अक्षर आकार:

श्रीबालाशताक्षरीमन्त्र विधानम्

Shri Bala Shatakshari Mantra Vidhanam

श्रीबालाशताक्षरीमन्त्र विधानम्

अस्य श्री बालाशताक्षरीमहामन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः ॥ बालात्रिपुरसुन्दरी देवता । ध्यानं - हरिपुरन्दरप्रभृतिदेवतामकुटविस्फुरत्किरणभास्वरम् । नमत सन्ततं नमत सन्ततं त्रिपुरसुन्दरीचरणपङ्कजम् ॥ मूलमन्त्रः - ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः वषट् सौः क्लीं श्रीं वौषट् ऐं क्लीं श्रीं सौः क्लीं ऐं ॐ आं ह्रीं क्रों बालात्रिपुरसुन्दरि प्रसन्नवाग्वादिनि आश्रावय आश्रावय । आकर्षय आकर्षय । आवाहय आवाहय । मां रक्ष रक्ष । सौभाग्यदायिनि स्वर्णाकर्षण- महालक्ष्मि धनं देहि देहि सर्वजनं मे वशमानय स्वाहा ॥ शताक्षरी शतानन्दी शतायुष्यविवर्धिनी । शतकोटि धनं देहि शङ्करी शान्त रूपिणी ॥ (बाल शताक्षरी अधो निर्दिष्टाभिरष्टभिः ऋग्भिः पृथग्योजिता जपे होमे च प्रशस्यते । क्रमस्त्वित्थम् - १. हिरण्यवर्णां इत्यादि आवह -शताक्षरी । २. संसमिद्युवसे इत्यादि वसून्याभर -शताक्षरी । ३. सङ्गच्छध्वं इत्यादि जानताम् -शताक्षरी । ४. समानो मन्त्रः इत्यादि जुहोति -शताक्षरी । ५. समानीव आकूतिः इत्यादि सुसहासति -शताक्षरी ६. श्रिये जातः इत्यादि मितद्रौ -शताक्षरी ७. इन्द्र श्रेश्ठानि इत्यादि त्वमह्नाम् -शताक्षरी ८. प्रजापते इत्यादि रयीणां -शताक्षरी । ऋचो यथा - हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ सं स॒मिद्यु॑वसे॒ वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒लस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्याभ॑र ॥ सङ्ग॑च्छध्वं॒ संव॑दध्वं॒ सं वो॒ मनां॑सि जानताम् । दे॒वा भा॒गं यथा॒ पूर्वे॑ सञ्जाना॒ना उ॒पास॑ते ॥ स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम् । स॒मा॒नं मन्त्र॑म॒भिम॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥ स॒मा॒नी व॒ आकू॑तिस्समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥ श्रि॒ये जा॒तः श्रि॒य आनिरि॑याय॒ श्रियं॒ वयो॑जरि॒तृभ्यो॑ ददाति । श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न् भव॑न्ति स॒त्या स॑मि॒थामि॒तद्रौ॑ ॥ इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सु॑भग॒त्वम॒स्मे । पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्ना॒॑म् । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । यत्का॑मास्ते जुहुमस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ इति श्रीबालाशताक्षरीमन्त्रविधानं सम्पूर्णम् ।