसार्चिता ॥ ४८॥ ऐं क्लीं सौः राज्यरसिका ऐं क्लीं सौः रामपूजिता । ऐं क्लीं सौः रात्रिज्योत्स्ना च ऐं क्लीं सौः रात्रिलालिनी ॥ ४९॥ ऐं क्लीं सौः रथमध्यस्था ऐं क्लीं सौः रम्यविग्रहा । ऐं क्लीं सौः पूर्वपुण्येशा ऐं क्लीं सौः पृथुकप्रिया ॥ ५०॥ ऐं क्लीं सौः वटु काराध्या ऐं क्लीं सौः वटुवासिनी । ऐं क्लीं सौः वरदानाढ्या ऐं क्लीं सौः वज्रवल्लकी ॥ ५१॥ ऐं क्लीं सौः नारदनता ऐं क्लीं सौः नन्दिपूजिता । ऐं क्लीं सौः उत्पलाङ्गी च ऐं क्लीं सौः उद्भवेश्वरी ॥ ५२॥ ऐं क्लीं सौः नागगमना ऐं क्लीं सौः नामरूपिणी । ऐं क्लीं सौः सत्यसङ्कल्पा ऐं क्लीं सौः सोमभूषणा ॥ ५३॥ ऐं क्लीं सौः योगपूज्या च ऐं क्लीं सौः योगगोचरा । ऐं क्लीं सौः योगिवन्द्या च ऐं क्लीं सौः योगिपूजिता ॥ ५४॥ ऐं क्लीं सौः ब्रह्मगायत्री ऐं क्लीं सौः ब्रह्मवन्दिता । ऐं क्लीं सौः रत्नभवना ऐं क्लीं सौः रुद्रपूजिता ॥ ५५॥ ऐं क्लीं सौः चित्रवदना ऐं क्लीं सौः चारुहासिनी । ऐं क्लीं सौः चिन्तिताकारा ऐं क्लीं सौः चिन्तितार्थदा ॥ ५६॥ ऐं क्लीं सौः वैश्वदेवेशी ऐं क्लीं सौः विश्वनायिका । ऐं क्लीं सौः ओघवन्द्या च ऐं क्लीं सौः ओघरूपिणी ॥ ५७॥ ऐं क्लीं सौः दण्डिनीपूज्या ऐं क्लीं सौः दुरतिक्रमा । ऐं क्लीं सौः मन्त्रिणीसेव्या ऐं क्लीं सौः मानवर्धिनी ॥ ५८॥ ऐं क्लीं सौः वाणीवन्द्या च ऐं क्लीं सौः वागधीश्वरी । ऐं क्लीं सौः वाममार्गस्था ऐं क्लीं सौः वारुणीप्रिया ॥ ५९॥ ऐं क्लीं सौः लोकसौन्दर्या ऐं क्लीं सौः लोकनायिका । ऐं क्लीं सौः हंसगमना ऐं क्लीं सौः हंसपूजिता ॥ ६०॥ ऐं क्लीं सौः मदिरामोदा ऐं क्लीं सौः महदर्चिता । ऐं क्लीं सौः ज्ञानगम्या ऐं क्लीं सौः ज्ञानवर्धिनी ॥ ६१॥ ऐं क्लीं सौः धनधान्याढ्या ऐं क्लीं सौः धैर्यदायिनी । ऐं क्लीं सौः साध्यवरदा ऐं क्लीं सौः साधुवन्दिता ॥ ६२॥ ऐं क्लीं सौः विजयप्रख्या ऐं क्लीं सौः विजयप्रदा । ऐं क्लीं सौः वीरसंसेव्या ऐं क्लीं सौः वीरपूजिता ॥ ६३॥ ऐं क्लीं सौः वीरमाता च ऐं क्लीं सौः वीरसन्नुता । ऐं क्लीं सौः सच्चिदानन्दा ऐं क्लीं सौः सद्गतिप्रदा ॥ ६४॥ ऐं क्लीं सौः भण्डपुत्रघ्नी ऐं क्लीं सौः दैत्यमर्दिनी । ऐं क्लीं सौः भण्डदर्पघ्नी ऐं क्लीं सौः भण्डनाशिनी ॥ ६५॥ ऐं क्लीं सौः शरभदमना ऐं क्लीं सौः शत्रुमर्दिनी । ऐं क्लीं सौः सत्यसन्तुष्टा ऐं क्लीं सौः सर्वसाक्षिणी ॥ ६६॥ ऐं क्लीं सौः सम्प्रदायज्ञा ऐं क्लीं सौः सकलेष्टदा । ऐं क्लीं सौः सज्जननुता ऐं क्लीं सौः हतदानवा ॥ ६७॥ ऐं क्लीं सौः विश्वजननी ऐं क्लीं सौः विश्वमोहिनी । ऐं क्लीं सौः सर्वदेवेशी ऐं क्लीं सौः सर्वमङ्गला ॥ ६८॥ ऐं क्लीं सौः मारमन्त्रस्था ऐं क्लीं सौः मदनार्चिता । ऐं क्लीं सौः मदघूर्णाङ्गी ऐं क्लीं सौः कामपूजिता ॥ ६९॥ ऐं क्लीं सौः मन्त्रकोशस्था ऐं क्लीं सौः मन्त्रपीठगा । ऐं क्लीं सौः मणिदामाढ्या ऐं क्लीं सौः कुलसुन्दरी ॥ ७०॥ ऐं क्लीं सौः मातृमध्यस्था ऐं क्लीं सौः मोक्षदायिनी । ऐं क्लीं सौः मीननयना ऐं क्लीं सौः दमनपूजिता ॥ ७१॥ ऐं क्लीं सौः कालिकाराध्या ऐं क्लीं सौः कौलिकप्रिया । ऐं क्लीं सौः मोहनाकारा ऐं क्लीं सौः सर्वमोहिनी ॥ ७२॥ ऐं क्लीं सौः त्रिपुरादेवी ऐं क्लीं सौः त्रिपुरेश्वरी । ऐं क्लीं सौः देशिकाराध्या ऐं क्लीं सौः देशिकप्रिया ॥ ७३॥ ऐं क्लीं सौः मातृचक्रेशी ऐं क्लीं सौः वर्णरूपिणी । ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दरी ॥ ७४॥ इत्येवं त्रिशतीस्तोत्रं पठेन्नित्यं शिवात्मकम् । सर्वसौभाग्यदं चैव सर्वदौर्भाग्यनाशनम् ॥ ७५॥ आयुष्करं पुष्टिकरं आरोग्यं चेप्सितप्रदम् । धर्मज्ञत्व धनेशत्व विश्वाद्यत्व विवेकदम् ॥ ७६॥ विश्वप्रकाशदं चैव विज्ञानविजयप्रदम् । विधातृत्वं वैष्णवत्वं शिवत्वं लभते यतः ॥ ७७॥ सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलदायकम् । सर्वदारिद्र्यशमनं सर्वदा तुष्टिवर्धनम् ॥ ७८॥ पूर्णिमायां दिने शुक्रे उच्चरेच्च विशेषतः । अथो विशेषपूजां च पौष्यस्नानं समाचरेत् ॥ ७९॥ सायाह्नेऽप्यथ मध्याह्ने देवीं ध्यात्वा मनुं जपेत् । जपेत्सूर्यास्तपर्यन्तं मौनी भूत्वा महामनुम् ॥ ८०॥ परेऽहनि तु सन्तर्प्य एलावासितसज्जलैः । जुहुयात्सर्वसामग्र्या पायसान्नफलैस्सुमैः ॥ ८१॥ दध्ना मधुघृतैर्युक्तलाजैः पृथुकसंयुतैः । ब्राह्मणान् भोजयेत्पश्चात् सुवासिन्या समन्वितान् ॥ ८२॥ सम्पूज्य मन्त्रमाराध्य कुलमार्गेण सम्भ्रमैः । एवमाराध्य देवेशीं यं यं काममभीच्छति ॥ ८३॥ तत्तत्सिद्धिमवाप्नोति देव्याज्ञां प्राप्य सर्वदा । त्रिशतीं यः पठेद्भक्त्या पौर्णामास्यां विशेषतः ॥ ८४॥ ग्रहणे सङ्क्रमे चैव शुक्रवारे शुभे दिने । सुन्दरीं चक्रमध्ये तु समाराध्य सदा शुचिः ॥ ८५॥ सुवासिन्यर्चनं कुर्यात्कन्यां वा समवर्णिनीम् । चक्रमध्ये निवेश्याथ घटीं करतले न्यसेत् ॥ ८६॥ सम्पूज्य परया भक्त्या साङ्गैस्सावरणैस्सह । षोडशैरूपचारैश्च पूजयेत्परदेवताम् ॥ ८७॥ सन्तर्प्य कौलमार्गेण त्रिशतीपादपूजने । सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥ ८८॥ इति श्रीकुलावर्णवतन्त्रे योगिनीरहस्ये श्रीबालात्रिशतीस्तोत्रं सम्पूर्णम् ।