अक्षर आकार:

श्रीबालास्तवराजः १

Shri Bala Stavaraja 1

श्रीबालास्तवराजः १

श्रीमतः परमेशतल्पनिलये वन्दारुवृन्दानुते सिन्दूरद्रवकुङ्कुमोदकजपापुष्पप्रभे मङ्गले । श्रीबीजेन समन्वितं तव मनुं भक्त्या जपन्तं सदा भक्तं मामवलोकयाशु कृपया लक्ष्म्या सहैवाम्बिका ॥ १॥ ऐमित्यक्षरमम्बिके शशिनिभं बालार्ककोट्युज्ज्वले बालानामपि वाग्विजृम्भणपटुप्रख्यातविद्याप्रदम् । बीजं बिम्बविडम्बिदन्तिरदने विद्यामुखे सर्वदा बालायाः कलयामि कल्पलतिके भक्तिप्रसन्ने शिवे ॥ २॥ क्लीमित्येकमहेशमानिनि सदा मन्दस्मिते मङ्गले बन्धूकारुणपाणिपल्लवलसत्पुण्ड्रेक्षुपाशोज्ज्वले । नानारत्नविभूषिते सुरनुते रत्काम्बरालङ्कृते त्वद्रूपं हृदि चिन्तयामि सततं सर्वार्थसिद्धिप्रदम् ॥ ३॥ सौवर्णं कमलासनस्य दयिते वैश्वानरार्चिर्मयी कर्पूरोज्ज्वलवीटिकापरिलसद्बिम्बाधरोद्यन्मुखे । साधारे च तुरीयया च परया सम्पूजिताङ्घ्रिद्वये यस्त्वां ध्यायति मन्त्रवर्यमसकृज्जप्त्वापि वाग्मी भवेत् ॥ ४॥ ऐं क्लीं सौः सकलापदार्तिशमनं तार्तीयखण्डोग्रगं यो वा भक्तिपुरस्सरो मृदुभुजे सौवर्णपीठोज्ज्वले । कामेशे कलयामि कुन्दरदने कन्दर्पबीजोज्ज्वले मन्त्रं ते मदभीष्टदं दिनकरज्योतिर्मयं सर्वदा ॥ ५॥ कल्याणं तव रूपमम्बरमणीदृष्ट्या कुचत्वं गतौ चन्द्रो विस्मितजालमीशवनिते ताघस्तसैन्यं गता । त्वद्रूपं किमु तर्पयामि वद मे कन्दर्पविद्यात्मिके कामेशोऽपि तवावलोकनवशादर्धाङ्गनात्वं गतः ॥ ६॥ एतामेव विभावयन्ति मुनयः सायुज्यमुक्तिप्रदां एकान्ते रविमण्डलेभ्यवलये हेमादिर्षृङ्गे बुधौ । आनन्दामृतसिन्धुमग्नहृदया रोकुञ्चमानोभवा त्वां देवीमनुचिन्तयामि सततं चित्ते भजे मामके ॥ ७॥ लक्ष्मीप्रदानसमये नवविद्रुमाभां विद्याप्रदानसमये शरदिन्दुशुभ्राम् । विद्वेषिवर्गविजये च तमालनीलां बालां त्रिलोकजननीं शरणं प्रपद्ये ॥ ८॥ इति श्रीबालास्तवराजः । जयतु जयतु बाला भारती ब्रह्मरूपा जयतु जयतु बाला वैष्णवी विष्णुरूपा । जयतु जयतु बाला रौद्रिणी रुद्ररूपा जयतु जयतु बाला चिन्मयी ज्ञानरूपा ॥ हृत्पुण्डरीकाननभासमाना चित्कुण्डली चञ्चदुदारमाना । पुस्ताक्षसूत्रस्फुरदब्जहस्ता बाला धियं यच्छतु नः प्रशस्ता ॥ इति श्रीबालास्तवराजः (१) सम्पूर्णः ।