अक्षर आकार:

श्रीबालास्तवराजः ३

Shri Bala Stavaraja 3

श्रीबालास्तवराजः ३

ॐ अस्य श्रीबालास्तवराजस्तोत्रस्य श्रीमृत्युञ्जय ऋषिः । ककुप्छन्दः । श्रीबाला देवता । क्लीं बीजम् । सौः शक्तिः । ऐं कीलकम् । भोगमोक्षार्थे जपे विनियोगः । त्रिबीजभाजायुक्तेन कराङ्गौ न्यासमाचरेत् । ध्यानं ततः श‍ृणुष्वाशु सर्वैश्वर्यप्रदायकम् ॥ १॥ अक्षपुस्तधरां रक्तां वराभयकराम्बुजाम् । चन्द्रमुण्डां त्रिनेत्रां च ध्यायेद्बालां फलप्रदाम् ॥ २॥ ऐं त्रैलोक्यविजयायै हुँ फट् । क्लीं त्रिगुणरहितायै हुँ फट् । सौः सर्वैश्वर्यदायिन्यै हुँ फट् । नातः परतरा सिद्धिर्नातः परतरा गतिः । नातः परतरो मन्त्रस्सत्यं सत्यं वदाम्यहम् ॥ ३॥ रक्तां रक्तच्छदां तीक्ष्णां रक्तपां रक्तवाससीम् । स्वरूपां रत्नभूषां च ललज्जिह्वां परां भजे ॥ ४॥ त्रैलोक्यजननीं सिद्धां त्रिकोणस्थां त्रिलोचनाम् । त्रिवर्गफलदां शान्तां वन्दे बीजत्रयात्मिकाम् ॥ ५॥ श्रीबालां वारुणीप्रीतां बालार्ककोटिद्योतिनीम् । वरदां बुद्धिदां श्रेष्ठां वामाचारप्रियां भजे ॥ ५॥ चतुर्भुजां चारुनेत्रां चन्द्रमौलिं कपालिनीम् । चतुःषष्टियोगिनीशां वीरवन्द्यां भजाम्यहम् ॥ ६॥ कौलिकां कलतत्त्वस्थां कौलावाराङ्कवाहनाम् । कौसुम्भवर्णां कौमारीं कवर्मधारिणीं भजे ॥ ७॥ द्वादशस्वररूपायै नमस्तेऽस्तु नमो नमः । नमो नमस्ते बालायै कारुण्यायै नमो नमः ॥ ८॥ विद्याविद्याद्यविद्यायै नमस्तेऽस्तु नमो नमः । विद्याराज्ञ्यै महादेव्यै शिवायै सततं नमः ॥ ९॥ ऐं बालायै विद्महे क्लीं त्रिभुवनेश्वर्यै धीमहि । सौः तन्नो देवी प्रचोदयात् । ऐं बालायै स्वाहा ॥ १०॥ द्वादशान्तालयां श्रेष्ठां षोडशाधारगां शिवाम् । पञ्चेन्द्रियस्वरूपाख्यां भूयो भूयो नमाम्यहम् ॥ ११॥ ब्रह्मविद्यां ब्रह्मरूपां ब्रह्मज्ञानप्रदायिनीम् । वसुप्रदां वेदरूपां वन्दे बालां शुभाननाम् ॥ १२॥ अघोरां भीषणामाद्यामनन्तोपरिसंस्थिताम् । देवदेवेश्वरीं भद्रां श्रीबालां प्रणमाम्यहम् ॥ १३॥ भवप्रियां भवाधारां भगरूपां भगप्रियाम् । भयानकां भूतधात्रीं भूदेवपूजितां भजे ॥ १४॥ अकारादिक्षकारान्तां क्लीबाक्षरात्मिकां पराम् । वन्दे वन्दे महामायां भवभव्यभयापहाम् ॥ १५॥ नाडीरूप्यै नमस्तेऽस्तु धातुरूप्यै नमो नमः । जीवरूप्यै नमस्यामि ब्रह्मरूप्यै नमो नमः ॥ १६॥ नमस्ते मन्त्ररूपायै पीठगायै नमो नमः । सिंहासनेश्वरि तुभ्यं सिद्धिरूप्यै नमो नमः ॥ १७॥ नमस्ते मातृरूपिण्यै नमस्ते भैरवप्रिये । नमस्ते चोपपीठायै बालायै सततं नमः ॥ १८॥ योगेश्वर्यै नमस्तेऽस्तु योगदायै नमो नमः । योगनिद्रास्वरूपिण्यै बालादेव्यै नमो नमः ॥ १९॥ सुपुण्यायै नमस्तेऽस्तु सुशुद्धायै नमो नमः । सुगुह्यायै नमस्तेऽस्तु बालादेव्यै नमो नमः ॥ २०॥ इतीदं स्तवराजाख्यं सर्वस्तोत्रोत्तमोत्तमम् । ये पठन्ति महेशानि पुनर्जन्म न विद्यते ॥ २१॥ सर्वपापहरं पुण्यं सर्वस्फोटविनाशकम् । सर्वसिद्धिप्रदं श्रेष्ठं भोगैश्वर्यप्रदायकम् ॥ २२॥ इति श्रीबालास्तवराजः (३) सम्पूर्णः ।