अक्षर आकार:

श्रीबालास्तोत्रम् ६

Shri Bala Stotram 6

श्रीबालास्तोत्रम् ६

ऐश्वर्यं मनसेप्सितं मृदुवचो गाम्भीर्यमत्युन्नतिं शिष्टाचारविहारपालनमथो वेदोक्तमायुःश्रियम् । मेधावृद्धिमपत्यदारजसुखं वैराग्यमत्युन्नतं नित्यं त्वच्चरणारविन्दभजने भक्तिं दृढां देहि मे ॥ १॥ क्लीं त्वं कामशराजिते करशुकीसल्लापसम्मोहिते सौन्दर्याम्बुधिमन्थनोद्भवकलानाथानने भामिनि । कोकाकार कुचाग्रसीमविलसद्वीणानुगानोद्यते त्वत्पादाम्बुजसेवया खलु शिवे सर्वां समृद्धिं भजे ॥ २॥ सौम्ये पावनि पद्मसम्भवसखीं कर्पूरचन्द्रप्रभां शुद्धस्फाटिकविद्रुमग्रथितसद्रत्नाढ्यमालाधराम् । धर्त्रीं पुस्तकमिष्टदानमभयं शुक्लाक्षमालां करैः यस्त्वां ध्यायति चक्रराजसदने संयाति विद्यां गुरोः ॥ ३॥ इति श्रीबालास्तोत्रं (६) सम्पूर्णम् ।