अक्षर आकार:

श्रीबालास्तोत्रम् १

Shri Bala Stotram 1

श्रीबालास्तोत्रम् १

बालाम्बेति सुधापूरमाधुरीचोरमम्बिके । तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥ जगत्पवित्रि मामिकामपाहराशु दुर्जराम् । प्रसीद मे दयाधुने प्रशस्तिमम्ब नस्कृधि ॥ सन्ति विद्या जगत्यस्मिन् संसारभ्रमहेतवः । भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्र्नुते ॥ कुर्वे गर्वेणापचारानपाराण् यद्यप्यम्ब त्वत्पदाब्जं तथापि । मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं बिभृतास्वेनम् ॥ यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि । कृपया कुरु कल्याणी तथा मे स्वस्तिरायुषी ॥ सुकुमारि सुखाकारे सुनेत्रे सूक्ष्ममध्यमे । सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥ नवनीपवनीवास लालसोत्तरमानसे । श‍ृङ्गारदेवते मातः श्रियं वासय मे कुले ॥ वन्दे मातरमम्बिकां भगवतीं वाणीरमासेवितां कल्याणीं कमनीयकल्पलतिकां कैलासनाथप्रियाम् । वेदान्तप्रतिपाद्यमानविभवां विद्वन्मनोरञ्जनीं श्रीचक्राञ्चितचक्रपीठनिलयां श्रीराजराजेश्वरीम् ॥ कुन्दमुकुलाग्रन्तां कुङ्कुमपङ्केन लिप्ततनुमध्याम् । आरक्तदेहकान्तिं बालामखिलाण्डनायिकां वन्दे ॥ ऐङ्कारासनगर्भितानलशिखां शौक्लिं कला बिभ्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गां शिवाम् । वन्दे पुस्तकमङ्कुशं जपवटीं पाशं मुदा बिभ्रतीं त्वां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥ बालार्कायुततेजसं त्रिणयनां रक्ताम्बरोल्लासिनीं नानालङ्कृतिराजमानवपुषं बालोडुराट्शेखराम् । हस्तैरिक्षुधनुः सृणिं सुमशरं पाशं मुदा बिभ्रतीं श्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां भजे ॥ इति श्रीबालास्तोत्रम् (१) सम्पूर्णम् ।