अक्षर आकार:

श्रीबालास्तवराजः २

Shri Bala Stavaraja 2

श्रीबालास्तवराजः २

भजे निरामयं वस्तु जगत्त्रयविमोहनम् । अशेषव्यवहाराणां स्वामिनीं संविदं पराम् ॥ १॥ उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् । जपाकुसुमसङ्काशां पद्मरागघसमप्रभाम् ॥ २॥ विद्युत्पुञ्जनिभां तप्तकाञ्चनाभां सुरेश्वरीम् । रक्तोत्पलदलाकारपादपल्लवराजिताम् ॥ ३॥ अनर्घ्यरत्नखचितमञ्जीरचरणद्वयाम् । पादाङ्गुलीयकक्षिप्तरत्नतेजोविराजिताम् ॥ ४॥ कदलीललितस्तम्भसुकुमारोरुकोमलाम् । अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् ॥ ५॥ अनर्घ्यमौक्तिकस्यूतहारभारविराजिताम् । उद्यदादित्यसङ्काशताटङ्ककुसुमप्रभाम् ॥ ६॥ पूर्णचन्द्रमुखीं पद्मवदनां वरनासिकाम् । स्फुरन्मादनकोदण्डसुभ्रुवं पद्मलोचनाम् ॥ ७॥ ललाटपट्टसंराजद्रत्नाढ्यतिलकाञ्चिताम् । मुक्तामाणिक्यघटितमकुटस्थलकिङ्किणीम् ॥ ८॥ स्फुरच्चन्द्रकलाराजन्मकुटां लोचनत्रयीम् । प्रवालपल्लवलसद्बाहुवल्लीचतुष्टयाम् ॥ ९॥ इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् । सर्वदेवमयीं बालां श्रीमत्त्रिपुरसुन्दरीम् ॥ १०॥ सर्वतीर्थमयीं विद्यां सर्वकामप्रपूरणीम् । सर्वाम्नायमयीं विद्यां सर्वदेवोपशोभिताम् ॥ ११॥ एवं ध्यात्वा परां बालां वामनासापुटक्रमात् । त्रिकोणमुद्रया बिन्दौ महापद्ममनुस्मरेत् ॥ १२॥ आवाह्य बालां तन्मन्त्रं पठन्पीठे स्थितां स्मरेत् ॥ १३॥ इति मन्त्ररहस्यान्तर्गतं श्रीबालास्तवराजः (२) सम्पूर्णः ।