अक्षर आकार:

श्रीबालास्तोत्रं ७

Shri Bala Stotram 7

श्रीबालास्तोत्रं ७

श्रीभैरवः - अधुना देवि बालायाः स्तोत्रं वक्ष्यामि पार्वति । पञ्चमाङ्गं रहस्यं मे श्रुत्वा गोप्यं प्रयत्नतः ॥ १॥ अरुणकिरणजालैरञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकह्लारसंस्था निवस्तु हृदि बाला नित्यकल्याणशीला ॥ २॥ वाणीं जपेद्यस्त्रिपुरे भवान्या बीजं निशीथे जडभावलीनः । भवेत्स गीर्वाणगुरोर्गरीयान् गिरीशपत्निप्रभुतादि तस्य ॥ ३॥ कामेश्वरि त्र्यक्षरीकामराजं जपेद्दिनान्ते तव मन्त्रराजम् । रम्भापि जम्भारिसभां विहाय भूमौ भजेत्तं कुलदीक्षितं च ॥ ४॥ तार्तीयकं बीजमिदं जपेद्यस्त्रैलोक्यमातस्त्रिपुरे पुरस्तात् । विधाय लीलां भुवने तथान्ते निरामयं ब्रह्मपदं प्रयाति ॥ ५॥ धरासद्मत्रिवृत्ताष्टपत्रषट्कोणनागरे । बिन्दुपीठेऽर्चयेद्बालां योऽसौ प्रान्ते शिवो भवेत् ॥ ६॥ इति मन्त्रमयं स्तवं पठेद्यस्त्रिपुराया निशि वा निशावसाने । स भावेद्भुवि सार्वभौममौलिस्त्रिदिवे शक्रसमानशौर्यलक्ष्मीः ॥ ७॥ इतीदं देवि बालायाः स्तोत्रं मन्त्रमयं परम् । अदातव्यमभक्तेभ्यो गोपनीयं स्वयोनिवत् ॥ ८॥ इति रुद्रयामलान्तर्गतं श्रीबालास्तोत्रं (७) सम्पूर्णम् ।