अक्षर आकार:

श्रीबालास्तोत्रम् २

Shri Bala Stotram 2

श्रीबालास्तोत्रम् २

वरदाभयपुस्तकाक्षमालाविलसत्पाणिसरोजभासमानाम् । शरदिन्दुसहस्रकोटितुल्यां परमानन्दमयीं प्रणौमि बालाम् ॥ १॥ करुणैकनिधिं विशालनेत्रां नलिनीपल्लवचारु पाणिपादाम् । निखिलाघमवेद्यदिव्यरूपां परमानन्दमयीं प्रणौमि बालाम् ॥ २॥ अरुणाभतनुं सुमन्दहासां कमलामोदमुखीं रवीन्दुभासाम् । शरणागतरक्षणाधिकाशां परमानन्दमयीं प्रणौमि बालाम् ॥ ३॥ तिलकोदितफालदिव्यशोभां कबरीभारविलासि निर्मलास्याम् । विमलानघरत्नहारभारां परमानन्दमयीं प्रणौमि बालाम् ॥ ४॥ चरणामलहंसकाभिरामां पदपङ्केरुहनम्रसर्वदेवाम् । कुलिशाङ्कुशपङ्कजाङ्घिपद्मां परमानन्दमयीं प्रणौमि बालाम् ॥ ५॥ नवयौवनचारुभावलीलां घनताटङ्कविकासिकर्णपूराम् । मणिमौक्तिकनासिकाभिरामां परमानन्दमयीं प्रणौमि बालाम् ॥ ६॥ परवाग्भवमन्मथादिमध्यां विमलाङ्गां सितपङ्कजे निषण्णाम् । विविधाकृतिवेद्यमूलरूपां परमानन्दमयीं प्रणौमि बालाम् ॥ ७॥ रक्तवस्त्रपरीधानां फुल्लकल्हारहस्तकाम् । देवीं प्रणौमि तां बालां नित्यकल्याणरूपिणीम् ॥ ८॥ इति श्रीबालास्तोत्रम् (२) सम्पूर्णम् ।