अक्षर आकार:

श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् २

Shri Balatripurasundari Sahasranamastotram 2

श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् २

समाध्युपरतं काले कदाचिद्विजने मुदा । परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १॥ श्रीदेव्युवाच - श्रीमन्नाथ तवानन्दकारणं ब्रूहि शङ्कर । योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे । कृपास्ति यदि मे शम्भो सुगोप्यमपि कथ्यताम् ॥ २॥ श्रीभैरवः निर्भरानन्दसन्दोहः शक्तिभावेन जायते । लावण्यसिन्धुस्तत्रास्ति बालाया रसकन्दरः ॥ ३॥ तामेवानुक्षणं देवीं चिन्तयामि ततः शिवाम् । तस्या नामसहस्राणि कथयामि तव प्रिये ॥ ४॥ सुगोप्यान्यपि रम्भोरु गम्भीरस्नेहविभ्रमात् । तामेव स्तुवतो देवि ध्यायतोऽनुक्षणं मम । सुखसन्दोहसम्भावो ज्ञानानन्दस्य कारणम् ॥ ५॥ अस्य श्रीबालात्रिपुरसुन्दरी सहस्रनामस्तोत्रस्य शङ्कर ऋषिः, अनुष्टुप् छन्दः । श्रीबालात्रिपुरा देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीबालाप्रीत्यर्थे समस्तपुरुषार्थसिद्‍ध्यर्थे पारायणे विनियोगः । ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्यानम् । अरुणकिरणजालै रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हार संस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥ रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ आनन्दसिन्धुरानन्दाऽऽनन्दमूर्तिर्विनोदिनी । त्रिपुरा सुन्दरी प्रेमपाथोनिधिरनुत्तमा ॥ १॥ वामार्धगह्वरा भूतिर्विभूतिः शङ्करी शिवा । श‍ृङ्गारमूर्तिर्वरदा रसा च शुभगोचरा ॥ २॥ परमानन्दलहरी रती रङ्गवती गतिः । रङ्गमालानङ्गकला केली कैवल्यदा कला ॥ ३॥ रसकल्पा कल्पलता कुतूहलवती गतिः । विनोददिग्धा सुस्निग्धा मुग्धमूर्तिर्मनोरमा ॥ ४॥ बालार्ककोटिकिरणा चन्द्रकोटिसुशीतला । स्रवत्पीयूषदिग्धाङ्गी स्वर्गार्थपरिकल्पिता ॥ ५॥ कुरङ्गनयना कान्ता सुगतिः सुखसन्ततिः । राजराजेश्वरी राज्ञी महेन्द्रपरिवन्दिता ॥ ६॥ प्रपञ्चगतिरीशानी प्रपञ्चगतिरुत्तमा । दुर्वासा दुःसहा शक्तिः शिञ्जत्कनकनूपुरा ॥ ७॥ मेरुमन्दरवक्षोजा सृणिपाशवरायुधा । शरकोदण्डसंसक्तपाणिद्वयविराजिता ॥ ८॥ चन्द्रबिम्बानना चारुमुकुटोत्तंसचन्द्रिका । सिन्दूरतिलका चारुधम्मिल्लामलमालिका ॥ ९॥ मन्दारदाममुदिता रत्नमालाविभूषिता । सुवर्णाभरणप्रीता मुक्तादाममनोरमा ॥ १०॥ ताम्बूलपूर्णवदना मदनानन्दमानसा । सुखाराध्या तपः सारा कृपापारा विधीश्वरी ॥ ११॥ वक्षःस्थललसद्रत्नप्रभा मधुरसोन्मदा । बिन्दुनादात्मकोच्चाररहिता तुर्यरूपिणी ॥ १२॥ कमनीयाकृतिर्धन्या शाङ्करी प्रीतिमञ्जरी । प्रपञ्चा पञ्चमी पूर्णा पूर्णपीठनिवासिनी ॥ १३॥ राज्यलक्ष्मीश्च श्रीलक्ष्मीर्महालक्ष्मीः सुराजिका । सन्तोषसीमा सम्पत्तिः शातकौम्भी १ तथा द्युतिः ॥ १४॥ १ शातकुम्भप्रियाकृतिः परिपूर्णा जगद्धात्री विधात्री बलवर्धिनी । सार्वभौमनृपश्रीश्च साम्राज्यगतिरम्बिका ॥ १५॥ सरोजाक्षी दीर्घदृष्टिः साचीक्षणविचक्षणा । रङ्गस्रवन्ती रसिका (१००) प्रधाना रसरूपिणी ॥ १६॥ रससिन्धुः सुगात्री च धूसरी मैथुनोन्मुखा । निरन्तरगुणासक्ता शक्तिर्निधुवनात्मिका ॥ १७॥ कामाक्षी कमनीया च कामेशी भगमङ्गला । सुभगा भोगिनी भोग्या भग्यदा सुभगा भगा ॥ १८॥ भगलिङ्गानन्दकला भगमध्यनिवासिनी । भगरूपा भगमयी भगयन्त्रा भगोत्तमा ॥ १९॥ योनिमुद्रा कामकला कुलामृतपरायणा । कुलकुण्डालया सूक्ष्मा जीवात्मा लिङ्गरूपिणी ॥ २०॥ मूलक्रिया मूलरूपा मूलाकृतिस्वरूपिणी । सोत्सुका कमलानन्दा चिद्भावाऽऽत्मगतिः शिवा ॥ २१॥ श्वेतारुणा बिन्दुरूपा वेदयोनिर्ध्वनिक्षणा । घण्टाकोटि रवारावा रविबिम्बोत्थिताऽद्भुता ॥ २२॥ नादान्तलीना सम्पूर्णा पूर्णस्था बहुरूपिका । भृङ्गारावा वंशगतिर्वादित्रा मुरजध्वनिः ॥ २३॥ वर्णमाला सिद्धिकला षट् चक्रक्रमवासिनी । मूलकेलीरता स्वाधिष्ठाना तुर्यनिवासिनी ॥ २४॥ मणिपूरस्थितिः स्निग्धा कूर्मचक्रपरायणा । अनाहतगतिर्दीपशिखा मणिमयाकृतिः ॥ २५॥ विशुद्धा शब्दसंशुद्धा जीवबोधस्थली रवा । आज्ञाचक्राब्जसंस्था च स्फुरन्ती निपुणा त्रिवृत् ॥ २६॥ चन्द्रिका चन्द्रकोटि श्रीः सूर्यकोटिप्रभामयी । पद्मरागारुणच्छाया निश्चलाऽमृतनन्दिनी । कान्ताङ्गसङ्गमुदिता सुधामाधुर्यसम्भृता ॥ २८॥ महामञ्चस्थिताऽलिप्ता तृप्ता दृप्ता सुसम्भृतिः । स्रवत्पीयूषसंसिक्ता रक्तार्णवविवर्धिनी ॥ २९॥ सुरक्ता प्रियसंसिक्ता शश्वत्कुण्डालयाऽभया । (२००) । श्रेयः श्रुतिश्च प्रत्येकानवकेशिफलावली ॥ ३०॥ प्रीता शिवा शिवप्रिया शाङ्करी शाम्भवी विभा । स्वयम्भूः स्वप्रिया स्वीया स्वकीया जनमातृका ॥ ३१॥ स्वारामा स्वाश्रया साध्वी सुधाधाराऽधिकाधिका । मङ्गलोज्जयिनी मान्या सर्वमङ्गलसङ्गिनी ॥ ३२॥ भद्रा भद्रावली कन्या कलितार्धेन्दुबिम्बभाक् । कल्याणलतिका काम्या कुकर्मा कुमतिर्मनुः ॥ ३३॥ कुरङ्गाक्षी क्षीबनेत्रा क्षारा रसमदोन्मदा । वारुणीपानमुदिता मदिरारचिताश्रया ॥ ३४॥ कादम्बरीपानरुचिर्विपाशा पाशभीतिनुत् । मुदिता मुदितापाङ्गा दरदोलितदीर्घदृक् ॥ ३५॥ दैत्यकुलानलशिखा मनोरथसुधाद्युतिः । सुवासिनी पीनगात्री पीनश्रोणिपयोधरा ॥ ३६॥ सुचारुकबरी दन्तदीधितिदीप्रमौक्तिका । बिम्बाधरा द्युतिमुखा प्रवालोत्तमदीधितिः ॥ ३७॥ तिलप्रसूननासाग्रा हेमकक्कोलभालका । निष्कलङ्केन्दुवदना बालेन्दुमुकुटोज्ज्वला ॥ ३८॥ नृत्यत्खञ्जननेत्रश्रीर्विस्फुरत्कर्णशष्कुली । बालचन्द्रातपत्रार्धा मणिसूर्यकिरीटिनी १ ॥ ३९॥ १ केशौघचम्पकासेनामालतीदामपण्डिता - इत्यधिकम् । हेममाणिक्यताटङ्का मणिकाञ्चनकुण्डला । सुचारुचिबुका कम्बुकण्ठी मणिमनोरमा ॥ ४०॥ गङ्गातरङ्गहारोर्मिर्मत्तकोकिलनिःस्वना । मृणालविलसद्बाहुः पाशाङ्कुशधनुर्धरा ॥ ४१॥ केयूरकटकाच्छन्ना नानारत्नमनोरमा । ताम्रपङ्कजपाणिश्रीर्नखरत्नप्रभावती ॥ ४२॥ अङ्गुलीयमणिश्रेणिचञ्चदङ्गुलिसन्ततिः । मन्दरद्वन्द्वसुकुचा रोमराजीभुजङ्गका ॥ ४३॥ गम्भीरनाभिस्त्रिवलीवलया च सुमध्यमा । रणत्काञ्चीगुणोन्नद्धा पट्टांशुकसुनीविका ॥ ४४॥ मेरुगुण्डीनितम्बाढ्या गजगण्डोरुयुग्मयुक् । सुजानुमन्दरासक्तलसज्जङ्घाद्वयान्विता ॥ ४५॥ गूढगुल्फा मञ्जुशिञ्जन्मणिनूपुरमण्डिता १ । १ पदद्वन्द्वा रुणाम्भोजा नखचन्द्रा रविप्रभा । सुसोमप्रपदा राजहंसा मत्तेभमन्दगा ॥ इत्यधिकम् (extra) । योगिध्येयपदद्वन्द्वा सुधामाऽमृतसारिणी ॥ ४६॥ लावण्यसिन्धुः सिन्दूरतिलका कुटिलालका । साधुसिद्धा सुबुद्धा च बुधा वृन्दारकोदया ॥ ४७॥ बालार्ककिरणश्रेणीशोणा श्रीप्रेमकामधुक् । रसगम्भीरसरसी पद्मिनी (३००) रससारसा ॥ ४८॥ प्रसन्नाऽऽसन्नवरदा शारदा च सुभाग्यदा । नटराजप्रिया विश्वनाट्या नर्तकनर्तकी ॥ ४९॥ विचित्रयन्त्रा चित्तन्त्रा विद्यावल्ली गतिः शुभा । कूटारकूटा कूटस्था पञ्चकूटा च पञ्चमी ॥ ५०॥ चतुष्कूटा त्रिकूटाद्या षट्कूटा वेदपूजिता । कूटषोडशसम्पन्ना तुरीया परमा कला ॥ ५१॥ षोडशी मन्त्रयन्त्राणामीश्वरी मेरुमण्डला । षोडशार्णा त्रिवर्णा च बिन्दुनादस्वरूपिणी ॥ ५२॥ वर्णातीता वर्णमाता शब्दब्रह्ममहासुखा । चैतन्यवल्ली कूटात्मा कामेशी स्वप्रदृश्यगा ॥ ५३॥ स्वप्नावती बोधकरी जागृतिर्जागराश्रया । स्वप्नाश्रया सुषुप्तिश्च तन्द्रामुक्ता च माधवी ॥ ५४॥ लोपामुद्रा कामराज्ञी मानवी वित्तपार्चिता । शाकम्भरी नन्दिविद्या भास्वद्विद्योतमालिनी ॥ ५५॥ माहेन्द्री स्वर्गसम्पत्तिर्दुर्वासःसेविता श्रुतिः । साधकेन्द्रगतिः साध्वी सुलभा सिद्धिकन्दरा ॥ ५६॥ पुरत्रयेशी पुरजिदर्चिता पुरदेवता । पुष्टिर्विघ्नहरी भूतिर्विगुणा पूज्यकामधुक् ॥ ५७॥ हिरण्यमाता गणपा गुहमाता नितम्बिनी । सर्वसीमन्तिनी मोक्षा दीक्षा दीक्षितमातृका ॥ ५८॥ साधकाम्बा सिद्धमाता साधकेन्द्रा मनोरमा । यौवनोन्मादिनी तुङ्गा सुश्रोणिर्मदमन्थरा ॥ ५९॥ पद्मरक्तोत्पलवती रक्तमाल्यानुलेपना । रक्तमालारुचिः शिखाशिखण्डिन्यतिसुन्दरी ॥ ६०॥ शिखण्डिनृत्तसन्तुष्टा सौरभेयी वसुन्धरा । सुरभिः कामदा काम्या कमनीयार्थकामदा ॥ ६१॥ नन्दिनी लक्षणवती वसिष्ठालयदेवता । गोलोकदेवी (४००) लोकश्रीर्गोलोकपरिपालिका ॥ ६२॥ हविर्धानी देवमाता वृन्दारकवरानुयुक् । रुद्रपत्नी भद्रमाता सुधाधाराऽम्बुविक्षतिः ॥ ६३॥ दक्षिणा यज्ञसम्मूर्तिः सुबाला धीरनन्दिनी । क्षीरपूर्णार्णवगतिः सुधायोनिः सुलोचना ॥ ६४॥ रामानुगा सुसेव्या च सुगन्धालयवासगा । सुचारित्रा सुत्रिपुरा सुस्तनी स्तनवत्सला ॥ ६५॥ रजस्वला रजोयुक्ता रञ्जिका रङ्गमालिका । रक्तप्रिया सुरक्ता च रतिरङ्गस्वरूपिणी ॥ ६६॥ रजः शुक्राम्बिका निष्ठा रतनिष्ठा रतिस्पृहा । हावभावा कामकेलिसर्वस्वा सुरजीविका ॥ ६७॥ स्वयम्भूकुसुमानन्दा स्वयम्भूकुसुमप्रिया । स्वयम्भूप्रीतिसन्तुष्टा स्वयम्भूनिन्दकान्तकृत् ॥ ६८॥ स्वयम्भूस्था शक्तिपुटी रतिसर्वस्वपीठिका । अत्यन्तसभिका दूती विदग्धा प्रीतिपूजिता ॥ ६९॥ कुल्लिका यन्त्रनिलया योगपीठाधिवासिनी । सुलक्षणा रसरूपा सर्वलक्षणलक्षिता ॥ ७०॥ नानालङ्कारसुभगा पञ्चबाणसमर्चिता । ऊर्ध्वत्रिकोणनिलया बाला कामेश्वरी तथा ॥ ७१॥ गणाध्यक्षा कुलाध्यक्षा लक्ष्मीश्चैव सरस्वती । वसन्तसमयप्रीता प्रीतिः कुचभरानता ॥ ७२॥ कलाधरमुखाऽमूर्धा पादवृद्धिः कलावती । पुष्पप्रिया धृतिश्चैव रतिकण्ठी मनोरमा ॥ ७३॥ मदनोन्मादिनी चैव मोहिनी पार्वणीकला । शोषिणी वशिनी राजिन्यत्यन्तसुभगा भगा ॥ ७४॥ पूषा वशा च सुमना रतिः प्रीतिर्धृतिस्तथा । ऋद्धिः सौम्या मरीच्यंशुमाला प्रत्यङ्गिरा तथा ॥ ७५॥ शशिनी चैव सुच्छाया सम्पूर्णमण्डलोदया । तुष्टा चामृतपूर्णा च भगयन्त्रनिवासिनी ॥ ७६॥ लिङ्गयन्त्रालया (५००) शम्भुरूपा संयोगयोगिनी । द्राविणी बीजरूपा च अक्षुब्धा साधकप्रिया ॥ ७७॥ राजबीजमयी राज्यसुखदा वाञ्छितप्रदा । रजः संवीर्यशक्तिश्च शुक्रविच्छिवरूपिणी ॥ ७८॥ सर्वसारा सारमया शिवशक्तिमयी प्रभा । संयोगानन्दनिलया संयोगप्रीतिमातृका ॥ ७९॥ संयोगकुसुमानन्दा संयोगा योगवर्धिनी । संयोगसुखदारस्था चिदानन्दैकसेविता ॥ ८०॥ अर्ध्यपूजकसम्पत्तिरर्घ्यद्रव्यस्वरूपिणी । सामरस्या परा प्रीता प्रियसङ्गमरूपिणी ॥ ८१॥ ज्ञानदूती ज्ञानगम्या ज्ञानयोनिः शिवालया । चित्कला ज्ञानसकला सकुला सकुलात्मिका ॥ ८२॥ कलाचतुष्टयी पद्मिन्यतिसूक्ष्मा परात्मिका । हंसकेलिस्थली च्छाया हंसद्वयविकासिनी ॥ ८३॥ विरागता मोक्षकला परमात्मकलावती । विद्याकलान्तरात्मस्था चतुष्टयकलावती ॥ ८४॥ विद्यासन्तोषिणी तृप्तिः परब्रह्मप्रकाशिका । परमात्मपरा वस्तुलीनशक्तिचतुष्टयी ॥ ८५॥ शान्तिर्बोधकलावाप्तिः परज्ञानात्मिका कला । पश्यन्ती परमात्मस्था चान्तरात्मकलाकुला ॥ ८६॥ मध्यमा वैखरी चात्मकलानन्दा कलावती । तारिणी तरणी तारा शिवलिङ्गालयाऽऽत्मवित् ॥ ८७॥ परस्परशुभाचारा ब्रह्मानन्दविनोदिनी । रसालसा दूतरासा सार्था सार्थप्रिया ह्युमा ॥ ८८॥ जात्यादिरहिता योगियोगिन्यानन्दवर्धिनी । १ १ कान्ता शान्ता दान्तगतिर्वेदाद्युद्दामपद्धतिः - इत्यधिकम् । वीरभावप्रदा दिव्या वीरसूर्वीरभावदा ॥ ८९॥ पशुत्वाभिवीरगतिर्वीरसङ्गमहोदया । मूर्धाभिषिक्त राजश्रीः क्षत्रियोत्तममातृका ॥ ९०॥ शस्त्रास्त्रकुशला शोभा रसस्था युद्धजीविका । विजया योगिनी यात्रा परसैन्यविमर्दिनी ॥ ९१॥ पूर्णा (६००) वित्तैषिणी वित्ता वित्तसञ्चयशालिनी । भाण्डागारस्थिता रत्ना रत्नश्रेण्यधिवासिनी ॥ ९२॥ महिषी राजभोग्या च गणिका गणभोगभृत् । करिणी वडवा योग्या मल्लसेना पदातिका ॥ ९३॥ सैन्यश्रेणी शौर्यरता पताकाध्वजवासिनी । सुच्छत्रा चाम्बिका चाम्बा प्रजापालनसद्गतिः ॥ ९४॥ सुरभिः पूजकाचारा राजकार्यपरायणा । ब्रह्मक्षत्रमयी सोमसूर्यान्तर्यामिनी स्थितिः ॥ ९५॥ पौरोहित्यप्रिया साध्वी ब्रह्माणी यज्ञसन्ततिः । सोमपानपरा प्रीता जनाढ्या तपना क्षमा ॥ ९६॥ प्रतिग्रहपरा दात्री सृष्टाजातिः सताङ्गतिः । गायत्री वेदलभ्या च दीक्षा सन्ध्यापरायणा ॥ ९७॥ रत्नसद्दीधितिर्विश्ववासना विश्वजीविका । कृषिवाणिज्यभूतिश्च वृद्धिर्धीश्च कुसीदिका ॥ ९८॥ कुलाधारा सुप्रसारा मनोन्मनी परायणा । शूद्रा विप्रगतिः कर्मकरी कौतुकपूजिता ॥ ९९॥ नानाविचारचतुरा बाला प्रौढा कलामयी । सुकर्णधारा नौः पारा सर्वाशा दुर्गमोचनी ॥ १००॥ दुर्गा विन्ध्यवनस्था च कन्दर्पनयपूरणी । भूभारशमनी कृष्णा रक्षाराध्या रसोल्लसा ॥ १०१॥ त्रिविधोत्पातशमनी समग्रसुखशेवधिः । पञ्चावयववाक्यश्रीः प्रपञ्चोद्यानचन्द्रिका ॥ १०२॥ सिद्धसन्दोहसुखिता योगिनीवृन्दवन्दिता । नित्याषोडशारूपा च कामेशी भगमालिनी ॥ १०३॥ नित्यक्लिन्ना च भी(भे) रुण्डा वह्निमण्डलवासिनी । महाविद्येश्वरी नित्या शिवदूतीति विश्रुता ॥ १०४॥ त्वरिता प्रथिता ख्याता विख्याता कुलसुन्दरी । नित्या नीलपताका च विजया सर्वमङ्गला ॥ १०५॥ ज्वालामाला(७००) विचित्रा च महात्रिपुरसिन्दरी । गुरुवृन्दा परगुरुः प्रकाशानन्दनाथिनी ॥ १०६॥ शिवानन्दनाथरूपा शक्त्यानन्दस्वरूपिणी । देव्यानन्दनाथमयी कौलेशानन्दनाथिनी ॥ १०७॥ दिव्यौघगुरुरूपा च समयानन्दनाथिनी । शुक्लदेव्यानन्दनाथा कुलेशानन्दनाथिनी १ ॥ १०८॥ १ कामेश्वर्यानन्दनाथमयी श्रीगुरुरूपिणी - इत्यधिकम् । क्लिन्नाङ्गानन्दरूपा च समयानन्दनाथिनी । वेदानन्दनाथमयी सहजानन्दनाथिनी ॥ १०९॥ सिद्धौघगुरुरूपा च अपरागुरुरूपिणी । गगनानन्दनाथा च विश्वानन्दस्वनाथिनी ॥ ११०॥ विमलानन्दनाथा च मदनानन्दनाथिनी । भुवनाद्या च लीलाद्या नन्दनानन्दनाथिनी ॥ १११॥ स्वात्मानन्दानन्दरूपा प्रियाद्यानन्दनाथिनी । मानवौघगुरुश्रेष्ठा परमेष्ठि गुरुप्रभा ॥ ११२॥ परगुह्या गुरुशक्तिः स्वगुरुकीर्तनप्रिया । त्रैलोक्यमोहनख्याता सर्वाशापरिपूरका ॥ ११३॥ सर्वसङ्क्षोभिणी पूर्वाम्नायप्रथितवैभवा । शिवाशक्तिः शिवशक्तिः शिवचक्रत्रयालया ॥ ११४॥ सर्वसौभाग्यदाख्या च सर्वार्थसाधिकाह्वया । सर्वरक्षाकराख्या च दक्षिणाम्नायदेवता ॥ ११५॥ मध्यार्कचक्रनिलया पश्चिमाम्नायदेवता । नवचक्रकृतावासा कौबेराम्नायदेवता ॥ ११६॥ कुबेरपूज्या कुलजा कुलाम्नायप्रवर्तिनी । बिन्दुचक्रकृतावासा मध्यसिंहासनेश्वरी ॥ ११७॥ श्रीविद्या च महालक्ष्मीः लक्ष्मीः शक्तित्रयात्मिका । सर्वसाम्राज्यलक्ष्मीश्च पञ्चलक्ष्मीतिविश्रुता ॥ ११८॥ श्रीविद्या च परञ्ज्योतिः परनिष्कलशाम्भवी । मातृका पञ्चकोशी च श्रीविद्या त्वरिता तथा ॥ ११९॥ पारिजातेश्वरी चैव त्रिकूटा पञ्चबाणगा । पञ्चकल्पलता पञ्चविद्या चामृतपीठिका ॥ १२०॥ सुधासू रमणेशाना चान्नपूर्णा च कामधुक् । श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ॥ १२१॥ वाराही पञ्चरत्नानामीश्वरी मातृवर्णगा । पराञ्ज्योतिः कोशरूपा ऐन्दवी कलया युता ॥ १२२॥ परितः स्वामिनी शक्तिदर्शना रविबिन्दुयुक् । ब्रह्मदर्शनरूपा च शिवदर्शनरूपिणी ॥ १२३॥ विष्णुदर्शनरूपा च सृष्टिचक्रनिवासिनी । सौरदर्शनरूपा च स्थितिचक्रकृतालया ॥ १२४॥ बौद्धदर्शनरूपा च महात्रिपुरसुन्दरी । तत्त्वमुद्रास्वरूपा च प्रसन्ना(८००) ज्ञानमुद्रिका ॥ १२५॥ सर्वोपचारसन्तुष्टा हृन्मयी शीर्षदेवता । शिखास्थिता ब्रह्ममयी नेत्रत्रयविलासिनी ॥ १२६॥ अस्त्रस्था चतुरस्रा च द्वारकाद्वारवासिनी । अणिमा पश्चिमस्था च लघिमोत्तरदेवता ॥ १२७॥ पूर्वस्था महिमेशित्वा दक्षिणद्वारदेवता । वशित्वा वायुकोणस्था प्राकाम्येशानदेवता ॥ १२८॥ अग्निकोणस्थिता भुक्तिरिच्छा नैऋतवासिनी । प्राप्तिसिद्धिरवस्था च प्राकाम्यार्धविलासिनी ॥ १२९॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराह्यौन्द्री च चामुण्डा महालक्ष्मीर्दिशाङ्गतिः ॥ १३०॥ क्षोभिणी द्राविणी मुद्राऽऽकर्षोन्मादनकारिणी । महाङ्कुशा खेचरी च बीजाख्या योनिमुद्रिका ॥ १३१॥ सर्वाशापूरचक्रस्था कार्यसिद्धिकरी तथा । कामाकर्षिणिकाशक्तिर्बुद्‍ध्याकर्षणरूपिणी ॥ १३२॥ अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी । स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ॥ १३३॥ रसाकर्षणरूपा च गन्धाकर्षणरूपिणी । चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ॥ १३४॥ स्मृत्याकर्षणरूपा च बीजाकर्षणरूपिणी । अमृताकर्षिणी चैव नामाकर्षणरूपिणी ॥ १३५॥ शरीराकर्षिणीदेवी आत्माकर्षणरूपिणी । षोडशस्वररूपा च स्रवत्पीयूषमन्दिरा ॥ १३६॥ त्रिपुरेशी सिद्धरूपा कलादलनिवासिनी । सर्वसङ्क्षोभचक्रेशी शक्तिर्गुप्ततराभिधा ॥ १३७॥ अनङ्गकुसुमाशक्तिरनङ्गकटिमेखला । अनङ्गमदनाऽनङ्गमदनातुररूपिणी ॥ १३८॥ अनङ्गरेखा चानङ्गवेगानङ्गाङ्कुशाभिधा । अनङ्गमालिनी शक्तिरष्टवर्गदिगन्विता ॥ १३९॥ वसुपत्रकृतावासा श्रीमत्त्रिपुरसुन्दरी । सर्वसाम्राज्यसुखदा सर्वसौभाग्यदेश्वरी ॥ १४०॥ सम्प्रदायेश्वरी सर्वसङ्क्षोभणकरी तथा । सर्वविद्राविणी सर्वाकर्षणाटोपकारिणी ॥ १४१॥ सर्वाह्लादनशक्तिश्च सर्वजृम्भणकारिणी । सर्वस्तम्भन शक्तिश्च सर्वसम्मोहिनी तथा ॥ १४२॥ सर्ववश्यकरीशक्तिः सर्वसर्वानुरञ्जिनी । सर्वोन्मादनशक्तिश्च सर्वार्थसिद्धिकारिणी ॥ १४३॥ सर्वसम्पत्तिदा शक्तिः सर्वमन्त्रमयी तथा । सर्वद्वन्द्वक्षयकरी(९००) सिद्धिस्त्रिपुरवासिनी ॥ १४४॥ सर्वार्थसाधकेशी च सर्वकार्यार्थसिद्धिदा । चतुर्दशारचक्रेशी कलायोगसमन्विता ॥ १४५॥ सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा । सर्वप्रियङ्करी शक्तिः सर्वमङ्गलकारिणी ॥ १४६॥ सर्वकामप्रपूर्णा च सर्वदुःखप्रमोचिनी । सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ॥ १४७॥ सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी । त्रिपुरेशी सर्वसिद्धिप्रदा च दशकोणगा ॥ १४८॥ सर्वरक्षाकरेशी च निगर्भा योगिनी तथा । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ १४९॥ सर्वज्ञानमयीदेवी सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १५०॥ सर्वानन्दमयीदेवी सर्वरक्षास्वरूपिणी । महिमाशक्तिदेवी च देवी सर्वसमृद्धिदा ॥ १५१॥ अन्तर्दशारचक्रेशी देवी त्रिपुरमालिनी । सर्वरोगहरेशी च रहस्या योगिनी तथा ॥ १५२॥ वाग्देवी वशिनी चैव देवीकामेश्वरी तथा । मोदिनी विमला चैव अरुणा जयिनी तथा ॥ १५३॥ सर्वेश्वरी कौलिनी च ह्यष्टारसर्वसिद्धिदा । सर्वकामप्रदेशी च परापररहस्यवित् ॥ १५४॥ त्रिकोणचतुरश्रस्था सर्वैश्वर्याऽऽयुधात्मिका । कामेश्वरीबाणरूपा कामेशीचापरूपिणी ॥ १५५॥ कामेशीपाशरूपा च कामेश्यङ्कुशरूपिणी । कामेश्वरीन्द्रशक्तिश्च अग्निचक्रकृतालया ॥ १५६॥ कामगिर्यधिदेवी च त्रिकोणस्थाऽग्रकोणगा । दक्षकोणेश्वरी विष्णुशक्तिर्जालन्धराश्रया ॥ १५७॥ सूर्यचक्रालया रुद्रशक्तिर्वामाङ्गकोणगा । सोमचक्रा ब्रह्मशक्तिः पूर्णगिर्यनुरागिणी ॥ १५८॥ श्रीमत्त्रिकोणभुवना त्रिपुरात्मा महेश्वरी । सर्वानन्दमयेशी च बिन्दुगातिरहस्यभृत् ॥ १५९॥ परब्रह्मस्वरूपा च महात्रिपुरसुन्दरी । सर्वचक्रान्तरस्था च समस्तचक्रनायिका ॥ १६०॥ सर्वचक्रेश्वरी सर्वमन्त्राणामीश्वरी तथा । सर्वविद्येश्वरी चैव सर्ववागीश्वरी तथा ॥ १६१॥ सर्वयोगीश्वरी चैव पीठेश्वर्यखिलेश्वरी । सर्वकामेश्वरी सर्वतत्त्वेश्वर्यागमेश्वरी ॥ १६२॥ शक्तिः शक्तिधृगुल्लासा निर्द्वन्द्वा द्वैतगर्भिणी । निष्प्रपञ्चा महामाया सप्रपञ्चा सुवासिनी ॥ १६३॥ सर्वविश्वोत्पत्तिधात्री परमानन्दसुन्दरी (१०००) । इत्येतत्कथितं दिव्यं परमानन्दकारणम् ॥ १६४॥ लावण्यसिन्धुलहरीबालायास्तोषमन्दिरम् । सहस्रनाम तन्त्राणां सारमाकृष्य पार्वति ॥ १६५॥ अनेन स्तुवतो नित्यमर्धरात्रे निशामुखे । प्रातः काले च पूजायां सर्वकालमतः प्रिये ॥ १६६॥ सर्वसाम्राज्यसुखदा बाला च परितुष्यति । रत्नानि विविधान्यस्य वित्तानि प्रचुराणि च ॥ १६७॥ मनोरथपथस्थानि ददाति परमेश्वरी । पुत्राः पौत्राश्च वर्धन्ते सन्ततिः सार्वकालिकी ॥ १६८॥ शत्रवस्तस्य नश्यन्ति वर्धन्तेऽस्य बलानि च । व्याधयस्तस्य दूरस्थाः सकलान्यौषधानि च ॥ १६९॥ मन्दिराणि विचित्राणि राजन्ते तस्य सर्वदा । कृषिः फलवती तस्य भूमिः कामदुघाऽव्यया ॥ १७०॥ स्फीतो जनपदस्तस्य राज्यं तस्य निरीतिकम् । मातङ्गाः पक्षिणस्तुङ्गाः सिञ्चन्तो मदवारिभिः ॥ १७१॥ द्वारे तस्य विराजन्ते हृष्टा नागतुरङ्गमाः । प्रजास्तस्य विराजन्ते निर्विवादाश्च मन्त्रिणः ॥ १७२॥ ज्ञातयस्तस्य तुष्यन्ति शीलं तस्यातिसुन्दरम् । लक्ष्मीस्तस्य वशे नित्यं स्वासना च मनोरमा ॥ १७३॥ गद्यपद्यमयी वाणी तस्य गङ्गातरङ्गवत् । नानापदपदार्थानां वादचातुर्यसम्भृता ॥ १७४॥ समग्ररससम्पत्तिशालिनी लास्यमालिनी । अदृष्टान्यपि शास्त्राणी प्रकाश्यन्ते निरन्तरम् ॥ १७५॥ निग्रहः परवाक्यानां सभायां तस्य जायते । स्तुवन्ति वन्दिनस्तं वै राजानो दासवत्तथा ॥ १७६॥ शस्त्राण्यस्त्राणि तदङ्गे जनयन्ति रुजां न हि । महिलास्तस्य वशगाः सर्वावस्था भवन्ति वै ॥ १७७॥ विषं निर्विषतां याति पानीयममृतं भवेत् । परपक्षस्तम्भनं च प्रतिपक्षस्य जृम्भणम् ॥ १७८॥ नवरात्रेण जायेत स तदभ्यासयोगवित् । अहोरात्रं पठेद्यस्तु निस्तन्द्रः शान्तमानसः ॥ १७९॥ वशे तस्य प्रजा याति सर्वे लोकाः सुनिश्चितम् । षण्मासाभ्यासयोगेन योगमायाति निश्चितम् ॥ १८०॥ नित्यं कामकलां ध्यायन् यः पठेत् स्तोत्रमुत्तमम् । मदनोन्मादकलिताः पुरन्घ्र्यास्तद्वशानुगाः ॥ १८१॥ लावण्यमदनाः साक्षाद्वैदग्ध्यमुदितेक्षणाः । प्रेमपूर्णामपि वशे ह्युर्वशीं स हि विन्दति ॥ १८२॥ भूर्जपत्रे रोचनया कुङ्कुमेन शुभे दिने । लाक्षारसद्रवेणापि यावकैर्वा विशेषतः ॥ १८३॥ धातुरागेण वा देवि लिखितं यन्त्रमञ्चितम् । सुवर्णरौप्यगर्भस्थं सुसम्पूतं सुसाधितम् ॥ १८४॥ बालाबुद्‍ध्या पूजितं च प्रतिष्ठितसमीरणम् । धारयेन्मस्तके कण्ठे बाहुमूले तथा हृदि ॥ १८५॥ नाभौ वापि धृतं धन्यं जयदं सर्वकामदम् । रक्षणं नापरं किञ्चिद्विद्यते भुवनत्रये ॥ १८६॥ ग्रहरोगादिभयहृत् सुखकृत्यविवर्धनम् । बलवीर्यकरं क्रूरभूतशत्रुविनाशनम् ॥ १८७॥ पुत्रपौत्रान् गुणगणैर्वर्धनं धनधान्यकृत् । धरण्यां सा पुरी धन्या यत्रायं साधकोत्तमः ॥ १८८॥ यद्गृहे लिखितं तिष्ठेत् स्तोत्रमेतद्वरानने । तत्र चाहं शिवे नित्यं हरिश्च कमला तथा ॥ १८९॥ वसामः सर्वतीर्थानामुत्पत्तिस्तत्र जायते । यो वापि पाठयेद्भक्त्या पठेद्वै साधकोत्तमः ॥ १९०॥ ज्ञानानन्दकलायोगादैक्यवृत्तिं स विन्दति । स्तोत्रेणानेन देवेशि तव पूजाफलं लभेत् ॥ १९१॥ षोढान्यासतनुर्भूत्वा पठितव्यं प्रयत्नतः । उत्तमा सर्वतन्त्राणां बालायाः पूजनस्रुतिः ॥ १९२॥ तत्रोत्तमा षोडशार्णा तत्रेदं स्तोत्रमुत्तमम् । नाशिष्याय प्रदातव्यमशुद्धाय शठाय च ॥ १९३॥ अलसायाप्रयत्नायाशिवाभक्ताय सुन्दरि । भक्तिहीनाय मलिने गुरुनिन्दापराय च ॥ १९४॥ विष्णुभक्तिविहीनाय विकल्पावृतबुद्धये । देयं भक्तवरे मुक्तेः कारणं भक्तिवर्धनम् ॥ १९५॥ लतायोगे पठेद्यस्तु स्तोत्रमेतद्वरानने । सैव कल्पलता तस्य वाञ्छाफलकरी तथा ॥ १९६॥ पुष्पिताया लतायोगे कुरङ्गमुखि साधकः । अक्षुब्धः सन् पठेद्यस्तु शतयज्ञस्य पुण्यभाक् ॥ १९७॥ ब्रह्मादयोऽपि देवेशि प्रार्थयन्ति पदद्वयम् । स्वयं शिवः स विज्ञेयो यो बालाभावलम्पटः ॥ १९८॥ ब्रह्मानन्दमयी ज्योत्स्ना सदाशिवविधूदिता । आनन्दो योऽपि यं वेदा वदन्त्यस्या वशे स्थिताः ॥ १९९॥ आह्लादनं बालाध्यानाद्बालाया नामकीर्तनात् । सदानन्दाभ्यासयोगात् सदानन्दः प्रजायते ॥ २००॥ इति श्रीरुद्रयामले तन्त्रे भैरवभैरवीसंवादे श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रं सम्पूर्णम् ॥