अक्षर आकार:

श्रीबालास्तोत्रम् ३

Shri Bala Stotram 3

श्रीबालास्तोत्रम् ३

उदञ्चद्दिनेशप्रपञ्चप्रकाशां उदूढेन्दुरेखामुदारां त्रिणेत्राम् । वहन्तीं वराभीतिकोशाक्षमालाः वसन्तीं स्फुटे पद्मके नौमि बालाम् ॥ १॥ नतानां जनानां समस्तर्धिदात्रीं सुयोन्याख्यमुद्राभिगम्यां शरण्याम् । सुवाक्कामशक्त्याख्यबीजत्रयान्तः- स्थितां बालिकां त्वां नमामि स्मरामि ॥ २॥ लसद्रक्तसिन्दूरवर्णां कराब्जैः वराभीतिपुस्ताक्षमाला दधानाम् । सितार्धेन्दुफालां वरेण्यां त्रिनेत्रां शिवां बालिकां त्वां नमामि स्मरामि ॥ ३॥ कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्ततनुमध्याम् । आरक्तदेहकान्तिं बालामखिलाण्डनायिकां वन्दे ॥ ४॥ मालासृणीपुस्तकपाशाहस्तां बालां भजेऽहं ललिताकुमारीम् । कुमारकामेश्वर केलिलोलां नमामि गौरीं नववर्षदेश्याम् ॥ ५॥ साक्षस्रजं च वरदाभय पुस्तकोद्यद् - बाहामयुग्मनयनाममलाब्जसंस्थाम् । अच्छाङ्गरागवसनापघनां नमामि बालेन्दुमौलिमनिशं वचसामधीशाम् ॥ ६॥ इति श्रीबालास्तोत्रम् (३) सम्पूर्णम् ।