अक्षर आकार:

श्रीबालासपर्यापद्धतिः

Shri Bala Saparya Paddhati

श्रीबालासपर्यापद्धतिः

विस्तृता तान्त्रिकी श्रीमान् साधको बाह्ये मुहूर्ते शयनतलादुत्थाय करचरणमुखादि प्रक्षाल्य । बद्धपद्मासनः समुपविश्य स्वशिरःरथसहस्राराधोमुखकमलकर्णिकान्तर्गतंव निजगुरुं स्वशक्त्या सहितं ध्यात्वा । मानसोपचारैः सम्पूज्य दण्डवन्नत्वा । गुरूक्तविधिना प्रातःकृत्यमजपाजपं च विधाय । स्वकार्यानुष्ठानाय भूमिं प्रार्थ्य श्वासानुसारेण तस्यां पादावुपन्यस्य । गृहाद्बहिर्निःसृत्य । नैरृत्यां याम्यां वा दिशि मलमूत्रोत्सर्गशौचाचमनदन्तधावनादिकं विदध्यात् । नद्यादिं गत्वा वैदिकं सन्ध्यादि निर्वर्त्य तान्त्रिकमारभेत । तत्रादौ ४ऐं आत्मतत्त्वं शोधयामि स्वाहा । ४ क्लीं विद्यातत्त्वं शोधयामि स्वाहा । ४ सौः शिवतत्त्वं शोधयामि स्वाहा इति मूलयुक्ततत्त्वत्रयेणाचम्य । ह्रीं स्वाहा इत्यनेन वाऽऽचम्य । मूलं स्मरन् मलापकर्षणस्नानं विधाय । पुनराचम्य अद्येत्यादिमासा- द्युत्कीर्तनं विधाय । श्रीकुलदेवताप्रीतये तान्त्रिकविधिना स्नानमहं करिष्ये इति सङ्कल्प्य । जले त्रिकोणचक्रं विभाव्य सूर्यमण्डलात् ``ब्रह्माण्डोदर तीर्थानि ``गङ्गे च यमुने चैव - इत्यादिनाङ्कुशमुद्रया तीर्थमावाह्य । पुरःकल्पिततीर्थे संयोज्याचम्य स्वात्मानं प्रोक्ष्य । मूलेन मृदा स्नपनं विधाय । मूलं पठन् पुरतः आवाहितां स्वदेवतां त्रिरभिषिच्य । श्रवणादिसप्तच्छिद्राणि निरुध्य त्रिर्निमज्ज्य उन्मज्जोत् । अथ सन्ध्या । तत्र पुर्ववदाचम्य स्वमूलप्राणायामर्ष्यादिदिकरषडङ्गं विधाय पूर्ववत्तीर्थमावाह्य । वामहस्ते तज्जलं निधाय दक्षहस्तेनाच्छाद्य यंरंवंलंहं इति पाञ्चभौतिकमन्त्रैः सप्तवार- मभिमन्त्र्य । मूलविद्यया त्रिरभिमन्त्र्य । तज्जलबिन्दुभिर्वामाङ्गुष्ठा- नामिकाभ्यां मूलविद्यया स्वशिरस्त्रिः प्रोक्ष्य अवशिष्टजलं वामहस्ते निधाय । त्रिरभिमन्त्र्य मूलमुच्चरन् तत्त्वमुद्रया मृध्नि सप्तधा मृलेन च त्रिधाभ्युक्ष्य । शेषं जलं दक्षहस्ते समादाय तेजोरूपं ध्यात्वा । इडया देहान्तःपापं प्रक्षाल्य । कृष्णवर्णं त ज्जलं पापरूपं पिङ्गलया विरिच्य वामे कल्पितवज्रशिलायां फडिति निःक्षिपेत् । ततोऽर्ध्यं विधाय । ॐ ह्रां ह्रीं सः श्रीमार्तण्डभैरवाय प्रकाशशक्तिसहिताय इदमर्घ्यं परिकल्पयामि स्वाहा इति त्रिरर्घ्यं कुलसूर्याय दत्त्वा । हृत्पद्मात् सूर्यमण्डले मूलदेवीं नीत्वा तत्र विधिवद्ध्यात्वा । ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौः तन्नः शक्तिः प्रचोदयात् । इत्यनया मूलगायत्र्या चतसृषु सन्ध्यासु सूर्यमण्डले मूलदेव्यै अर्ध्यं दत्त्वा यथाशक्ति जपेत् । ततश्चतसृषु सन्ध्यासु क्रमशो मूलाधार -हृत्कमल -भ्रूमध्यब्रह्मरन्ध्रेभ्यो देवीतेजः समाकृष्य इडया विरेच्य । कल्पितवह्निसूर्यचन्द्रतारामण्डलेषु निक्षिप्य । तत्र बालायौवनप्रौढचिद्रूपां देवीं ध्यात्वा । ततः ऐं त्रिपुरादेव्यै विद्महे वागीश्वर्यै धीमहि तन्नो मुक्तिः प्रचोदयात् । इति प्रातः । क्लीं त्रिपुरादेव्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदथात् । इति मध्याह्ने । सौः त्रिपुरादेव्यै विद्महे शक्तिश्वर्यै धीमहि तन्नोऽमृते प्रचोदयात् । इति सायम् । ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौः तन्नः शक्तिः प्रचोदयात् । इति अर्धरात्रे । इति स्वस्वगायत्र्यार्घ्यं दत्त्वा यथाशक्ति स्वस्वगायत्रीं च जप्त्वा । पूनर्मूलगायत्रीं च जप्त्वा स्वस्वबीजाक्षरं सर्वं मूलं च जप्त्वा । प्राणायामादिना जपं समर्प्य मण्डलेभ्यो देवीतेजः स्वस्थाने । देवीं च हृद्यानीय ध्यायेदिति सन्ध्याविधिः ॥ ततस्तर्पणम् । तत्र पुर्ववदाचम्य प्राणायामादि कृत्वा तीर्थमावाह्य । मूलेन जलं सप्तधा अमृतमुद्रया अमृतीकृत्य । तत्र जले यन्त्रं ध्यात्वा । तत्र देवीं हृदयात् सपरिवारामानीय । षडङ्गयोगेन सकलीकृत्य कुण्डलिन्याः प्रयोगेणामृतेनाभिषिच्य । विधिवत् प्रपूज्य । एशान्यां ४ श्रीकौलानन्दनाथभैरवस्तृप्यतां इति त्रिः सन्तर्प्य । वह्नौ ४ परमगुरुं । नैरृत्यां ४ परमाचार्यं । वायव्ये ४ परमेष्ठिगुरुं । त्रिः सकृद्वा सन्तर्प्य । दिव्यौघसिद्धौघमानवौघानापि गुरून् सन्तर्प्य जले यन्त्रं विभाव्य । ४ कामेश्वरसहिता बालात्रिपुरा वागीश्वरौ तृप्यतामिति त्रिः सन्तर्प्य परिवारानपि सन्तर्प्य । प्राणायामादि विधाय देवीं स्वहृदि विसृजेत् । तीर्थं च स्वस्थाने विसृजेदिति तर्पणम् ॥ ततो यागगेहमागत्य जलादिना द्वारदेवताः पूजयेत् । धात्रे नमः । विधात्रे नमः (दक्षे) गं गङ्गायै नमः । यं यमुनायै नमः । (वामे) द्वारश्रियै नमः । वास्तुपुरुषाय नमः (ऊर्ध्वे) । देहल्यै नमः इत्यधः सम्पूजयेत् । स्वासनमास्तीर्यं ह्रीं आधारशक्तिकमलासनाय नमः इति सम्पूज्य वीराद्यासनेनोपविश्य । ``पृथ्वि त्वया धृता लोकाः इत्यादिना पृथिवीं प्रार्थ्य मण्डूकाय नमः । कालाग्निरुद्राय नमः । ह्रीं आधारशक्तिकमलासनाय नमः । ह्रीम्पीठासनाय नमः । इत्यासनं सम्पूज्य । तदुपरि समुपविश्य । संविदं यथामन्त्रं स्वीकुर्यात् । तद्विधिर्यथा - संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे । ब्राह्मणानां च तृप्त्यर्थं पवित्रा भाव सर्वदा ॥ सिद्धमूल्यक्षये देवि हीनबोधप्रबोधिनि । राजप्रजावशङ्करि शत्रुपक्षनिषूदिनि ॥ ऐं क्षत्रियायै नमः स्वाहा । अज्ञानेन्धनदीप्ताग्ने ज्ञानाग्निब्रह्मरूपिणि । आनन्दस्याहुतिं प्रीतिं सम्यग्ज्ञानं प्रयच्छ मे ॥ ह्रीं वैश्यायै नमः स्वाहा । नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि । त्रैलोक्यविजये मातः समाधिविजया भव ॥ क्लीं शूद्रायै नमः स्वाहा । इत्यभिमन्त्र्य । ``ओं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतमाकर्षय आकर्षय सिद्धिं देहि देहि त्रिपुरसुन्दरीपदं मे वशमानय वशमानय स्वाहा'' इति तदुपरि सप्तधा मूलं च जप्त्वा । धेनुयोनिमुद्रयाऽमृतीकृत्य आवाहनादिमुद्राः सन्दर्श्य । छोटिकाभिर्दिग्बन्धनं बिधाय । सप्तधा त्रिधा वा श्रीगुरुं देवतां च सन्तर्प्य । ``ऐं वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव सर्वसत्त्ववशङ्करि स्वाहा'' इत्यनेन मुखे जुहुयात् । ततः आनन्दमयो भवति । ``अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ पाषण्डकारिणो ये च भूता भूम्यन्तरिक्षगाः । दिवि लोके स्थिता ये च ते नश्यन्तु शिवाज्ञया ॥ `` इति तर्जनीमध्यमाभ्यामूर्ध्वोर्ध्वं तालत्रयदानेन वामपार्ष्णिघातत्रयेण दिव्यदृष्ट्या च त्रिविधविघ्नानुत्सार्य । छोटिकाभिर्दशदिग्बन्धनं कृत्वा चतुर्दिक्षु वह्निप्राकारं सञ्चिन्त्य प्राणायामं कुर्यात् । तत्र प्रणवं षोडशवारमुच्चरन् दक्षाङ्गुष्ठेन दक्षनासापुटं निरुध्य वामेन पवनं पूरयेत् । ततस्तमेव चतुष्षष्टिवारमुच्चरन् दक्षानामाकनिष्ठिकाभ्यां वामं च पुटं निरुध्य द्वाभ्यां पवनं कुम्भयेत् । ततस्तमेव द्वात्रिंशद्वारमुच्चरन् वामं पुटं तथैव निरुध्य दक्षेण पवनं रेचयेदित्येकः प्राणायामः । एष एव विपर्ययेण द्वितीयः । प्रथमवत् तृतीयः । इति प्राणायामत्रयेण निरस्तसकलकलुषं स्वदेहं देवताराधनयोग्यं विभाव्य भूतशुद्धिं कुर्यात् । अथ मूलाधाराद्धंस इति मन्त्रेण कुण्डलिनीं पृथिव्या सह स्वाधिष्ठानमानीय । तत्र जले पृथिवीं लीनां विभाव्य तस्माज्जलेन सह मणिपूरकं समानीय । तत्र वह्नौ जलं लीनं विभाव्य तस्माद्वह्निना सह अनाहतं समानीय । तत्र वायौ वह्निं लीनं विचिन्त्य । तस्माद्वायुना सह विशुद्धं समानीय । तत्रस्थाकाशे वायुं लीनं विचिन्त्य । तस्मादाकाशेन सह आज्ञाचक्रं समानीय । तत्र मनस्याकाशं लीनं विचिन्त्य । मनो नादे लीनं विभाव्य । ध्वनौ ध्वनिं समर्प्य । सहस्रदलकमलकर्णिकास्थचन्द्रमण्डलमध्यगतत्रिकोणान्तर्गत- तेजोमयबिन्दुरूपपरमशिवे देवतां समर्प्य । प्राणायामविधिना यमिति वायुबीजं धूम्रवर्णं षोडशवारं जपन् शारीरं पापपुरुषं । ``वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् । ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ॥ सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् । तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड्गचर्मधरं क्रुद्धं पापं कुक्षौ विचिन्तयेत् ॥ इत्थं संशोष्य । रमिति वह्निबीजं रक्तवर्णं चतुष्षष्टिवारं जपन् तमेव सन्दह्य । वमित्यमृतबीजं शुक्लवर्णं सहस्रारे विचिन्त्य द्वात्रिंशद्वारं जपन् तदुद्भवामृतवृष्ट्या निष्पापं शरीरमुत्पाद्य । ललाटस्थ-लमिति पृथ्वीबीजेन पीतवर्णेन सुदृढीकृत्य । ह्रीमिति मूलस्थेन बीजेन सैश्वर्यं विधाय । सोऽहमिति मन्त्रेण कुण्डलिनीममृतलोलीभूतां पञ्चभूतानि जीवात्मानं च ब्रह्ममार्गेण स्वस्वस्थाने नियोजयेत् । ततो देवीरूपमात्मानं विचिन्त्य हृदि हस्तं निधाय प्राणप्रतिष्ठां कुर्यात् । ॐ आंह्रीक्रों हंसः श्रीबालात्रिपुरायाः प्राणा इह प्राणाः । जीव इह स्थितः । ॐ सर्वेन्द्रियाणि इह स्थितानि । वाड्मनश्चक्षुःश्रोत्रघ्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा इति प्राणप्रतिष्ठां विधाय । स्वमूलऋष्यादिचिन्तनं विदधीत । अस्य श्रीबालात्रिपुरामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीबालात्रिपुरा देवता । ऐं बीजं । सौः शक्तिः । क्लीं कीलकं । पूजादौ विनियोगः इति कृताञ्जलिः स्मृत्वा यथाविधि न्यसेत् । दक्षिणामूर्तिऋषये नमः शिरसि । पङ्क्तिच्छन्दसे नमो मुखे । श्रीबालात्रिपुरादेवतायै नमो हृदि । ऐं बीजाय नमो गुह्ये । सौः शक्तये नमः पादयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गेषु । ऐं नमः (नाभ्यादिपादान्तं) । क्लीं नमः (कण्ठादिनाभ्यन्तं) । सौः नमः (मूर्धादिकण्ठान्तम्) ॥ ऐं नमः (वामपाणितले) क्लीं नमः (दक्षे) सौः नमः (उभयोः) ॥ द्रां क्षोभणबाणाय नमः (अङ्गुष्ठयोः) । द्रीं द्रावणबाणाय नमः (तर्जन्योः) । क्लीं आकर्षणबाणाय नमः (मध्यमयोः) । ब्लूं वशीकरणबाणाय नमः (अनामिकयोः) । इति बाणन्यासः ॥ सौः कामाय नमः (अङ्गुष्ठयोः) । क्लीं मन्मथाय नमः (तर्जन्योः) । ऐं कन्दर्पाय नमः (मध्यमयोः) । ब्लूं मकरध्वजाय नमः (अनामिकयोः) स्त्रीं मीनकेतवे नमः (कनिष्ठिकयोः) । इति कामकरन्यासः ॥ अथ स्वमूलकरन्यासः । ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । मातृकान्यासः । अस्य श्रीमातृकासरस्वतीन्यासमहामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीमातृकासरस्वती देवता । हल्भ्यो बीजेभ्यो नमः । स्वरेभ्यः शक्तिभ्यो नमः । बिन्दुभ्यः कीलकेभ्यो नमः । मम श्रीविद्याङ्गत्वेन न्यासे विनियोगः ॥ सर्वमातृकया सर्वाङ्गे अञ्जलिना त्रिर्व्यापकं कुर्यात् ॥ (७ -ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः) ७ अं कं खं गं घं ङं - आं अङ्गुष्ठाभ्यां नमः ७ इं चं छं जं झं ञं - ईं तर्जनीभ्यां नमः ७ उं टं ठं डं ढं णं - ऊं मध्यमाभ्यां नमः ७ एं तं थं दं धं नं - ऐं अनामिकाभ्यां नमः ७ ओं पं फं बं भं मं - औं कनिष्ठिकाभ्यां नमः ७ अं यं रं लं वं शं षं सं हं लं क्षं अः - करतलकरपृष्ठाभ्यां नमः एवं हृदयादिन्यासः । भूर्भुवस्सुवरों इति दिग्बन्धः ॥ ध्यानम् । पञ्चाशद्वर्णभेदैर्विहितवदनदोः पादयुक्कुक्षिवक्षो - देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणामब्जसंस्थां अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ लमित्यादि पञ्चपूजां कृत्वा । बहिर्मातृका मातृकाः त्रितारीबालापूर्विकाः नम हंसः इत्यन्ताः स्वाङ्गेषु न्यसेत् । ७ अं नमः हंसः (शिरसि) ७ कं नमः (दक्षबाहुमूले) ७ आं -(मुखवृत्ते)) ७ खं (दक्षकूर्षरे) ७ इं (दक्षनेत्रे) ७ गं हंसः (दक्षिमणिबन्धे) ७ ईं (वामनेत्रे) ७ घं (दक्षकराङ्गुलिमूले) ७ उं (दक्षकर्णे) ७ ङं (दक्षकराङ्गुल्यग्रे) ७ ऊं (वामकर्णे) ७ चं (वामबाहुमुले) ७ ऋं (दक्षनासापुटे) ७ छं (वामकूर्परे) ७ ॠं (वामनासापुटे) ७ जं (वाममणिम्बन्धे) ७ लृं । (दक्षकपोलं) ७ झं (वामकराङ्गुलिमूले) ७ लॄं (वामकपोले) ७ ञं (वामकराङ्गुल्यग्रे) ७ ऐं (अधरोष्ठे ७ टं (दक्षोरुमूले) ७ ॐ (ऊर्ध्वदन्तपङ्क्तौ) ७ ठं (दक्षजानुनि) ७ औं (अधोदन्तपङ्क्तौ) ७ ढं (दक्षपादाङ्गुलिमूले) ७ अं (जिह्वाग्रे) (मूध्र्नि) ७ णं (दक्षपादाङ्गुल्यग्रे) ७ अः (खण्ठे) (वक्त्रै) ७ तं (वामोरुमूले) ७ थं (वामजानुनि) ७ दं (वामगुल्फे) ७ धं (वामपादाङ्गुलिमूले) ७ नं (वामपादाङ्गुल्यग्रे) ७ पं नमः हंसः (दक्षपाश्वे) ७ फं (वामपार्श्वे) ७ बं (पृष्ठे) ७ भं (नाभौ) ७ मं (जठरे) ७ यं (हृदये) ७ रं (दक्षकक्षे) ७ लं (गलपृष्ठे) ७ वं (वामकक्षे) ७ शं (हृदयादिदक्षकराङ्गुल्यन्तं) ७ षं (हृदयादिवामकराङ्गुल्यन्तं) ७ सं (हृदयादिदक्षपादाङ्गुल्यन्तं) ७ हं (हृदयादिवामपादाङ्गुल्यन्तं) ७ ळं (कट्यादिपादाङ्गुल्यन्तं) ७ क्षं (कट्यादिब्रह्मरन्ध्रान्तं) अन्तर्मातृका । ७ अं नमः हंसः । आं नमः हंसः इत्यादि अक्षरवर्गीण सहितं ..... अः नमः हंसः ॥ कण्ठे विशुद्धिचक्रे षोडशदलकमले ॥ ७ कं नमः हंसः । खं नमः हंसः इत्यादि अक्षरवर्गेण सहितं ..... ठं नमः हंसः ॥ हृदये अनाहते द्वादशदलकमले ॥ ७ डं नमः हंसः । ढं नमः हंसः इत्यादि अक्षरवर्गीण सहितं ..... फं नमः हंसः ॥ नाभौ मणिपूरे दशदलकमले ॥ ७ बं नमः हंसः । भं नमः हंसः इत्यादि अक्षरवर्गीण सहितं ..... लं नमः हंसः ॥ लिङ्गमूले स्वाधिष्ठाने षड्दलकमले ॥ ७ वं नमः हंसः । शं नमः हंसः इत्यादि अक्षरवर्गीण सहितं ..... सं नमः हंसः ॥ गुदोपरि मूलाधारे चतुर्दलकमले ॥ ७ हं नमः हंसः । क्षं नमः हंसः ॥ भ्रुवोर्मध्ये आज्ञाचक्रे द्विदले ७ अं नमः हंसः । आं नमः हंसः इत्यादि अक्षरवर्गीण सहितं ..... क्षं नमः हंसः ॥ (५० वर्णाः) मूर्ध्नि सहस्रारे ॥ ऐं नमः मणिबन्धे । क्लीं नमः तले । सौः अग्रे । इति दक्षकरे । एवं वामकरे । ऐं नमः कक्षे । क्लीं कूर्परे । सौः पाणौ इति दक्षे । एवं वामेऽपि । ऐं नमः अधः कक्षे । क्लीं जानुनि । सौः पादाघ्रे इति दक्षे । एवं वामे । ऐं नमो लिङ्गे । क्लीं हृदि । सौः नादान्ते । इति विद्यान्यासः । नवयोनिन्यासः । ऐं दक्षकर्णे । क्लीं वामे । सौः चिबुके । ऐं दक्षशङ्खे । क्लीं वामे । सौः मुखे । ऐं दक्षनेत्रे । क्लीं वामे । सौः मुखे । ऐं दक्षनेत्रे । क्लीं वामे । सौः नासायां । ऐं दक्षबाहौ । क्लीं वामे । सौः कुक्षौ । ऐं दक्षजानुनि । क्लीं वामे । सौः नाभौ । ऐं दक्षपादे । क्लीं वामे । सौः गुह्ये । ऐं दक्षपार्श्वे । क्लीं वामे । सौः हृदि । ऐं दक्षस्तने । क्लीं वामे । सौः कण्ठे । रत्यादिन्यासः । (मूलाधारे) ऐंरत्यै नमः (हृदि) । क्लीं प्रीत्यै नमः (भ्रूमध्ये)। सौः मनोभवायै नमः । (मूलाधारे) सौः अमृतेश्यै नमः (हृदि)। क्लीं योगेश्यै नमः (भ्रूमध्ये) ऐं विश्वयोन्यै नमः । ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषाट् । ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ॥ इति न्यासैर्देहं सन्नह्य । ``मूलाधारे मूलविद्यां विद्युकोटिसमप्रभाम् ॥ सुर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् । बिसतन्तुस्वरूपां तां बिन्दुत्रिवलयां प्रिये । ऊर्ध्वशक्तिनिपातेन सहजेन वरानने ॥ मूलशक्तिदृढत्वेन मध्यशक्तिप्रबोधतः । परमानन्दसन्दोहसानन्दं चिन्तये परम् ॥ इत्यन्तर्यजनं कृत्वा पीठपूजां न्यासेन स्वदेहे कुर्यात् । आत्मनि पीठपूजा (मूलाधारे) आधारशक्तये नमः । प्रकृत्यै नमः । (स्वाधिष्ठाने) कमठाय नमः । (मणिपूरे) शेषाय नमः । (अनाहते) पृथिव्यै नमः । सुधाम्बुधये नमः । मणिद्वीपाय नमः । चिन्तामणिगृहाय नमः । रत्नवेदिकायै नमः । मणिपीठाय नमः । (दिक्षु) नानामुनिगणेभ्यो नमः । नानादेवेभ्यो नमः । धर्माय नमः (दक्षांसे) । अधर्माय (दक्षकुक्षौ) । अज्ञानाय नमः । (दक्षपृष्ठे) । अवैराग्याय नमः (वामपृष्ठे) । अनैश्वर्याय (वामकुक्षौ) । शेषाय नमः । पद्माय नमः । प्रकृतिमयपत्रेभ्यो । विकृतिमयकेसरेभ्यो नमः । पञ्चाशद्वर्णभूषितकर्णिकायै नमः । सूर्यमण्डलाय नमः । सोममण्डलाय नमः । वह्निमण्डलाय नमः । सं सत्त्वाय नमः । रं रजसे नमः । तं तमसे । आं आत्मने नमः । अं अन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः । पत्रेषु वामायै । ज्येष्ठायै नमः । रौद्र्यै नमः । अम्बिकायै नमः । इच्छायै नमः । ज्ञानदायै नमः । क्रियायै नमः । कुब्जिकायै नमः । चित्रायै नमः । विषघ्निकायै नमः । दूतर्यै नमः । आनन्दायै नमः । मध्ये मनोन्मन्यै नमः । ऐं परायै । अपरायै नमः । परापरायै नमः । ह्सौं सदाशिवमञ्चपद्मासनाय नमः । परमशिवपर्यङ्काय नमः । इति पीठं न्यस्य तत्रैव हृदये श्रीबालां ध्यायेत् । मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयसीम् । भ्रमद्भ्रमरनीलाभधम्मिल्लामलपुष्पिणीम् ॥ १॥ ब्रह्मरन्ध्रस्फुरद्भिन्नमुखरेखाविराजिताम् । मुखरेखालग्नरत्नतिलकां मुकुटोज्ज्वलाम् ॥ २॥ विशुद्धमुक्तावज्राढ्यचन्द्ररेखाकिरीटिनीम् । भ्रमद्भ्रमरनीलाभनयनत्रयराजिताम् ॥ ३॥ सूर्यभास्वन्महारत्नकुण्डलालङ्कृतां पराम् । शुक्राकारस्फुरन्मुक्ताहारभूषणभूषिताम् ॥ ४॥ ग्रैवेयाङ्गदपत्रालिस्फुरत्कान्तिजितामृताम् । गङ्गातरङ्गकर्पूरशुभ्राम्बरविराजिताम् ॥ ५॥ श्रीखण्डवल्लीसदृशबाहुवल्लीविराजिताम् । कङ्कणादिलसद्भूषामणिबन्धलसत्प्रभाम् ॥ ६॥ रक्तोत्पलदलाकारपादपल्लवशोभिताम् । नक्षत्रमात्रासङ्काशमुक्तामञ्जीरमण्डिताम् ॥ ७॥ वामेन पाणिनैकेन पुस्तकं चापरेण तु । अभयं च प्रयच्छन्तीं साधकानां वरानने ॥ ८॥ अक्षमालां च वरदं दक्षपाणिद्वयेन तु । दधतीं भावये देवीं वश्यसौभाग्यवाक्प्रदाम् । क्षीरकुन्देन्दुधवलां प्रसन्नां संस्मराम्यहम् ॥ इति श्री बालात्रिपुरां ध्यात्वा मानसोपचारैराराध्य मनसा यथाशक्ति जपहोमादिकं च कृत्वा । ``धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुवा । सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहं स्वाहा ॥ `` कामकलां विचिन्त्य तदुपरि श्रीबालां यथोक्तां ध्यायन् । स्ववामभागे षट्कोणान्तर्गतत्रिककोणद्वयबिन्दुबाह्यवृत्तचतुरश्रं कृत्वा स्वदक्षे त्रिकोणं वृत्तबिम्बं मण्डलं भूमौ विरच्य तत्राधारशक्तिं सम्पूज्य । तत्राधारं निक्षिप्य । तदुपर्यस्त्रमन्त्रेण शोधितं हृन्मन्त्रेण पूरितं पात्रं शङ्खादिकं वा संस्थाप्य तत्र ``गङ्गे च यमुने चैव '' इत्यादिना तीर्थमावाह्य गन्धादीन् प्रणवेन निक्षिप्य । वह्निसूर्यसोमकलाभिः सम्पूज्य धेनुमुद्रां प्रदर्श्य स्वमन्त्रेण च सम्पूजयेदिति । विधिविहितसामान्यार्घ्योदकेन स्ववामे कृतमण्डलमभ्युक्ष्य । तत्र ``आधारशक्तिभ्यो नमः'' इत्यादि पीठपूजाक्रमेण सम्पूज्य । नमः इत्याधारं प्रक्षाल्य मण्डलोपरि संस्थाप्य । ``रं वह्निमण्डलाय दशकलात्मने नमः'' इति प्रपूज्य । देवीबुद्ध्या संस्थाप्य । ``अं अर्कमण्डलाय द्वादशकलात्मने नमः'' इति कलशे सम्पूज्य । ``ओं चन्द्रमण्डलाय षोडशकलात्मने नमः'' इति द्रव्ये सम्पूज्य । फडिति संरक्ष्य हुमित्यवगुण्ठ्य मूलेन संवीक्ष्य नमः इत्यभ्युक्ष्य मूलेन गन्धमाघ्राय । कुम्भे पुष्पं दत्त्वा शापमोचनं कुर्यात् । एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् । कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ सूर्यमण्डलसम्भूते वरुणालयसम्भवे । अमाबीजमयि देवि शुक्रशापाद्विमुच्यताम् ॥ वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि । तेन सत्येन देवेशि ब्रह्महत्यां व्यपोहतु ॥ पवमानः परानन्दः पवमानः परो रसः । पवमानं परं ज्ञानं तेन ते पावयाम्यहम् ॥ कृष्णशापविनिर्मुक्ता त्वं मुक्ता ब्रह्मशापतः । विमुक्ता रुद्रशापेन पवित्रा भव साम्प्रतम् ॥ इति त्रिः पठित्वा ततः ॐ वां वीं वूं वैं वौं वः ब्रह्मशापमोचितायै सुरादेव्यै नमः इत्यपि त्रिः । ह्रीं श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रः सुराकृष्णशापं मोचय मोचय अमृतं स्रावय स्रावय स्वाहा इति त्रिः । हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिर्थिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ इत्यपि त्रिः पठित्वा आनन्दभैरवं सुरादेवीं च तत्र ध्यात्वा हसरक्षमलवयऊं आनन्दभैरवाय वौषट् । सहक्षमलवरयऊं सुरादेव्यै वौषट् । इति देवदेव्यौ त्रिः सम्पूज्य द्रव्यमध्ये दक्षिणावर्तेने त्रिः पङ्क्त्या अं (१६) कं (१६) थं (१६) इति शक्तिचक्रं विलिख्य तन्मध्ये हं क्षं च । तत्समावेशाद्द्रव्यमध्येऽमृतं विचिन्त्य । धेनुमुद्रया अमृतीकृत्य वमिति सुधाबीजं मूलमप्यष्टधा घटं धृत्वा पठित्वा । आत्मश्रीचक्रयोर्मध्ये त्रिकोणषट्कोणवृत्तचतुरस्रं विलिख्य । चतुरश्रे पूर्णगिरिपीठाय नमः । उड्डीयानपीठाय नमः । कामरूपीठाय नमः । जालन्धरपीठाय नमः । इति सम्पूज्य । षट्कोणे षडङ्गं सम्पूज्य । त्रिखण्डेन त्रिकोणाग्रदक्षोत्तरं