अक्षर आकार:

श्रीबालात्रिपुरसुन्दरीस्तोत्रम्

Balatripurasundaristotram

श्रीबालात्रिपुरसुन्दरीस्तोत्रम्

॥ श्री बालात्रिपुरसुन्दर्यै नमः ॥ ॥ पूर्वपीठिका ॥ श्री भैरव उवाच अधुना देवि ! बालायाः स्तोत्रं वक्ष्यामि पार्वति ! । पञ्चमाङ्गं रहस्यं मे श्रुत्वा गोप्यं प्रयत्नतः ॥ ॥ विनियोग ॥ ॐ अस्य श्रीबालात्रिपुरसुन्दरीस्तोत्रमन्त्रस्य श्री दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं किलकं, श्रीबालाप्रीतये पाठे विनियोगः । ॥ ऋष्यादि न्यास ॥ ॐ श्री दक्षिणामूर्तिऋषये नमः - शिरसि । ॐ श्री पङ्क्तिश्छन्दसे नमः - मुखे । ॐ श्रीबालात्रिपुरसुन्दरी देवतायै नमः - हृदि । ॐ ऐं बीजाय नमः - नाभौ । ॐ सौः शक्तये नमः - गुह्ये । ॐ क्लीं कीलकाय नमः - पादयोः । ॐ श्रीबालाप्रीतये पाठे विनियोगाय नमः - सर्वाङ्गे । ॥ करन्यासः ॥ ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ सौः मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ सौः करतलकरपृष्ठाभ्यां नमः । ॥ अङ्गन्यास ॥ ॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ सौः शिखायै वौषट् । ॐ ऐं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषतट् । ॐ सौः अस्त्राय फट् । ॥ ध्यान ॥ अरुणकिरणजालै रञ्जिताशावकाशा । विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकह्लारसंस्था । निवसतु हृदि बाला नित्यकल्याणरूपा ॥ ॥ मानस पूजन ॥ ॐ लं पृथिवीतत्त्वात्मकं गन्धं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीबालात्रिपुराप्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीबालात्रिपुराप्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीबालात्रिपुराप्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः । ॥ मूल श्रीबालास्तोत्रम् ॥ वाणीं जपेद् यस्त्रिपुरे ! भवान्या बीजं निशीथे जडभावलीनः । भवेत स गीर्वाणगुरोर्गरीयान् गिरीशपत्नि प्रभुतादि तस्य ॥ १॥ var प्रभयार्दि तस्य कामेश्वरि ! त्र्यक्षरी कामराजं जपेद् दिनान्ते तव मन्त्रराजम् । var जपेद् रतान्ते रम्भाऽपि जृम्भारिसभां विहाय भूमौ भजेत् तं कुलदीक्षितं च ॥ २॥ तार्तीयकं बीजमिदं जपेद् यस्त्रैलोक्यमातस्त्रिपुरे ! पुरस्तात् । विधाय लीलां भुवने तथान्ते निरामयं ब्रह्मपदं प्रयाति ॥ ३॥ धरासद्मत्रिवृत्ताष्टपत्रषट्कोणनागरे । विन्दुपीठेऽर्चयेद् बालां योऽसौ प्रान्ते शिवो भवेत् ॥ ४॥ ॥ फलश्रुति ॥ इति मन्त्रमयं स्तवं पठेद् यस्त्रिपुराया निशि वा निशावसाने । स भवेद् भुवि सार्वभौममौलिस्त्रिदिवे शक्रसमानशौर्यलक्ष्मीः ॥ १॥ इतीदं देवि ! बालाया स्तोत्रं मन्त्रमयं परम् । अदातव्यमभक्तेभ्यो गोपनीयं स्वयोनिवत् ॥ २॥ ॥ श्रीरुद्रयामले तन्त्रे भैरवभैरवीसंवादे श्रीबालात्रिपुरसुन्दरीस्तोत्रम् ॥