अक्षर आकार:

श्रीबालास्तोत्रम् ५

Shri Bala Stotram 5

श्रीबालास्तोत्रम् ५

स्फटिकरजतवर्णं मौक्तिकामाल्यभूषं अमृतकलशविद्याज्ञानमुद्राः कराग्रैः । दधतमृषभकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ १॥ एङ्कारैकसमस्तशत्रुरचनामावेद्य मूर्तिप्रदां ऐश्वर्यादिकमष्टभोगफलदामैश्वर्यदां पुष्पिणीम् । ऐन्द्रव्याकरणादिशास्त्रवरदामैरावताराधितां ऐशानीं भुवनत्रयस्य जननीमैङ्कारिणीमाश्रये ॥ २॥ क्लीङ्कारैकसमस्तवश्यकरिणीं क्लीं पञ्चबाणात्मिकां क्लीं विद्रारणकारिणीं वरशिवां क्लिन्नां शिवालिङ्गिताम् । क्लीबोऽपि प्रणमन्भवानि भवतीं ध्यात्वा हृदम्भोरुहे क्लिन्नाशेषवशीकरो भवति यत्क्लीङ्कारिणीं नौम्यहम् ॥ ३॥ सौः शब्दप्रथितामरादिविनुतां सूक्तिप्रकाशप्रदां सौभाग्याम्बुधिमन्थनामृतरसां सौन्दर्यसम्पत्करीम् । सान्निध्यं दधतीं सदा प्रणमतां साम्राज्यलक्ष्मीप्रदां सौः काराङ्कितपादपङ्कजयुगां सौषुम्नगां नौम्यहम् ॥ ४॥ इति श्रीबालास्तोत्रम् (५) सम्पूर्णम् ।