सम्पूज्य । मध्ये आधारशक्तीः सम्पूज्य त्रिकोणगर्भे यन्त्रिकां संस्थाप्य नमः इति सामान्यार्घ्यजलेनाभ्युक्ष्य यं धूम्रार्चिषे नमः । रं ऊष्मायै नमः । लं ज्वलिन्यैः नमः । वं ज्वालिन्यै नमः । शं विस्फुलिङ्गिन्यै नमः । षं सुश्रियै नमः । सं स्वरूपायै नमः । हं कपिलायै नमः । लं हव्यवाहायै नमः । क्षं कव्यवाहायै नमः । मध्ये रं वह्निमण्डलाय दशकलात्मने नमः । इति सम्पूज्य । षट्कोणे षडङ्गं सम्पूज्य । मध्ये मूलेन देवीं सम्पूज्य । पात्रं फडिति प्रक्षाल्य । यन्त्रिकोपरि संस्थापयेत् । तत्र कं भं तपिन्यै नमः । खं वं तापिन्यै नमः । गं फं धूम्रायै नमः । घं पं मरीच्यै नमः । ङं नं ज्वलिन्यै नमः । चं धं रुच्यै नमः । छं दं सुषुम्नायै नमः । जं थं भोगदायै नमः । झ तं विश्वायै नमः । ञं णं बोधिन्यै नमः । टं ढं धारिण्यै नमः । ठं डं क्षमायै नमः । अं अर्कमण्डलाय द्वादशकलात्मने नमः । इति सम्पूज्य । त्रिकोणवृत्तषट्कोणं पात्रे विलिख्य समस्तव्यस्तमन्त्रेण सम्पूज्य । वरुणबीजं मूलं विलोममातृकां च पठन् । अमृतेन त्रिकोणं प्रपूर्य जलेन च भागमेकं प्रपूर्य तत्र सुगन्धादि निक्षिप्य । अं अमृतायै नमः । आं मानदायै नमः । इं पूषायै नमः । ईं तुष्ट्यै नमः । उं पुष्ट्यै नमः । ऊं रत्यै नमः । ॠं धृत्यै नमः । ॠं शशिन्यै नमः । लृं चन्डिकायै नमः । लॄं कान्त्यै नमः । एं ज्योत्स्नायै नमः । ऐं श्रियै नमः । ॐ प्रीत्यै नमः । औं अङ्गदायै नमः । अं पूर्णायै नमः । अः पूर्णामृतायै नमः । ॐ सोममण्डलाय षोडशकलात्मने नमः । इति सम्पूज्य । पूर्ववन्मन्त्रं द्रव्ये विलिख्य त्रिकोणत्रिरेखायां अं आं इत्यादि क्षः इत्यन्तं मातृकां त्रिस्त्रिर्विलिख्य । मूलखण्डत्रयेण त्रिकोणं सम्पूज्य षट्कोणे षडङ्गं च । गङ्गेत्यादिना तीर्थमावाह्य । आनन्दभैरवभैरव्यौ स्वमन्त्रेण सम्पूज्य । पूर्वादितः । ग्लूं गगनरत्नेभ्यो नमः । स्लूं स्वर्गरत्नेभ्यो नमः । म्लूं मर्त्यरत्नेभ्यो नमः । प्लूं पातालरन्तेभ्यो नमः । मध्ये न्लूं नागरत्नेभ्यो नमः । इति सम्पूज्य । निवेदनद्रव्यं संशोध्य हुमित्यवगुण्ढ्य अमृतीकृत्य । तालत्रयेण दिशः सम्बद्ध्य । तदुपरि सप्तधा मूलं सम्पूज्य तत्र देवीमावाह्य । तालत्रयेण दिग्बन्धनं विधाय अवगुण्ढ्यामृतीकृत्य । योनिमुद्रां प्रदर्श्य । ह्सौं नमः इति सम्पूज्य । शङ्खःमुद्रां प्रदर्श्य षडङ्गेन सकलीकृत्य मत्स्यमुद्रया पात्रमासाद्य मूलं दशधा जप्त्वा पात्रं देवीरूपं विभावयेदिति । ततो देव्याज्ञामादाय घटसमीपे गुरुपात्रं ततः शक्तिपात्रं भोगपात्रं स्वपात्रं योगिनीपात्रं वीरपात्रं बलिपाद्यार्घ्याचमनीयपात्राणि संस्थाप्य । चर्वणयुतकारणेन तत्त्वमुद्रया श्रीपात्राद्बिन्दून् समुद्धृत्य । आनन्दभैरवं तर्पयामि नमः इति तन्मन्त्रेण त्रिः सन्तर्प्य । ततः श्रीगुरु श्रीमच्छ्री .... आनन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः इति त्रिः सन्तर्प्य । श्रीपात्रामृतेन मूलदेवीं सायुधां सवाहनां सपरिवारां तर्पयामि नमः इति सन्तर्पयेदिति कलशपूजाविधिः । अथ श्रीचक्रोपरि पीठपूजां पूर्ववद्विधाय श्रीबालां ध्यात्वा वायुबीजेन वामनासापुटेन देवीं स्वहृदयात् कुसुमाञ्जलावानीय श्रीचक्रे संस्थाप्य । ``देवेशि भक्तिसुलभे परिवारसमन्विते । यावत्त्वां पूजयिष्यामि तावद्देवि इहावह ॥ इति पठित्वा । ७ श्रीकामेश्वरशिवशिवासहिते बलात्रिपुरे इहागच्छ आगच्छ । इह तिष्ठ तिष्ठ । इह सन्निधेहि सन्निधेहि । सन्निरुद्धा भव सन्निरुद्धा भव । मम सर्वोपचारसहितां पूजां गृहाण गृहाण इत्यावाहनादिमुद्राः प्रदर्श्य । प्राणप्रतिष्ठां श्रीचक्रे लेलिहानमुद्रया विधाय दशदिग्बन्धं कृत्वा अवगुण्ढ्य सकलीकृत्य परमीकृत्य । धेनुयोनिमुद्रे प्रदर्श्य वराभयपुस्तकाक्षमालाज्ञानाङ्कुशपाशचापबाणकपालकमलादिमुद्राः प्रदर्श्य । श्रीपात्रामृतेन सायुधां सवाहनां सपरिवारां सावरणां श्रीकामेश्वराङ्कमध्यस्थ कामेश्वर्यङ्कसंस्थितां श्रीबालात्रिपुरां तर्पयामि नमः इति त्रिः सण्तर्प्य । पुनरपि मूलेन श्रीबालात्रिपुराश्रीपादुकां तर्पयामि नमः इति त्रिः सन्तर्प्य मूलमुच्चार्य । एतत्पाड्यं श्रीकामेश्वरसहित श्रीबालात्रिपुरायै नमः पादयोः पाद्यम् । एवमर्घ्र्यं स्वाहा (हस्तयोः) । आचमनीयं मधुपर्कं च सुधा (मुखे) । स्नानीयं नमः (सर्वाङ्गे) । इति सुस्नाप्य । शुद्धदुकूलेनाङ्गं प्रोञ्च्छय । विचित्रपटवस्त्रं कुङ्कुम- कस्तूरीचन्दनसिन्दूरमुकुटकुण्डलहारादिनानालङ्करान् दत्त्वा पुनराचमनीयं दद्यात् । ततो मध्यमानामाङ्गुष्ठैः गन्धो नमः इति गन्धं । अङ्गुष्ठतर्जनीभ्यां पुष्पाणि वौषट् इति पुष्पैः सम्पूज्य । धूपपात्रं फडिति सम्पूज्य पुरतः स्थापयित्वा वामतर्जन्या संस्पृशन् श्रीपात्रामृतेन धूपं निवेदयामि इति निवेद्य । जगद्ध्वनिमन्त्रमातः स्वाहा इति घण्टां सम्पूज्य वामेन पाणिना तां वादयन्मध्यानामाङ्गुष्ठैर्धूपं धृत्वा गायत्रीं मूलमन्त्रं च पठन् । ``वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः । आह्वानं सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ `` इति त्रिधोत्तोल्य देवीं धूपयेत् । ततो दीपं सम्मुखे संस्थाप्य पूर्ववत् प्रोक्षणपूजने कृत्वा वाममध्यमया दीपपात्रं स्पृशन् दीपं निवेदयामि इति निवेद्य पूर्ववत् घण्टां वादयन् । मध्यमानामामध्ये दीपपात्रमङ्गुष्ठेन धृत्वा दर्शयन् । गायत्रीं मूलं च पठन् । ७ ``सुप्रकाशो महादीपः सर्वत्र तिमिरापहः । स बाह्याभ्यान्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥'' इति दीपयेत् । ततः सुवर्णादिपात्रे कुङ्कुमेन वसुपत्रं चन्द्ररूपं चरुं कृत्वा मध्ये दीपमेकमष्टपत्रेषु दीपाष्टकं संस्थाप्य श्रीं सौः ग्लूं स्लुं म्लूं प्लूं न्लूं सौः श्रीः रत्नेश्वर्यै नमः । इत्यभ्यर्च्य मूलेन चाभ्यर्च्य । स्थालकं मस्तकान्तमृद्धृत्य नववारं । मूलं च पठन् । ``समस्तचक्रचक्रेशीयुते देवि नवात्मिके । आरात्रिकमिदं देवि गृःआण मम सिद्धये ॥ `` इति चक्रमुद्रया नीराजयेत् । ततो नानानैवेद्यं सुवर्णादिपात्रे निक्षिप्य हुमित्यवगुण्ठ्य धेनुमुद्रयामृतीकृत्य । मूलं सप्तधा जप्त्वा वामाङ्गुष्ठेन नैवेद्यपात्रं स्पृशन् मूलान्ते । ``हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् । पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ॥ `` नैवेद्यं निवेदयामीति दक्षानामाङ्गुष्ठाभ्यामुत्सृजेत् । ततः पुनराचमनीयं दत्त्वा मूलान्ते कर्पूरादियुक्तताम्बूलं निवेदयामिति पुर्ववद्दद्यात् । सर्वेषामर्घ्यपात्रजलेनोत्सर्गः कार्यः । ततस्तत्त्वमुद्रया देवीं त्रिः सन्तर्प्य पूर्वोक्ताः मुद्राः प्रदर्श्य । योनिं हृदि । क्षोभिणीं मुखे । द्राविणीं भ्रूमध्ये । आकर्षिणीं ललाटे । वशिनीं ब्रह्मरन्ध्रे । आह्लादिनीं पञ्चमुद्रामयीं प्रदर्श्य । कृताञ्जलिः ``श्रीबालात्रिपुरे आवरणानि ते पूजयामि'' इत्याज्ञां गृहीत्वावरणपूजामारभेत । तत्रादौ प्राग्योनिमध्ययोन्योरन्तराले गुरुपात्रे (त्रेण) ..... आनन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः । एवं परमगुरु श्रीपादुकां पू । परमाचार्य श्री । परमेष्ठिगुरुश्री । दिव्यौधगुरुश्री । सिद्धौघगुरुश्री । मानवौघगुरुश्री । पुनः स्वगुरुश्री । इति पूजयेत्तर्पयेच्च । आग्नेये हृदयश्रीपा । ईशाने शिरःश्रीपा । नैऋते शिखाश्रीपा । वायव्ये कवचश्रीपा । मध्ये नेत्र श्रीपा । दिक्षु चतुर्धा अस्त्रश्री । इति पूजयेत्तर्पयेच्च । ततस्त्रिकोणे आग्नेये ऐं रं रति श्रीपा । ईशाने क्लीं प्रीं प्रीति श्रीपा । अग्रकोणे सौः मं मनोभवा श्रीपा । इति पूजयेत्तर्पयेच्च । ततस्त्रिकोणस्यैवोत्तरे । द्रां क्षोभणबाणश्री । द्रिं द्रावणबाणश्री । क्लीं आकर्षणबाणश्री । ब्लूं वशीकरणबाणश्री । तदग्रे सः उन्मादनबाणश्री । इति सम्पूज्य सन्तर्प्य । तथैव तदुत्तरे । सौः कामश्री । क्लीं मन्मथश्री । तद्दक्षे ऐं कन्दर्पश्री । ब्लूं मकरध्वजश्री । अग्रे स्त्रीं मीनकेतुश्री । इति पूजयेत्तर्पयेच्च । ततोऽष्टयोनिषु पूर्वादितः । अनङ्गकुसुमाश्री । अनङ्गमेखलाश्री । अनङ्गमदनाश्री । अनङ्गमदनातुराश्री । सुभगाश्री । भगाश्री । भगसर्पिणीश्री । भगमालाश्री । इति पूजयेत्तर्पयेच्च । ततोऽष्टपत्रेषु पूर्वादितः । अं असिताङ्गभैरवश्री । आं ब्राह्मी श्री । इं रुरुभैरवश्री । ईं माहेश्वरीश्री । उं चण्डभैवरश्री । ऊं कौमारीश्री । ऋं क्रोधभैरवश्री । ॠं वैष्णवीश्री । लृं उन्मत्तभैरवश्री । ॡ वाराहीश्री । ऐं कपालिभैरवश्री । ऐं माहेन्द्रीश्री । ॐ भीषणभैरवश्री । औं चामुण्डाश्री । अं संहारभैरवश्री । अः नारसिंही श्रीपा । इति पूजयेत्तर्पयेच्च ॥ ततो ग्रन्थिस्थानेषु पश्च्मिमादितः । कामरूपपीठश्री । मलयगिरिपीठश्री । कौलगिरिपीठश्री । कुलान्तकपीठश्री । चौहारपीठश्री । जालन्धरपीठन्धरश्री । उड्डीयानपीठश्री । देवकूटपीठश्री । इति पूजयेत्तर्पयेच्च ॥ ततो वृत्तमण्डले पश्चिमादित ऊर्ध्वमधश्च । हेरुकभैरवश्री । वेतालभैरवश्री । त्रिपुरान्तकभैरवश्री । अग्निजिह्वभैरवश्री । कालान्तकभैरवश्री । कपालिभैरवश्री । एकपादभैरवश्री । भीमरूपभैरवश्री । मलयभैरवश्री । हाकटेश्वरभैरवश्री । इति पूजयेत्तर्पयेच्च ॥ ततश्चतुरस्रे पूर्वादितः । इन्द्रश्री । अग्निश्री । यमश्री । निऋतिश्री । वरुणश्री । वायुश्री । कुबेरश्री । ईशानश्री । इन्द्रेशानयोर्मध्ये ब्रह्मश्री । वरुणराक्षसयोर्मध्ये विष्णुश्री । इति पूजयेत्तर्पयेच्च ॥ ततस्तत्समीपे । वज्रश्री । शक्तिश्री । दण्डश्री । खड्गश्री । पाशश्री । ध्वजश्री । गदाश्री । त्रिशूलश्रीपादुकां पूजयामि त ॥ ततश्चतुरश्रे पश्चिमे । वां वटुकाय नमो वटुकश्री । उत्तरे यां योगिनीभ्यो नमो योनिनीश्री । पूर्वे क्षां क्षेत्रपालाय नमः क्षेत्रपालश्री । दक्षे गां गणपतये नमः गणपतिश्री । इति पूजयेत्तर्पयेच्च ॥ ततो वायव्ये अष्टवसुभ्यो नमः । ईशाने द्वादशादित्येभ्यो नमः । आग्नेये एकादशरुद्रेभ्यो नमः । नैऋते सर्वेभ्यो भूतेभ्यो नमः । इति पूजयेत्तर्पयेच्च ॥ ततो देवीसमीपे दक्षहस्ते अक्षमालाश्री । वरश्री । तद्वामे पुस्तकश्री । अभयश्री । इति पूजयेत्तर्पयेच्च ॥ पुनर्बिन्दौ मूलदेवीं पूर्ववत्सम्पूज्य सन्तर्प्य पुष्पाञ्जलित्रयेण सम्पूज्य नित्यहोममाचरेत् । तद्यथा अग्नौ चक्रं विभाव्य विलिख्य जले वा । प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा । उदानाय स्वाहा । समानाय स्वाहा । इति हुत्वा षडङ्गाहुतीः कुर्यात् । ततो मूलेन स्वदेव्यै हुत्वा । स्वहृदि विसृज्य ईशाने मण्डलं कृत्वा । वां वटुकाय नमः एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वान् विघ्नान् नाशय् अनाशय सर्वोपचारसहितं बलिं गृह्ण गृह्ण स्वाहा । आग्नेये । यां योगिनीभ्यो नमः । ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा तले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा । ऊर्ध्वं पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवर्याः ॥ यां योगिनीभ्यो फट् स्वाहा । इति योगिनीबलिः ॥ नैऋते क्षां क्षीं क्षूं क्षैं क्षौं क्षः क्षेत्रपाल अलिबलिसहितं बलिं गृह्ण गृह्ण स्वाहा । इति क्षेत्रपालबलिः ॥ वायव्ये गां गीं गूं गणपतये वरवरद सर्वजनं मे वशमानय बलिं गृह्ण गृह्ण स्वाहा । इति गणपतिबलिः ॥ इत्थं बलिं विरचय्य गुरुदेव्यौ ध्यायन् यथाशक्तिं जपं विधाय । पुनरपि प्राणायामर्ष्यादिकराङ्गन्यासानन्तरं ``गुह्यातीति'' तर्पणेन तेजोरूपं जपफलं देवीवामहस्ते समर्प्य । कवचसहस्रनामस्तवपाठं पठित्वा साष्टाङ्गं प्रणिपत्य प्रदक्षिणीकृत्य सामयिकैः सह पुर्वोक्तरूपेण पात्रवन्दनं विधाय ``नन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः । अवस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥`` इत्यादि पुर्वोक्तं शान्तिस्तोत्रं पठित्वा । ईशाने ``निर्माल्यवासिन्यै नमः'' इति निर्माल्यं त्यजेत् । ततः ``इतः पुर्वं जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा पद्भ्यामुदरेण शिश्ना प्राणदेहधर्माधिकारतो यदुक्तं यत्कृतं तत्सर्वं मदीयं श्रीबालात्रिपुरार्पणमस्तु । ताम्रादिपात्रेऽघ्र्यं धृत्वा ``ओं ह्रां ह्रीं सः सूर्य एष तेऽघः स्वाहा'' इत्यर्घ्यं सूर्याय दत्त्वा । अच्छिद्रमवधारयेत् । नैवेद्यादि बान्धवैः साकं भुक्त्वा स्वात्मानं कामकलारूपं भावयन् सुखं विहरेत् । इति श्रीबालासपर्यापद्धतिः समाप्ता ।