अक्षर आकार:

श्रीबालाशान्तिस्तोत्रम्

Shri Bala Shanti Stotram

श्रीबालाशान्तिस्तोत्रम्

श्रीभैरव उवाच- जय देवि जगद्धात्रि जय पापौघहारिणि । जय दुःखप्रशमनि शान्तिर्भव ममार्चने ॥ १॥ श्रीबाले परमेशानि जय कल्पान्तकारिणि । जय सर्वविपत्तिघ्ने शान्तिर्भव ममार्चने ॥ २॥ जय बिन्दुनादरूपे जय कल्याणकारिणि । जय घोरे च शत्रुघ्ने शान्तिर्भव ममार्चने ॥ ३॥ मुण्डमाले विशालाक्षि स्वर्णवर्णे चतुर्भुजे । महापद्मवनान्तस्थे शान्तिर्भव ममार्चने ॥ ४॥ जगद्योनि महायोनि निर्णयातीतरूपिणि । पराप्रासादगृहिणि शान्तिर्भव ममार्चने ॥ ५॥ इन्दुचूडयुते चाक्षहस्ते श्रीपरमेश्वरि । रुद्रसंस्थे महामाये शान्तिर्भव ममार्चने ॥ ६॥ सूक्ष्मे स्थूले विश्वरूपे जय सङ्कटतारिणि । यज्ञरूपे जाप्यरूपे शान्तिर्भव ममार्चने ॥ ७॥ दूतीप्रिये द्रव्यप्रिये शिवे पञ्चाङ्कुशप्रिये । भक्तिभावप्रिये भद्रे शान्तिर्भव ममार्चने ॥ ८॥ भावप्रिये लासप्रिये कारणानन्दविग्रहे । श्मशानस्य देवमूले शान्तिर्भव ममार्चने ॥ ९॥ ज्ञानाज्ञानात्मिके चाद्ये भीतिनिर्मूलनक्षमे । वीरवन्द्ये सिद्धिदात्रि शान्तिर्भव ममार्चने ॥ १०॥ स्मरचन्दनसुप्रीते शोणितार्णवसंस्थिते । सर्वसौख्यप्रदे शुद्धे शान्तिर्भव ममार्चने ॥ ११॥ कापालिकि कलाधारे कोमलाङ्गिः कुलेश्वरि । कुलमार्गरते सिद्धे शान्तिर्भव ममार्चने ॥ १२॥ शान्तिस्तोत्रं सुखकरं बल्यन्ते पठते शिवे । देव्याः शान्तिर्भवेत्तस्य न्यूनाधिक्यादिकर्मणि ॥ १३॥ मन्त्रसिद्धिकामनया दशावृत्त्या पठेद्यदि । मन्त्रसिद्धिर्भवेत्तस्य नात्र कार्या विचारणा ॥ १४॥ चन्द्रसूर्योपरागे च यः पठेत्स्तोत्रमुत्तमम् । बाला सद्मनि सौख्येन बहुकालं वसेत्ततः ॥ १५॥ सर्वभद्रमवाप्नोति सर्वत्र विजयी भवेत् । तीर्थकोटिगुणं चैव दानकोटिफलं तथा । लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ १६॥ (चिन्तामणितन्त्रे) इति श्रीबालाशान्तिस्तोत्रं समाप्तम् ।