अक्षर आकार:

बालासपर्यापूजा

Balasaparyapuja

बालासपर्यापूजा

॥ श्रीः ॥ श्रीगुरुभ्यो नमः । श्रीगुरुवन्दनम् - गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ २॥ नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं भावातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ३॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ४॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ५॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ७॥ चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् । असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ८॥ सच्चिदानन्दरूपाय व्यापिने परमात्मने । नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ९॥ ज्ञानशक्तिं समारुह्य तत्त्वमालाविभूषिणे । भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ १०॥ अनेकजन्मसंप्राप्तकर्मधर्मविदाहिने । ज्ञानानल्पप्रभावेन तस्मै श्रीगुरवे नमः ॥ ११॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । स्वात्मैव सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥ गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् । गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १३॥ ब्रह्मानन्दं परमसुखदं योगिनामप्यगम्यं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ १५॥ गुरुर्धाम्ना महिम्ना च शङ्करो यो विराजते । तत्पदाम्भोरुहरजःकणायास्तु नमो मम ॥ १६॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ १७॥ वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ १८॥ इति श्रीगुरुवन्दनं सम्पूर्णम् । श्रीबालादिव्यमङ्गलाध्यानम् - अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः । सहस्रकोटिविस्तीर्णसुधासिन्धोस्तु मध्यमे ॥ १॥ रत्नद्वीपे जगद्दीपे शतकोटिप्रविस्तरे । त्रिलक्षयोजनायाममहापद्मवनावृते ॥ २॥ सहस्रयोजनायामचिन्तामणिगृहान्तरे । पञ्चब्रह्मात्मके मञ्चे सर्वतत्त्वमये शुभे ॥ ३॥ कोटिकन्दर्पलावण्यशिववामाङ्कवासिनीम् । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ ४॥ षड्वक्त्रगजवक्त्राभ्यां पार्श्वयोरूपशोभिताम् । कल्याणगुणसम्पन्नां नतकल्याणदायिनीम् ॥ ५॥ इच्छाज्ञानक्रियारूपां इच्छाकलितविग्रहाम् । राजराजेश्वराङ्कस्थां राजराजेश्वरेश्वरीम् ॥ ६॥ भजे तदङ्कमध्यस्थां तरुणारुणसन्निभाम् । अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥ ७॥ फुल्लकल्हारमध्यस्थां मन्दस्मितमुखीं शिवाम् । कौसुम्भाम्बरसञ्छन्नपूगस्तनमनोहराम् ॥ ८॥ काश्मीरकर्दमालिप्ततनुच्छायाविराजिताम् । देवीसमानाकृतिकां दिव्याभरणभूषिताम् ॥ ९॥ बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलयुग्मके । यन्त्रे ध्यायामि तां बालां नित्यकल्याणरूपिणीम् ॥ १०॥ इति श्रीबालादिव्यमङ्गलाध्यानं सम्पूर्णम् । रश्मिमालाध्यानम् । असङ्ख्यातमहःपुञ्जपिञ्जरीकृतविग्रहाम् । रश्मिमालामहं वन्दे बालात्रिपुरसुन्दरीम् ॥ ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । (मूलाधारे) ॐ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥ (हृदये) ॐ घृणिः सूर्य आदित्य ॐ । (फाले) ॐ (ब्रह्मरन्ध्रे) परोरजसे सावदोम् । (द्वादशान्ते) ॐ सूर्याक्षितेजसे नमः । खेचराय नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधाऽऽवर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ॐ नमो भगवते सूर्यायाहोवाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा । वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः । अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः । श्रीमहाविष्णवे नमः । (मूलाधारे) ॐ नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय । (फाले) ॐ तारे तुत्तारे तुरे स्वाहा । (ब्रह्मरन्ध्रे) ॐ अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । (द्वादशान्ते) ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । (मूलाधारे) ॐ ह्रीं नमः शिवायै । ॐ ह्रीं नमः शिवाय । (हृदये) ॐ जुं सः मां पालय पालय । (फाले) ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं मा च्योढ्वं ममामुष्य ॐ । ब्रह्मरन्ध्रे) ॐ अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ॐ औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वंशं षं सं हं लं क्षं (द्वादशान्ते) ॐ ऐं क्लीं सौः (मूलधारे) ॐ ॐ उच्छिष्टचाण्डालि मातङ्गि क्लीं (सर्ववशङ्करि) स्वाहा ।(हृदि) ॐ ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं शौः श्रीगुरवे नमः । (भ्रूमध्ये) ॐ ऐं ह्रीं श्रीं । ऐं क्लीं सौः । ॐ नमो भगवति राजमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं । श्रीं ह्रीं ऐम् । (हृदि) ॐ ऐं ह्रीं श्रीं । ऐं ग्लौं ऐं । ॐ नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि । अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ऐं । ठः ठः ठः ठः हुं फट् स्वाहा ।(आज्ञायां) ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं (नादान्ते) ॐ ऐं क्लीं सौः सौः क्लीं ऐं (ब्रह्मरन्ध्रे) ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं हंसः शिवः सोऽहं । ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः शौः हंसः शिवः सोऽहं श्रीगुरवे नमः (द्वादशान्ते) ---- अजपामननं हंसहंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् । (३) हंसो गणेशो विधिरेष हंसो हंसो हरिः शम्भुमयोऽपि हंसः । जीवोऽपु हंसो गुरुरेव हंसश्चात्मापि हंसः परमात्महंसः ॥ हंसः सोऽहम् (२१) ---- नित्याह्निकं कृतशौचक्रियः । दन्तशोधनं कृत्वा । ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टनि ते रवे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ इति सूर्यमभ्यर्थ्य स्नानीये तीर्थे गङ्गादिनदीरावाह्य वं इति अमृतबीजेन सप्तवारं अभिमन्त्र्य । मूलेन मूर्धनि त्रीनुदकाञ्जलीन् दत्वा त्रिराचम्य स्नायात् । धौतवाससी परिधाय पुण्ड्रधारणं कुर्यात् ॥ ---- विभूतिधारणं (The vedic symbols have been changed as per the book.) मानस्तो॒के तन॑ये॒ मान॒ आयु॑षि॒ मानो॒ गोषु॒ मानो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर् ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ इति जलेन मर्दयित्वा अनामिक्या त्र्यक्षरीं विलिख्य त्र्यक्षर्या अभिमन्त्र्य भ्रूमध्ये भस्मना तिलकं कुर्यात् । शिरसि - त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्धनम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ इति त्र्यम्बकेन त्र्यक्षर्या च । ललाटे - त्र्यायु॒षं ज॒मद॑ग्नेः क॒श्यपस्य॑ त्र्यायु॒'षं यद्दे॒वानां त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम् । इति कण्ठे -ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय । क्षोभिणि क्षोभय । ऐं क्लीं सौः वैखरीं वर्धय वर्धय । इति हृदये -ओं नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहार - कारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं र र र र र र र ज्वालामालिनि हुं फट् स्वाहा इति नाभौ -ओं ह्रीं वह्निवासिन्यै नमः इति बाह्ये सर्वाङ्गेषु । - उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ इति च भस्म धारयेत् । वैदिकं सन्ध्यावन्दनं आचरेत् । प्रोक्षणादि -आदित्यादि तर्पणान्तं वन्दनमन्त्रजपं कुर्यात् । ---- वन्दनक्रमः शुक्लाम्बरधरं इत्यादि शान्तये । प्राणानायम्य । ममोपात्त इत्यादि प्रीत्यर्थं वन्दनमन्त्रजपं करिष्ये । (अप उपस्पृश्य) अस्य श्रीवन्दनमहामन्त्रस्य सान्दीपनिः ऋषिः । अनुष्टुप् छन्दः । श्रीसन्ध्यास्वरूपिणी बाला देवता । अं ऐं बीजं । उं क्लीं शक्तिः । मं सौः कीलकम् । श्रीसन्ध्यास्वरूपिणीबालप्रीत्यर्थे जपे विनियोगः । अङ्गन्यासः - अं ऐं अङ्गुष्ठाभ्यां नमः । उं क्लीं तर्जनीभ्यां नमः । मं सौः मध्यमाभ्यां नमः । मं सौः अनामिकाभ्यां नमः । उं क्लीं कनिष्ठिकाभ्यां नमः । अं ऐं करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः -अं ऐं हृदयाय नमः । उं क्लीं शिरसे स्वाहा । मं सौः शिखायै वषट् । मं सौः कवचाय हुम् । उं क्लीं नेत्रत्रयाय वौषट् । मं सौः कवचाय हुम् । उं क्लीं नेत्रत्रयाय वौषट् । अं ऐं अस्त्राय फट् । (करन्यासाङ्गन्यासौ - अं ऐं । उं क्लीं । मं सौः । अं ऐं । उं क्लीं । मं सौः इत्यपि कुर्वन्ति ।) भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं- हृदयकुहरदेशे भाति सच्चित्स्वरूपं सकलभुवनबीजं कारणं ब्रह्मतत्त्वम् । प्रणवमयमचिन्त्यं प्राणिनां प्राणसंस्थं प्रकृतिविलयरूपं देवदेवं नमामि ॥ अं ऐं उं क्लीं सौः इति जयेत् (१०८-१०८) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) । ध्यानं पूर्ववत् । पुनर्ध्यानं या सन्ध्या सा जगद्रूपा मायातीता सुनिश्चला । ईश्वरी केवला शक्तिः तत्त्वत्रयसमन्विता ॥ अहो महाब्रह्मरूपे दिव्ये सन्ध्ये सरस्वति । अजरे अमरे देवि ब्रह्मयोने नमोऽस्तुते । लमित्यादि पञ्चपूजा - लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं अग्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृतोपहारं निवेदयामि । ज्योतिर्मण्डल -नाराच - लिङ्ग -पद्म -योनि -धेनु -चिन्मुद्राभिः योनिमुद्रया वा सन्ध्यां प्रणमेत् ॥ ततो गायत्रीजपः । उपस्थानमित्यादि कुर्यात् । ---- महद्वन्दनं आब्रह्मलोकादाशेषादालोकालोकपर्वतात् । ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥ ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंशर्षिभ्यो नमो गुरुभ्यः । ब्रह्माद्यशेषगुरुपारम्पर्यक्रमेण स्वगुरुपादाम्बुजं यावत्प्रणमामि । गुं गुरुभ्यो नमः (दक्षबाहौ) । गं गणपतये नमः (वामबाहौ) । दुं दुर्गायै नमः । क्षं क्षेत्रपालकाय नमः । अं अभयङ्कराय नमः । वां वास्तुपुरुषाय नमः । यं योगिनीभ्यो नमः ह्रीं श्रीं फट् फं फां फीं भैरवेभ्यो नमः । सं सरस्वत्यै नमः । पं परमात्मने नमः । शिवाय गुरवे नमः । कुलदेवताभ्यो नमः । ग्रामनगरदेवताभ्यो नमः । पूजागृहद्वारदेवताभ्यो नमः । इति अञ्जलिं कुर्यात् । ---- देहरक्षा ॐ नमो भगवति तिरस्करिणि महामाये महानिद्रे सकलपशुजनमहश्चक्षुः -श्रोत्रतिरस्करणं कुरु कुरु स्वाहा । भूर्भुवस्सुवरोम् । ॐ ऐं ह्रः अस्त्राय फट् -(अङ्गुष्ठादि कनिष्ठिकान्तं करतलयोः कूर्परयोः देहे च व्यापकं कुर्यात्) पूजानुज्ञा श्रीगुरो दक्षिणामूर्ते भक्तानुग्रहकारक । अनुज्ञां देहि भगवन् श्रीबालायजनाय मे ॥ अतिक्रूर महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ सिन्दूरारुणगात्रं च शर्वमन्युविनिर्मितम् । मकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥ भूतोत्सारणं अपसर्पन्तु ये भूताः आकाशे भुवि संस्थिताः । पूजायां विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ (इति पुष्पं विकीर्य) अपक्रामत भूताद्याः सर्वे ये भूमिधारकाः । युष्माकमविरोधेन ब्रह्मकर्म समारभे ॥ (वामपादेन भूमौ घातत्रयं कुर्यात्) ---- भूमिवन्दनं-आसनशुद्धिः (आसनमन्त्रस्य । मेरुपृष्ठ ऋषिः । अतलं छन्दः । कूर्मे नारायणो देवता । आसने विनियोगः । योगासनाय नमः । अनन्तासनाय नमः । कूर्मासनाय नमः । नागासनाय नमः । मत्स्यासनाय नमः । पद्मासनाय नमः । सुखासनाय नमः ।) समुद्रवसने देवि पर्वतस्तनमण्डिते । विष्णुशक्ते नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ अशेषजगदाधारं अनन्तं कूर्मरूपिणम् । आसनस्य प्रसिद्ध्यर्थं आत्मानन्दं भजे हरिम् ॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥ ॐ ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नमः । इति पुष्पाक्षतैः आसनमभ्यर्च्य उपविशेत् । आचामेत् । नामाचमनं -अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । इति त्रिरपः पीत्वा । केशव । नारायण (कपोलौ दक्षिणाङ्गुष्ठेन स्पृशन्) माधव । गोविन्द । (चक्षुषी अङ्गुष्ठानामिकाभ्यां) विष्णो । मधुसूदन । (नासिके अङ्गुष्ठतर्जनीभ्यां) त्रिविक्रम । वामन (कर्णौ अङ्गुष्ठकनिष्ठिकाभ्यां) श्रीधर । हृषीकेश (अंसौ अङ्गुष्ठमध्यमाभ्यां) पद्मनाभ (नाभिं सर्वाभिरङ्गुलीभिः) दामोदर (शिरः सर्वाभिः स्पृशेत् ।) (अप उपस्पृश्य) तत्त्वाचमनं -ओं ऐं ह्रीं श्रीं ऐं आत्मतत्त्वं शोधयामि स्वाहा । क्लीं विद्यातत्त्वं शोधयामि स्वाहा । सौः शिवतत्त्वं शोधयामि स्वाहा । ऐं क्लीं सौः सर्वतत्त्वं शोधयामि स्वाहा । इत्याचामेत् । ॐ ऐं ह्रीं श्रीं ---- श्रीगुरुध्यानं गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ मद्ब्रह्मरन्ध्रगाम्भोजकर्णिकापीठवासिनम् । शिवरूपं मदीयाघगणनाशनत्परम् ॥ दयार्द्रदृष्टिं स्मेरास्यं वराभयकराम्बुजम् । देवीसपर्यारसिकं सद्गुरुं प्रणमाम्यहम् ॥ तव तत्त्वं न जानामि तदमेयं धिया मम । अनीदृशस्त्वं प्रथितस्तादृशे ते गुरो नमः ॥ दयमादीर्घनयना देशिकताऽभीतिभव्यदक्षकरा । वामकरनिहितदण्डा भाति पुरः सा गुरोर्मूर्तिः ॥ मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचायेन्द्रं करकलितचिन्मुद्रमानन्दमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् । तं तोटकं वार्तिककारमन्यानस्मद्गुरून्सन्ततमानतोऽस्मि ॥ सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान्द्व्यष्टचतुष्कषष्टि नवकं वीरावलीपञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् । कुण्डलीकनककाण्डशोभितं द्वादशान्त सरसीरुहं भजे ॥ एकोनविंशति दलावरणान्तरालकोणत्रयान्तरुदितारुणबिन्दुपीठे । श्रीद्वादशान्तकमले शिववामभागसंस्थदेव्यङ्घ्रिपद्ममरुणं शरणं प्रपद्ये ॥ (मृगीमुद्रया शिरसि प्रणमेत् ।) ---- श्रीगुरुपादुकावन्दनक्रमः (१) लघुतमः । ॐ ऐं ह्रीं श्रीं हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । ४. सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । ४. हंसः शिवः सोऽहं हंसः स्वात्मानन्दपञ्जरविलीनतेजसे श्री परमेष्ठिगुरवे नमः । ४. हंसः सोऽहं नित्यशुद्धबुद्धमुक्तब्रह्मतेजसे श्रीपरापरगुरवे नमः ।) (२) लघुतुरः -ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहं ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः । (ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः - ७) ७. सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः । ७. हंसः शिवः सोऽहं हंसः ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः शिवः सोऽहं हंसः स्वात्मरामपञ्जर विलीनतेजसे श्रीपरमेष्ठिगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः । ७. हंसः सोऽहं ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः सोऽहं नित्यशुद्धबुद्धमुक्तब्रह्मतेजसे परापरगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः ।) (३) लघुः ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौम् । हंसः शिवः सोऽहं ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । ॐ नमः ह्रीं ॐ । ..... नाथ श्रीगुरु श्रीपादुकां पूजयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौः । सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं ह्सौः । सोऽहं हंसः शिवः । स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । ॐ नमः ह्रीं ॐ । ..... नाथ श्रीपरमगुरु श्री पादुकां पूजयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लिं सौः ऐं ग्लौं । हं सः शिवः सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं ह्सौः हंसः शिवः सोऽहं हंसः स्वात्मानन्दपञ्जरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः । ॐ नमः ह्रीं ॐ । .. नाथश्रीपरमेष्ठिगुरु श्रीपादुकां पूजयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौः । हंसः सोऽहं हंसः । ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः । हंसः सोऽहं हंसः । नित्यमुक्तशुद्ध- बुद्धब्रह्मतेजसे परापरगुरवे नमः । ॐ नमः ह्रीं ॐ । ..... नाथ श्रीपरापरगुरु श्रीपादुकां पूजयामि नमः । (जपमात्रे ह् स् ख् फ्रें हसक्षमलवरयूं सहक्षमलवरयीं हसौः शौः इति । पूजाङ्गत्वे पूर्वोक्तविधानेन) ---- श्रीगुर्वादिस्वरूपध्यानम् (लघु) -प्रज्ञानं ब्रह्मेति तत्पदलक्षणविचारश्रवणे योजयन् । स्वरूपनिरूपणहेतुः श्रीगुरुः पातु । -तत्त्वमसीति असिपदाथमनने योजयन् स्वच्छप्रकाशविमर्शहेतुः श्रीपरमगुरुः पातु । -अहं ब्रह्मास्मीति अहम्पदार्थनिदिध्यासने योजयन् स्वात्मानन्दपञ्जर विलीनतेजाः श्री परमेष्ठिगुरुः पातु । -अयमात्मा ब्रह्मेति साक्षात्करणे योजयन् नित्यमुक्तशुद्धबद्ध ब्रह्मतेजाः श्रीपरापरगुरुः पातु । -क्रमेण अहन्तेदन्ताह्रास द्वैतीभावल्पीभवनपूर्वकचिद्विमर्शे अहमोऽदर्शनं अद्वैतभानं चानुभावयन् श्रीगुरुरात्मा पातु । ---- श्रीगुर्वादिस्वरूपध्यानम् (परमम्) -प्रज्ञानं ब्रह्मेति ऋग्वेदीयलक्षणमंहावाक्योपदेशक - जाघ्रदवस्थासाक्षिभूत - मौनसिद्धिद - वैखरीस्थानाधिष्ठातृ - तमोगुणक - क्रियाशक्ति - स्थूलदेह - शक्तिकूट - मानवगुर्वोघ - हंसगुरुस्वरूप - स्वरूपनिरूपणहेतु श्रीगुरवे नमः । ..... नाथ श्रीगुरुपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ । -तत्त्वमसीति सामवेदीयोपदेशमहावाक्योपदेशक - स्वप्नावस्थासाक्षिभूत - ध्यानसिद्धिद - मध्यमास्थानाधिष्ठातृ - रजोगुण - ज्ञानशक्ति - सूक्ष्मदेह - कामकूट - सिद्धगुर्वोघ - महाहंसगुरुरूप - स्वच्छप्रकाशविमर्शहेतु -श्रीपरमगुरवे नमः । ..... नाथ श्रीपरमगुरुश्री पादुकां पूजयामि नमः । ॐ अहं ब्रह्मास्मीति यजुर्वेदीयानुभव महावाक्योपदेशकसुषुप्त्यवस्थासाक्षिभूत - योगसिद्धिद - पश्यन्तीस्थानाधिष्ठातृ - सत्त्वगुण - इच्छाशक्ति - कारणदेह वाग्भावकूट - दिव्यगुर्वोघ -परमहंसस्वरूप - स्वात्मारामपञ्जरविलीनतेजः - श्रीपरमेष्ठि गुरवे नमः । ..... - नाथ श्रीपरमेष्ठि गुरुश्रीपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ । -अयमात्मा ब्रह्मेति अथर्वणवेदीयसाक्षात्कार महावाक्योपदेशक - तुरीयावस्थासाक्षिभूत - समाधिसिद्धिद -परावाक् - स्थानाधिष्ठातृ - गुणत्रय - शक्तित्रय - देहत्रय - कूटत्रय ओघत्रयस्वरूप -परापरहंसगुरुस्वरूप - नित्यशुद्धबुद्धमुक्ततेजः - श्रीपरापरगुरवे नमः । ..... नाथ श्रीपरापरगुरुश्रीपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ । वागतीतं गुणातीतं शक्त्यतीतं देहातीतं कूटातीतं ओघातीतं ब्रह्म गुर्वभिन्नं द्वादशान्तात् श्रीगुरुपादुकयोः अवतीर्णं श्रीगुरुमण्डलं भावये । (तदनु सुमुख - सुवृत्त - चतुरश्र - मुद्गर योन्याख्याभिः मुद्राभिः योनिमुद्रया वा श्रीगुरुं प्रणमेत् ।) ---- सङ्कल्पः शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ प्राणायामः (सप्रणवव्याहृत्या सब्रह्मशिरस्कया गायत्र्या । मूलमन्त्रेण वा) । (देशकालौ सङ्कीर्त्य) ममोपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सपरिवार बालाम्बाप्रसाद सिद्ध्यर्थं बालाम्बापूजां करिष्ये । (आत्मानं अलङ्कृत्य हृदि देवीं भावयेत् ।) घण्टा - दीपपूजा आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥ (घण्टां नादयति) दीपदेवि महादेवि शुभं भवतु मे सदा । यावत्पूजा समाप्ता स्यात्तावत्प्रज्वल सुस्थिता ॥ (दीपं पूजयति) कारणकलशस्थापना (विन्दु त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं विधाय । बिन्दौ ईं इति विलिख्य ऐं क्लीं सौः इति सम्पूज्य । त्रिकोणे ऐं नमः । क्लीं नमः । सौः नमः इति सम्पूज्य षट्कोणे मूलेन सम्पूज्य वृत्ते सर्गरत्नाय नमः । गगनरत्नाय नमः । मध्यरत्नाय नमः । पातालरत्नाय नमः । नागरत्नाय नमः । इति सम्पूज्य चतुरश्रे कामगिरिपीठाय नमः । पूर्णगिरिपीठाय नमः । जालन्धरगिरिपीठाय नमः । महोड्याणगिरिपीठाय नमः । इति सम्पूज्य । मूलेन समस्तमण्डलं पूजयित्वा । श्रीपरदेवतायाः कारणपात्राधारं प्रतिष्ठापयामि नमः इति मण्डलोपरि प्रतिष्ठाप्य । रं अग्रये नमः । धूम्रोष्मा - ज्वलिनी - ज्वालिनी - विस्फुलिङ्गिनी -सुश्री सुरूपा - कपिला - हव्यवाहिनी - कव्यवाहिनी कलाभ्यो नमः । रां रीं रूं रैं रौं रः रमलवरयुं अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्वे॑दसम् । अ॒स्य य॒ज्ञस्य सु॒क्रतु᳚म् । रं धर्मप्रददशकलात्मने वह्निमण्डलाय नमः । (मूलेन क्षालितं पात्रं) श्रीपरदेवतायाः कारणकलशपात्रं प्रतिष्ठापयामि नमः इति स्थापयित्वा । पूर्वोक्तं मण्डलं विभाव्य पूर्ववत्सम्पूज्य सूर्यकला आवाहयामि इत्यावाह्य हं सूर्याय नमः । हंसः सोऽहम् । तपिनी -तापिनी - धूम्रा - मरीची - ज्वलिनी - रुचि - सुषुम्ना - भोगदा - विश्वा - बोधिनी - धारिणी - क्षमाकलाभ्यो नमः । हां हीं हूं हैं हौं हः हमलवरयूम् । आस॒त्ये॒ रजसा॒वर्तमानो नि॒शयन्न॒मृतं॒ मर्त्यं॑ च । हि॒रण्यये॑न सवि॒ता रथे॒ना दे॒वो याति॒ भुवना वि॑पश्यन्॑ । हं वसुप्रददशकलात्मने सूर्यमण्डलाय नमः । इति पात्रं पूजयित्वा । तस्मिन्गन्धोदकमापूर्य पूर्वोक्तं मण्डलं विभाव्य पूजयित्वा तस्मिन्गन्धोदकमापूर्य पूर्वोक्तं मण्डलं विभाव्य पूजयित्वा सं सोमाय नमः । हं सः सोऽहम् । अमृता - मानदा - पूषा - तुष्टि पुष्टि - रति - धृति - शशिनी - प्रिया - कान्ति - ज्योत्स्ना - श्री - प्रीत्यङ्गदा - पूर्णा - पूर्णामृता कलाभ्यो नमः । विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा रू॒पाणि पिंशतु । असिञ्चतु प्र॒जापतिर्धा॒ता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अ॒श्विनौ॑ दे॒वावधत्तां॒ पुष्करस्रजा । सं कामप्रदषोडशकलात्मने चन्द्रमण्डलाय नमः । इति गन्धोदकमापूर्य मूलेनाष्टवारमभिमन्त्र्य वं इति धेनुमुद्रां प्रदर्श्य गन्धपुष्पाक्षतैरभ्यर्च्य योनिमुद्रया प्रणमेत् ॥) (कलशं गन्धपुष्पैरभ्यर्च्य । त्रिकोणवृत्तचतुरश्रात्ममण्डले निक्षिप्य) ---- सामान्यकलशस्थापना - लघुः कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः । आयान्तु देवपूजार्थे दुरितक्षयकारकाः ॥ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ सर्वे समुद्राः सरितस्तीर्थानि च नदा ह्रदाः । आयान्तु देवपूजार्थे दुरितक्षयकारकाः ॥ आपो॒ वा इ॒दँ सर्वं विश्वा भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑स्स॒म्राडापो॑ वि॒राडापस्स्व॒राडापश्छन्दाँस्यापो ज्योतीँ॒ष्यापो यजूँ॒ष्यापस्स॒त्यमापस्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ । ॐ वं (१६) ऐं क्लीं सौः (१६) (इत्यभिमन्त्र्य धेनुमुद्रया प्रणमेत्) । ---- सामान्यार्घ्यस्थापना कलशस्य दक्षिणे बिन्दुत्रिकोणषट्कोणवृत्तातुरश्रात्मकमण्डलं विलिख्य मूलेन त्रिः प्रोक्षयेत् । ॐ ऐं ह्रीं श्रीं अं अग्निमण्डलाय धर्मप्रददशकलात्मने सामान्यार्ध्य- पात्राधाराय नमः । (अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।) (तदुपरि पूजापात्रं निधाय । ॐ ऐं ह्रीं श्रीं उं सूर्यमण्डलाय अर्थप्रदद्वादशकलात्मने पात्राय नमः (आ सत्येन रजसा विपश्यन् ।) (कलशोदकेन पूरयित्वा) ॐ ऐं ह्रीं श्रीं मं सोममण्डलाय कामप्रदषोडशकलात्मने अमृताय नमः । (आप्यायस्य समेतु ते विश्वतः सोमवृष्णियम् । भवावाजस्य सङ्गथे) (मूलेन षोडशवारं अभिमन्त्र्य धेनुयोनिमुद्रे प्रदर्श्य । तेनोदकेन शङ्खमापूर्य) ---- शङ्खपूजा शङ्खं चन्द्रार्कदैवत्यं कुक्षौ वरुणदैवतम् । पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥ त्रैलोक्ये यानि तीर्थानि महादेवस्य चाज्ञया । आयन्ति तानि शङ्खे तु तस्माच्छङ्खं प्रपूजये ॥ अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒प्रचे॑तसो॒ऽयं पाञ्चजन्यं ब॒हवः॑ समि॒न्धते᳚ । विश्व॑स्यां॒ विशि प्रविविशि॒वाँ समीमहे॒ स नो॑ मुञ्च॒त्वंहसः ॥ (शङ्खमुद्रां प्रदर्श्य शङ्खजलं किञ्चित्पूजापात्रोदके निक्षिप्य पूजाद्रव्याण्यात्मानं च प्रोक्षयेत् । पुनः शङ्खमापूर्य) त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥ विशेषार्घ्यस्थापनं (आवरणपूजातर्पणकरणाय एतदावश्यकम् । अन्यथा न ।) (शङ्खस्य दक्षिणतः त्रिकोणवृत्तचतुरश्रात्मके मण्डले) सामान्यार्घ्यजलेन पात्राधारं प्रोक्ष्य । पूर्वोक्तमण्डलं विभाव्य श्रीपरदेवतायाः विशेषार्घ्यपात्राधारमण्डलाय नमः इति पूजयित्वा ॐ अं सूर्यमण्डलाय धर्मप्रददशकलात्मने विशेषार्ध्यपात्राधाराय नमः । ॐ उं सूर्यमण्डलाय अर्थप्रदवादशकलात्मने विशेषाध्यपात्राय नमः । ॐ मं सोममण्डलाय कामप्रदषोडशकलात्मने विशेषार्ध्यामृताय नमः ॥ तत्त्वमुद्रया गृहीतपुष्पोपरि अं आं - ळं क्षं । क्षं ळं -आं अं इति मातृकया अर्पितं क्षीरं समधु आपूर्य ॐ वं जुं सः (८) इत्यभिमन्त्र्य (७) चिन्मयीं आनन्दलक्षणां अमृतकलशहस्तां सुधादेवीं पूजयामि । (४) ऐं ब्लुं झ्रौं जुं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा । नमः ॥ (मूलेन आबिमन्त्र्य योनिमुद्रया नत्वा तद्बिन्दुभिः कलशं पूजापात्रं पूजाद्रव्याणि आत्मानं च प्रोक्षयेत् ।) ---- पुण्याद्यष्टकहोमः मूलाधारे वालाग्रमात्रं अनादिवासनारूपेन्धनप्रज्वलितं कुण्डलिन्यधिष्ठितं चिदग्निमण्डलं ध्यायामि । अन्तर्निरन्तरमनिन्धनमेधमाने । मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमारीचिविकासभूम्नि विश्वं जुहोमि वसुधादि शिवावसानम् ॥ ॐ ऐं ह्रीं श्रीं चिदग्निमण्डले पुण्यं पापं कृत्यं अकृत्यं सङ्कल्पं विकल्पं धर्मं अधर्मं च जुहोमि । इतः पुर्वं प्राणबुद्धिदेहधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा स्मृतं । वाचोक्तं । हस्ताभ्यामुदरेण शिश्ना कृतं सर्वं ब्रह्मार्पणं भवतु । आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥ (इत्यात्मनः कुण्डलिनीरूपे चिदग्रौ होमबुद्ध्या जुहुयात् ।) ---- भूतशुद्धिः (भूतौघं प्रविलाप्य तं परशिवे जीवेन संयोजये दग्ध्वा कारणवर्ति पापपुरुषं शैवीं तनुं कल्पये । मूलाधारगया तया परशिवादाकृष्य संयोजये प्राणैर्जीवमलङ्कृतं जपविधौ सम्पूजयेऽहं सदा ।) ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनि । ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय । महाक्षोभं कुरु । क्लीं सौः मोक्षं कुरु कुरु ह्सौः शौः नमः । लं (१०) वं (२०) रं (३०) यं (४०) हं (५०) इति प्राणानायम्य मूलश‍ृङ्गाटकात् कुण्डलिनीं उत्थापयामि । ॐ हंसः सुषुम्नापथेन जीवशिवं परमशिवेन योजयामि नमः । हंसः सोऽहं हंसः । लं पृथिवीमप्सु प्रविलापयामि । वं आपः अग्नौ प्रविलापयामि । रं अग्निं वायौ प्रविलापयामि । यं वायुं आकाशे प्रविलापयामि । हं आकाशं जीवे प्रविलापयामि । (इडया पूरकेण) यं (१६) पापपुरुषं शोषयामि । (पिङ्गलया पूरकेण) रं (१६) पापपुरुषं दहामि । (इडया पूरकेण) वं (१६) परमशिवामृतं वर्षयामि । (पिङ्गलया पूरकेण) लं (१६) शाम्भवं पुण्यपुरुषं उज्जीवयामि । जीवादाकाशं वायुमग्निं अपः पृथिवीं च पुण्यपुरुषेण योजयामि । तं मूलाधारे स्थापयामि । हंसः सोऽहं अवतर शिवपदात् जीव प्रविश मूलश‍ृङ्गाटकं । उल्लसोल्लस । ज्वल ज्वल प्रज्वल प्रज्वल । हंसः सोऽहं स्वाहा । (हृदि दक्षकरं निधाय) ऐं ह्रीं श्रीं आं सोऽहं (३) । आं ह्रीं क्रों (१६) इति प्राणप्रतिष्ठा । भूर्भुवस्सुवरों (दिग्बन्धः) देहो देवालयः प्रोक्तो जीवो देवः सनातनः । त्यजाम्यज्ञाननिर्माल्यं सोऽहं भावेन पूजये । आत्मने नमः । परमात्मने नमः । (आत्मानं अलङ्कृत्य) ---- पापनिवारकमन्त्रानुसन्धानं दे॒वकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । म॒नु॒ष्यकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । पि॒तृकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । आ॒त्मकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । अ॒न्यकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । अ॒स्मत्कृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । यद्दि॒वा च॒ नक्तं॒ चैनश्चकृ॒म तस्याव॒यजनमसि॒ स्वाहा᳚ । यत्स्व॒पन्तश्च॒ जाग्रत॒श्चैनश्चकृ॒म तस्याव॒यजनमसि॒ स्वाहा᳚ । यत्सु॒षु॑प्तश्च॒ जाग्रत॒श्चैनश्चकृ॒म तस्याव॒यजनमसि॒ स्वाहा᳚ । यद्वि॒द्वाꣳस॒श्चाविद्वाꣳस॒श्चैनश्चकृम तस्याव॒यजनमसि॒ स्वाहा᳚ । एनस एनसोऽवयजनमसि॒ स्वाहा᳚ । यद्वो॑ देवाश्चकृ॒म जि॒ह्वया गु॒रुमनसो वा॒ प्रयु॑ती देव॒ हेडनम् । अरावा॒ यो नो॑ अ॒भिदु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ निधेतन स्वाहा᳚ । कामोऽकार्षी᳚न्नमो॒ नमः । कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः॑ कार॒यिता नाहं॑ कार॒यिता एष ते काम कामाय स्वा॒हा ॥ मन्युर्कार्षी᳚न्नमो॒ नमः । मन्युर्कार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्यवे स्वा॒हा ॥ ---- here 1 विरजोविपाप्मत्वानुसन्धानं प्राणापान-व्यानोदान-समाना मे॑ शुद्ध्य॒न्तां॒ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास॒ꣳ स्वाहा᳚ । वाङ्मनश्चक्षुश्श्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिस्सङ्कल्पा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास॒ꣳ स्वाहा᳚ । त्वक्चर्म-माꣳस-रुधिर-मेदो-मज्जा-स्नायवोऽस्थीनि मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घःशिश्नोपस्थ पायवो मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासाꣳ स्वाहा᳚ । उत्तिष्ठ पुरुष हरितपिङ्गललोहिताक्षि देहि देहि दापयिता मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । पृथिव्यापस्तेजोवायुराकाशा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । शब्दस्पर्शरूपरसगन्धा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । आत्मा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । अन्तरात्मा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । अन्नमय-प्राणमय-मनोमय-विज्ञानमय-मानन्दमयमात्मा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । ---- देहे सर्वदेवतान्यासः - आत्मरक्षा प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु । हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु । जठरेऽग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयननोश्चन्द्रादित्यौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतोऽग्निर्ज्वालामालापरिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । मां रक्षन्तु ॥ अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्घृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि । वा॒युर्मे᳚ प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये । हृद॑यं मयि॑ । अ॒हम॒मृ॒ते᳚ । अ॒मृतं॒ ब्रह्म॑णि । सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः । चक्षुर्हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । दिशो॑ मे॒ श्रोत्रे᳚ श्रिताः । श्रोत्र॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । आपो॑ मे रेत॑सि श्रिताः । रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । पृ॒थि॒वी मे॒ शरी॑रे श्रिता । शरी॑र॒ꣳ॒ हृदये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे लोम॑सु श्रि॒ताः । लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । इन्द्रो॑ मे॒ बले᳚ श्रि॒तः । बल॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः । मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । ईशानो म मन्यौ श्रितः । मन्युर्हृद ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म आ॒त्मनि॑ श्रितः । आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒रागात् । पुनः प्रा॒णः पुन॒रायु॒रागात् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः । अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॑पाः ॥ ---- श्रीगणपतिध्यानं ॐ विनायकाय नमः (१६) । ॐ वक्रतुण्डाय नमः (१६) । ॐ हेरम्बाय नमः (१६) । ॐ गणपतये नमः (१६) । ॐ श्रीं विद्यागणेशाय नमः । (१६) सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ धूमकेतुर्गणाध्यक्षः भालचन्द्रो गजाननः । वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ श्रीगणेशाय नमः । (षोडशैतानि नामानि यः पठेत् श‍ृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥) गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः । अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः शिवः । काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ॥ (मोदकैरेभिरत्रैकविंशत्या नामाभिः पुमान् । यः स्तौति मद्गतमना मदाराधनतत्परः । स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥) नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलपदैकसिद्धये नमो नमः करिकलभाननाय ते ॥ परमा करुणामूर्तिः कलौ प्रत्यक्षदैवतम् । महागणपतिर्विघ्नान्हत्वापोह्य दुराशयान् ॥ प्रदाय सन्मतिं तस्मिन्दृढां भक्तिमचञ्चलाम् । दत्वा प्रीत्याऽनुगृह्णातु शरणं तं भजामहे ॥ ---- रक्षामन्त्रमननं १. ॐ वक्रतुण्डाय हुम् । (४) २. ॐ वक्रतुण्डाय हुं ॐ नमो हेरम्ब मदमोदित मम सङ्कष्टं निवारय निवारय हुं फट् स्वाहा (४) ३. ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा (४) ४. ॐ श्रीं ह्रीं क्लीं ग्लौं गं ऐं कएईलह्रीं तत्सवितुर्वरेण्यं । गणपतये क्लीं हसकहलह्रीं भर्गौदेवस्य धीमहि । वरवरद सौः सकलह्रीं श्रीं धियो यो नः प्रचोदयात् सर्वजनं मे वशमानय स्वाहा । (४.) ५. ॐ ह्रीं नमः शिवाय । (३) ६. ॐ ऐं ह्रीं श्रीं ॐ ऐं ह्रीं श्रीं । ऐं क्लीं सौः ॐ नमो भगवति राजमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि । सर्वलोकवशङ्करि । त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं श्रीं ह्रीं ऐम् ॥ (३) ७. ॐ ऐं ह्रीं श्रीं । ऐं ग्लौं ऐं ॐ नमो भगवति वार्तालिवार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक् चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लैं ऐं ठः ठः ठः ठः हुं फट् स्वाहा ॐ ॥ (३) ८. ॐ ऐं श्रीं ह्रीं क्लीं चामुण्डायै विच्चे । (३) ९. ॐ ऐं क्लीं सौः सौः क्लीं ऐं (३) १०. ॐ कारिईलह्रीं हसकहलह्रीं सकलह्रीं श्रीं (३) ११. ॐ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं । क ऐ ई ल ह्रीं हसकहलह्रीं सकलह्रीं सौः ऐं क्लीं ह्रीं श्री । (३) १२. ॐ कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् (४) १३. ॐ नमः कामदेवाय सर्वजनप्रियाय सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्वजनस्य हृदयं मम वशं कुरु कुरु स्वाहा । (४) १४. ॐ द्रां द्राविण्यै मकरध्वजाय द्राविणीबाणाय पद्मोत्पलं हं क्लीं हुं फट् स्वाहा । (४) १५. ॐ द्रीं क्षोभिण्यै मकरध्वजाय क्षोभिणीबाणाय बिल्बोत्पलं हं क्लीं हुं फट् स्वाहा । (४) १६. ॐ क्लीं वशीकरण्यै मकरध्वजाय वशीकरणीबाणाय जम्बूत्पलं हं क्लिं हुं फट् स्वाहा । (४) १७. ॐ ब्लूं आकर्षिण्यै मकरध्वजाय आकर्षिणीबाणाय रक्तोत्पलं हं क्लिं हुं फट् स्वाहा । (४) १८. ॐ सः सम्मोहिन्यै मकरध्वजाय सम्मोहिनीबाणाय नीलोत्पलं हं क्लिं हुं फट् स्वाहा । ४॥ ---- मातृकान्यासः ॐ अं (शिरसि) आं (मुखे) इं ईं (नेत्रयोः) उं ऊं (कर्णयोः) ऋंॠं (नासयोः) लृं लॄं (कपोलयोः) एं ऐं (ओष्ठयोः) ॐ औं (दन्दपङ्क्तौ) अं (जिह्वाग्रे) अः (कण्ठे) कं खं गं घं ङं (दक्षबाहौ) चं छं जं झं ञं (वामबाहौ) टं ठं डं ढं णं (दक्षपादे) तं थं दं धं नं (वामपादे) पं -फं(पाश्वयोः) बं (पृष्ठे) भं (नाभौ) मं (जठरे) यं (हृदये) रं (दक्षकक्षे) लं (गलपृष्ठे) वं (वामकक्षे) शं (हृदयात् दक्षकराङ्गुल्यन्तं) षं (हृदयात् वामकराङ्गुल्यन्तं) सं (हृदयात् दक्षपादाङ्गुल्यन्तं) हं (हृदयात् वामपादाङ्गुल्यन्तं) ळं (कटीतः पादाङ्गुल्यन्तं) क्षं (कटीतः ब्रह्मरन्ध्रान्तं) ---- ध्यानं ॐ गुरुं ध्यायामि । ॐ परमगुरुं ध्यायामि । ॐ परमेष्ठिगुरुं ध्यायामि । ॐ परापरगुरुं ध्यायामि । ॐ शिवगुरुं ध्यायामि । ॐ मेधादक्षिणामूर्तिगुरुं ध्यायामि । समस्तगुरुमण्डलरूपिणीं बालां ध्यायामि । महागणपतिं ध्यायामि । कामेश्वरं ध्यायामि । कामेश्वरीं ध्यायामि । कामेश्वर्यङ्कमध्यगां सपरिवारां बालां ध्यायामि । लक्ष्मीनारायणौ ध्यायामि । छायासुवर्चलासमेत श्रीसूर्यं ध्यायामि । ---- मन्त्रजपः वक्रतुण्डगणपतिमन्त्रजपः अस्य श्रीवक्रतुण्डमहागणपतिमहामन्त्रस्य भार्गवः ऋषिः । अनुष्टुप्छन्दः । श्रीवक्रगुण्डमहागणपतिर्देवता । ॐ वं बीजम् । यं शक्तिः । हुं कीलकम् । श्रीवक्रतुण्डमहागणपतिप्रीत्यर्थे जपे विनियोगः । (पूजायां विनियोगः) १ सर्वत्र ब्रह्मप्रणवयोजनं कुर्यात् । उपनीतस्य वेदाध्ययनाधिकारवत एव ब्रह्मप्रणवेऽधिकारः । अन्ये तत्स्थाने आं इति योजयेयुः इति शिष्टाः । करन्यासः - वं अङ्गुष्ठाभ्यां नमः । क्रं तर्जनीभ्यां नमः । तुं मध्यमाभ्यां नमः । ण्डां अनामिकाभ्यां नमः । यं कनिष्ठिकाभ्यां नमः । हुं करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - वं हृदयाय नमः । क्रं शिरसे स्वाहा । तुं शिखायै वषट् । ण्डां कवचाय हुम् । यं नेत्रत्रयाय वौषट् । हुं अस्त्राय फट् । भूर्भुवस्सुवरो इति दिग्बन्धः- ---- ध्यानं- उद्यद्दिनेश्वरुरुचिं निजपद्महस्तैः पाशाङ्कुशाभयवरान् दधतं गजास्यम् । रक्ताम्बरं सकलदुःखहरं गणेशं वन्दे प्रसन्नमखिलाभरणाभिरामम् ॥ लैमित्यादिपञ्चपूजा - लं पृथिव्यात्मकं गन्धं समर्पयामि । हं आकाशात्मकं पुष्पं समर्पयामि । यं वाय्वात्मकं धूपमाघ्रापयामि । रं अग्न्यात्मकं दीपं समर्पयामि । वं अमृतात्मकं अमृतोपहारं निवेदयामि । मूलमन्त्रः -ओं वक्रतुण्डाय हुम् । (१०८ -३३६ -१००८ वारं जपेत्) हृदयादिन्यासः । भूर्भुवस्सुवरों (इति दिग्विमोकः) ध्यानम् । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥ इति श्रीमहागणपतेर्वामहस्ते जपं समर्पयेत् । ---- महागणपतिमन्त्रजपः अस्य श्रीमहागणपतिमहामन्त्रस्य गणक ऋषिः । निचृद्गायत्री छन्दः । महागणपतिर्देवता । ॐ गं बीजं । स्वाहा शक्तिः । ग्लौं कीलकं । महागणपतिप्रीत्यर्थे जपे विनियोगः । करन्यासः - ॐ गां अङ्गुष्ठाभ्यां नमः । श्रीं र्गीं तर्जनीभ्यां नमः । ह्रीं गूं मध्यमाभ्यां नमः । क्लीं गैं अनामिकाभ्यां नमः । ग्लौं गौं कनिष्ठिकाभ्यां नमः । गं गः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ॐ गां हृदयाय नमः । श्रीं र्गीं शिरसे स्वाहा । ह्रीं गूं शिखायै वषट् । क्लीं गैं कवचाय हुम् । ग्लौं गौं नेत्रत्रयाय वौषट् । गं गः अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं - बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल - व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । पायाद्वल्लभया सपद्मकरयाऽऽश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ लमित्यादि पञ्चपूजा - लं पृथिव्यात्मकं गन्धं समर्पयामि । हं आकाशात्मकं पुष्पं समर्पयामि । यं वाय्वात्मकं धूपमाघ्रापयामि । रं अग्न्यात्मकं दीपं दर्शयामि । वं अमृतात्मकं अमृतोपहारं निवेदयामि । मूलमन्त्रः -ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा । (१०८ -३३६ वारं जपः) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः ।) ध्यानम् । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यतोप्ता त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥ इति देवस्य वामहस्ते जपं समर्पयेत् । मातङ्गीध्यानं ॐ ऐं ह्रीं श्रीं ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति राजमातङ्गीश्वरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं । श्रीं ह्रीं ऐं ॐ नमः ह्रीं ॐ (९) ---- श्रीश्रीविद्यागणेशमन्त्रजपः अस्य श्रीश्रीविद्यागणेशमहामन्त्रस्य । गणकः ऋषिः । देवीगायत्रीनिचृद्गायत्री- त्रिष्टुभनुष्टुब्जगत्यश्छन्दांसि । श्रीविद्यागणेशो देवता । ह्रीं बीजं । श्रीं शक्तिः । क्लिं कीलकम् । श्रीविद्यागणेशप्रीत्यर्थे जपे विनियोगः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं सर्वज्ञायै ह्रां गां ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः । ७ नित्यतृप्तायै ह्रीं गीं विष्णवात्मने तर्जनीभ्यां नमः । ७ अनादिबोधायै ह्रूं गूं रुद्रात्मने मध्यमाभ्यां नमः । ७ सर्वस्वतन्त्रायै ह्रैं गैं ईश्वरात्मने अनामिकाभ्यां नमः । ७ नित्यमलुप्तशक्तये ह्रैं गैं सदाशिवात्मने कनिष्ठिकाभ्यां नमः । ७ अनन्तायै ह्रः गः सर्वात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । (७ -ओं ह्रीं श्रीं ऐं क्लीं सौः ह्रीं इत्यस्य सङ्केतः ।) भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं - द्वाभ्यां विभ्राजमानं धृतकलशमहाश‍ृङ्खलाभ्यां भुजाभ्यां बीजापूरादि बिभ्रद्दशभुजमरुणं नागभूषं त्रिणेत्रम् । सन्ध्या सिन्दूरवर्णं स्तनभरनमितं तुन्दिलं चन्द्रचूडं कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधो नौमि विद्यागणेशम् ॥ लमित्यादि पञ्चपूजा । मूलमन्त्रः -ओं श्रीं ह्रीं क्लीं ग्लौं गं ऐं कएईलह्रीं तत्सवितुर्वरेण्यं गणपतये क्लीं हसकहलह्रीं भर्गो देवस्य धीमहि वरवरद सौः सकलह्रीं श्रीं धियो यो नः प्रचोदयात् । सर्वजनं मे वशमानय स्वाहा । (१०८-३३६ वारं) हृदयादिन्यासः । भूर्भुवस्सुवरोँ (दिग्विमोकः) । ध्यानं । लमित्याद् पञ्चपूजा । जपसमर्पणम् । प्रार्थना - ॐ वक्रतुण्ड महाकाय श्रिया वल्लभया युत । रक्षास्मानस्मदीयांश्च श्रिया भूत्या समेधय ॥ (९) ---- श्रीमहागणपतिध्यानं ॐ तीव्रा - ज्वालिनी - नन्दा - भोगदा - कामदायिनी - उग्रा - तेजोवती - सत्या - विघ्ननाशिनीरूपा सर्वशक्तिकमलाध्यासिन् । धर्माधर्मज्ञानाज्ञान - वैराग्यावैराग्य -ऐश्वर्यानैश्वर्य - पीठाञ्चल - मध्यगत । विनायक - कवीश्वर - विरूपाक्ष - विश्वसिद्ध - ब्रह्मण्य - निधीशाख्य दिव्यौघगुरुस्तुत । गजाधिराज - वरप्रदाख्य सिद्धौघगुरुनुत । विजय - दुर्जय - जय - दुःखारि - सुखावह - परमात्म - सर्वभूतात्म - महानन्द - भालचन्द्र - सद्योजात - बुद्धशूराख्यमानवौघगुरुविनुत । श्रीगुरु - श्रीपरमगुरु - श्रीपरमेष्ठिगुरुवन्दित श्रीश्रीपतिगिरिजागिरिजापति - रतिरतिपति - महीमहीपतिपरिवृत महालक्ष्मीमहागणपतिरूप । ऋद्ध्यामोद - समृद्धिप्रमोद - कान्तिसुमुख - मदनावतीदुर्मुख - मदद्रवाऽविघ्न - द्राविणी - विघ्नकर्तृ - वसुधाराशङ्खनिधि - वसुमतीपद्मनिधिभिरावृत । हृदय - शिरः - शिखा - कवच - नेत्रत्रयास्त्रशक्तिसमन्वित । ब्राह्मी - माहेश्वरी - कौमारी - वैष्णवी - वाराही - माहेन्द्री - चामुण्डा - महालक्ष्मीसुसेवित सायुधेन्द्राग्नि - यमनिरृति - वरुणवायु - सोमेशानपरिवृत । दन्त - पाशाङ्कुश - विघ्नपरशु - लड्डुकबीजापूराख्यसप्तमुद्राराध्य । इक्षु - सक्तु - रम्भाफल - चिपिट - तिल - लाज - केल - मोदकाख्याष्टद्रव्यहविः प्रिय । सुमुख । एकदन्त । कपिल । गजकर्णक । लम्बोदर । विकट । विघ्नराज । विनायक । धूम्रकेतो । गणाध्यक्ष । भालचन्द्र । गजानन । वक्रतुण्डा । शूर्पकर्ण । हेरम्ब । स्कन्दपुर्वज । गणञ्जय । गणापते । हेरम्ब । धरणिधर । महागणपते । लक्षप्रद । क्षिप्रप्रसादन । अमोघसिद्धे । अमित । मन्त्र । चिन्तामणे । निधे । सुमङ्गल । बीज । आशापूरक । वरद । शिव । काश्यपनन्दन । वाचासिद्ध । ढुण्ढिविनायक । क्षिप्रक्षेमकर । क्षेमानन्द । क्षोणीसुरद्रुम । धर्मप्रद । अर्थद । कामदातः । सौभाग्यवर्धन । विद्याप्रद । विभावद । भुक्तिमुक्तिफलप्रद । आभिरूप्यकर । वीरश्रीप्रद । विजयप्रद । सर्ववश्यकर । गर्भदोषहन् । पुत्रपौत्रद । मेधाद । शोकहारिन् । दौर्भाग्यनाशन । प्रतिवादिमुखस्तम्भ । रुष्टचित्तप्रसादन । पराभिचारशमन दुःखभञ्जनकारक । ओङ्कारवाच्य । श्रीहृदय । हृल्लेखामन्त्रमध्यग । क्लीङ्कार । ग्लौम्बीज । गङ्गणेश्वर । गणक्रीड । नन्दिप्रिय । परमात्मन् । तत्त्वानां परमतत्त्व । एकदन्त । वरेण्य । रत्नगर्भ । वराहरदन । रसप्रिय । दन्तप्रभिन्नाभ्रमाल । सर्वज्ञ । वक्रतुण्ड । जगदीशनन्दन । मेघनाद । वनमालिन् । शतानन्द । मातुलिङ्गधर । नवाधारनिकेतन । यशस्कर । स्वाहाशक्ते । बीजापूरगदेक्षुकार्मुक - रुजाचक्राब्जपाशोत्पल व्रीह्यग्र -स्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुह । ज्वलद्भूषया सपद्मकरया वल्लभयाऽऽश्लिष्ट । विश्वोत्पत्ति - विपत्ति - संस्थिकर । विघ्नेश । इष्टार्थद । श्रीमहागणपते । स्वामिन् । जय विजयी भव । नमस्ते नमस्ते नमः । ---- शक्तिपञ्चाक्षरीमन्त्रजपः अस्य श्रीशक्तिपञ्चाक्षरीमहामन्त्रस्य । वामदेव ऋषिः । अनुष्टुप् छन्दः । साम्बपरमेश्वरो देवता । ह्रीं बीजं । नमः शक्तिः । शिवाय कीलकम् । साम्बपरमेश्वरप्रीत्यर्थे जपे विनियोगः । करन्यासः - ॐ ह्रां सर्वज्ञशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः । नं ह्रीं नित्यतृप्तशक्तिधाम्ने तर्जनीभ्यां नमः । मं ह्रूं अनादिबोधशक्तिधाम्ने मध्यमाभ्यां नमः । शिं ह्रैं सर्वस्वतन्त्रशक्तिधाम्ने अनामिकाभ्यां नमः । वां ह्रौं नित्यमलुप्तशक्तिधाम्ने कनिष्ठिकाभ्यां नमः । यं ह्रः अनन्तशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः - ॐ ह्रां सर्वज्ञशक्तिधाम्ने हृदयाय नमः । नं ह्रीं नित्यतृप्तशक्तिधाम्ने शिरसे स्वाहा । मं ह्रूं अनादिबोधशक्तिधाम्ने शिखायै वषट् । शिं ह्रैं सर्वस्वतन्त्रशक्तिधाम्ने कवचाय हुम् । वां ह्रौं नित्यमलुप्तशक्तिधाम्ने नेत्रत्रयाय वौषट् । यं ह्रः अनन्तशक्तिधाम्ने अस्त्राय फट् । भूर्भुवस्सुवरोम् । (दिग्बन्धः) ध्यानम्- मूले कल्पद्रुमस्य द्रुतकनकनिभं चारु पद्मासनस्थं वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् । नानालङ्कारकान्तं वरपरशुमृगाभीतिहस्तं त्रिणेत्रं वन्दे बालेन्दुमौलिं गजवदनगुहाश्लिष्टपार्श्वं महेशम् । लमित्यादिपञ्चपूजा । मूलमन्त्रः -ओं ह्रीं नमः शिवायै ह्रीं नमः शिवाय (१०८ -३३६) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) । ध्यानम् । लमित्यादिपञ्चपूजा । गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥ इति जपं देवस्य वामहस्ते समर्पयेत् । ---- श्रीविद्याषोडशीमन्त्रजपः ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लः हंसहंसोऽहं गणपतये स्वाहा । (१२) ॐ श्रीं ह्रीं क्लीं औं सौः शरहणभव - रहणभवश - हणभवशर - णभवशरह -भवशरहण -वशरहणभ श्रीशरवणभवाय नमः । (१२) ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञानं ब्रह्म प्रयच्छ स्वाहा । (१२) अस्य श्री महात्रिपुरसुन्दरीमहामन्त्रस्य । दक्षिणामूर्तिः ऋषिः । पङ्क्तिः छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । ऐं बीजं । सौः शक्तिः क्लीं कीलकं । परब्रह्मानुसन्धानसिद्ध्यर्थे जपे विनियोगः । करन्यासः - ॐ ह्रीं श्रीं अं मध्यमाभ्यां नमः । ॐ ह्रीं श्रीं आं अनामिकाभ्यां नमः । ॐ ह्रीं श्रीं सौः कनिष्ठिकाभ्यां नमः । ॐ ह्रीं श्रीं अं अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं श्रीं आं तर्जनीभ्यां नमः । ॐ ह्रीं श्रीं सौः करतलकरपृष्ठाभ्यां नमः । चतुरासनन्यासः - ॐ ह्रीं श्रीं ऐं क्लीं सौः देव्यासनाय नमः (पादयोः) । ॐ ह्रीं ऐं क्लीं सौः चक्रासनाय नमः (जङ्घयोः) । ॐ ह्रीं श्रीं ऐं क्लीं सौः सर्वमन्त्रासनाय नमः (जान्वोः) । ॐ ह्रीं श्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः (लिङ्गे) । हृदयादिन्यासः - ॐ ह्रीं क्लीं ऐं सौः हृदयाय नमः । ॐ ह्रीं श्रीं शिरसे स्वाहा । क ए ई ल ह्रीं शिखायै वषाट् । हसकहलह्रीं कवचाय हुम् । सकलह्रीं नेत्रत्रयाय वौषट् । सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः-) । ध्यानं बालार्कायुततेजसं त्रिनयनां रक्ताम्बरोल्लासिनीं नानालङ्कृतिराजमानवपुषं बालोडुराट् शेखराम् । हस्तैरिक्षुधनुः सृणीं सुमशरं पाशं मुदा बिभ्रतीं श्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां भजे ॥ लमित्यादिपञ्चपूजा । मूलमन्त्रः - कएईलह्रीं हसकहलह्रीं सकलह्रीं श्रीं (१०८ -३३६) हृदयादिन्यासः । ध्यानम् । भूर्भुवस्सुवरों (दिग्विमोकः ।) लमित्यादिपञ्चपूजा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ देव्या वामहस्ते जपं समर्पयेत् । दक्षिणामूर्ति मूलमन्त्रः - ॐ नमो भगवते श्रीदक्षिणामूर्तये मह्यं मेधां प्रज्ञानं ब्रह्म प्रयच्छ स्वाहा । (१२) ---- पञ्चाक्षरीकामकलाबालामन्त्र जपः ध्यानं- ह्रीङ्कारासनगर्भितानलशिखां शौक्लीं कलां बिभ्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गां शिवाम् । वन्दे पुस्तकमङ्कुशं जपवटीं पाशं मुदा बिभ्रतीं त्वां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥ मूलमन्त्रः -ओं ईं ईं नमः । (१०८ वारं) श्रीबालामन्त्रशापोद्धारः (गुरोर्लब्धमन्त्रोपदेशः गुरोराज्ञया मन्त्रसिद्ध्यै क्रमानेताननुसरेत् प्रथमतः ।) १. शापोद्धारः -ओं ऐं ऐं सौः । क्लीं क्लीं ऐं । सौः सौः क्लीं इति शतवारं जपेत् । २. उत्कीलनं -ओं क्लीं नमः इति शतवारं जपेत् । ३. दीपनं -ओं ऐं वद वद वाग्वादिनि । क्लीं क्लिन्ने क्लेदिनि महाक्षोभं कुरु । ॐ सौः मोक्षं कुरु इति शतवारं जपेत् । ४. प्रसादनं -ओं ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदय क्लेदय । क्षोभिणि क्षोभय । ऐं क्लीं सौः वैखरीं वर्धय वर्धय इति शतवारं जपेत् । ५. आह्लादनं -ओं क्लीं नमः (१०८) ६. पुरश्चरणं -अक्षरलक्षं जपः । तद्दशांशहोमः । तद्दशांशतर्पणं । तद्दशांशब्राह्मणभोजनमित्यादौ गुरोरादेशः प्रमाणम् । ---- श्रीत्र्यक्षरी बालामन्त्रजपः अस्य श्रीबालात्रिपुरसुन्दरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः (शिरसि) । पङ्क्तिश्छन्दः (मुखे) श्रीबालात्रिपुरसुन्दरी देवता (हृदि) ऐं बीजं (गुह्ये । उरसो दक्षिणे भागे वा) । सौः शक्तिः (पादयोः उरसो वामे भागे वा) । क्लीं कीलकं (नाभौ हृन्मध्ये वा) । श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थे जपे (पूजायां) विनियोगः । करन्यासः - ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः ।) ध्यानम् - अरुणकिरणजालैः रञ्जिताशावकाशा विधृतजपवटीकापुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥ लमित्यादि पञ्च पूजाः - लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं अग्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृतोपहारं निवेदयामि । (सर्वत्र ब्रह्मप्रणवयोजना यथागुरूपदेशम् ।) मूलमन्त्रः - ॐ ऐं क्लीं सौः (१०८-३३६-१००८ वारं यथाशक्ति) पुनः हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) ध्यानम् । लमित्यादि पञ्च पूजा । जपसमर्पणम् - गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ इति देव्या वामकरे जपं समर्पयेत् । (कराङ्गन्यासेषु विशेषः - आं सौः क्लीं ऐं अङ्गुष्ठाभ्याण् नमः । ईं सौः क्लीं ऐं तर्जनीभ्यां नमः । ऊं सौः क्लीं ऐं मध्यमाभ्यां नमः । ऐं सौः क्लीं ऐं अनामिकाभ्यां नमः । औं सौः क्लीं ऐं कनिष्ठिकाभ्यां नमः । अः सौः क्लीं ऐं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्याने विशेषः - रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिणेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ इत्यपि) ---- बालाषडक्षरीमहामन्त्रजपः - अस्य श्रीबालात्रिपुरसुन्दरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः । अनुष्टुप्छन्दः । श्रीबालात्रिपुरसुन्दरी देवता । ॐ ऐं बीजं । ॐ सौः शक्तिः । ॐ क्लीं कीलकम् । श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे जपे (पूजायां) विनियोगः । ॐ ऐं ह्रीं श्रीं ऐं नमः (शिरसि) । ॐ ऐं ह्रीं श्रीं क्लीं नमः (मुखे) । ॐ ऐं ह्रीं श्रीं सौः नमः (भ्रूमध्ये) । ॐ ऐं ह्रीं श्रीं सौः नमः (दक्षनेत्रे) । ॐ ऐं ह्रीं श्रीं क्लीं नमः (वामनेत्रे) । ॐ ऐं ह्रीं श्रीं ऐं नमः (हृदि) । ॐ ऐं ह्रीं श्रीं ऐं नमः (दक्षश्रोत्रे) । ॐ ऐं ह्रीं श्रीं क्लीं नमः (वामश्रोत्रे) । ॐ ऐं ह्रीं श्रीं सौः नमः (नाभौ) । ॐ ऐं ह्रीं श्रीं सौः नमः (दक्षभुजे) । ॐ ऐं ह्रीं श्रीं क्लिं नमः (वामभुजे) । ॐ ऐं ह्रीं श्रीं ऐं नमः (पृष्ठे) । ॐ ऐं ह्रीं श्रीं ऐं नमः (दक्षजानुनि) । ॐ ऐं श्रीं क्लीं नमः (वामजानुनि) । ॐ ऐं ह्रीं श्रीं सौः नमः (मूलाधारे) ऐं नमः (नाभ्यादिपादान्तम्) । क्लीं नमः (हृदयादिनाभ्यन्तम्) । सौः नमः (मूर्धादिहृदयान्तम्) । ऐं नमः (वामकरे) । क्लीं नमः (दक्षिणकरे) । सौः नमः (करयोः) । ४ ऐं (पादयोः) ४ क्लीं (जान्वोः) । ४. सौः (कट्याम् ।) ४ सौः (नाभौ) । ४ क्लीं (कुक्षौ) । ४ ऐं (हृदये) । ४ ऐं (कण्ठे) ४ क्लीं (मुखे) । ४ सौः (ललाटे) ४ सौः (ब्रह्मरन्ध्रे) । ४ क्लीं (दक्षिणपार्श्वे) । ४ ऐं वामपाश्वे । ऐं नमः (मूर्ध्नि) । क्लीं नमः (गुह्ये) । सौः नमः (वक्षसि) । ऐं रत्यै नमः । (गुह्ये) । सौः प्रीत्यै नमः (हृदि) । क्लीं विजयायै (मनोभवायै) नमः (भ्रूमध्ये) । ऐं अमृतेश्यै नमः (गुह्ये) । सौः योगेश्यै नमः (हृदि) । क्लीं विश्वयोन्यै नमः (भ्रूमध्ये) । ह्रीं मनोभवाय नमः (शिरसि) । क्लीं मकरध्वजाय नमः (मुखे) । ऐं कन्दर्पाय नमः (हृदि) । ब्लूं मन्मथाय नमः (गुह्ये) । स्त्रीं कामदेवाय नमः । (चरणयोः) । द्रां द्राविण्यै नमः (शिरसि) । द्रीं क्षोभिण्यै नमः (पादयोः) । क्लीं वशीकरण्यै नमः (मुखे) । ब्लूं आकर्षिण्यै नमः (गुह्ये) । स्त्रीं सम्मोहिन्यै नमः (हृदि) । चतुरासनन्यासः ॐ ऐं ह्रीं श्रीं ह्रीं क्लीं सौः देव्यात्मासनाय नमः (पादयोः) ॐ ऐं ह्रीं श्रीं हैं ह्क्लीं ह्सौः श्रीचक्रासनाय नमः । (जान्वोः) । ॐ ऐं ह्रीं श्रीं ह्सैं ह्स्क्लीं ह्स्सौः सर्वमन्त्रासनाय नमः । (ऊरुमूले) ॐ ऐं ह्रीं श्रीं ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः । (मूलाधारे) करशुद्धिन्यासः - ॐ ऐं ह्रीं श्रीं अं नमः (दक्षकरतले) । ॐ ऐं ह्रीं श्रीं आं नमः (दक्षकरपृष्ठे) । ॐ ऐं ह्रीं श्रीं सौः नमः (तत्पार्श्वयोः) । ॐ ऐं ह्रीं श्रीं अं नमः (वामकरतले) । ॐ ऐं ह्रीं श्रीं आं नमः (वामकरपृष्ठे) । ॐ ऐं ह्रीं श्रीं सौः नमः (तत्पार्श्वयोः) । ॐ ऐं ह्रीं श्रीं अं नमः (मध्यमाङ्गुल्योः) । ॐ ऐं ह्रीं श्रीं आं नमः (अनामिकयोः) । ॐ ऐं ह्रीं श्रीं सौः नमः (कनिष्ठिकयोः) । ॐ ऐं ह्रीं श्रीं अं नमः (अङ्गुष्ठयोः) । ॐ ऐं ह्रीं श्रीं आं नमः (तर्जन्योः) । ॐ ऐं ह्रीं श्रीं सौः नमः (करतलकरपृष्ठयोः) । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः बाले त्रिपुरसुन्दरि मां रक्ष रक्ष (हृदये) करन्यासः - ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ सौः मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ सौः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ सौः शिखायै वषट् । ॐ ऐं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ सौः अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं अरुणकिरणजालैः रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हारसंस्था निवसति हृदि बाला नित्यकल्याणशीला ॥ लमित्यादिपञ्च पूजा । मूलमन्त्रः -ओं ऐं क्लीं सौः सौः क्लीं ऐम् । (१०८ -३३६ -वारं) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) । ध्यानम् । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ इति देव्या वामहस्ते जपं समर्पयेत् ॥ (ऐं सौः क्लीं इति शत्रुनाशाय । क्लीं ऐं सौः इति वशीकरणाय । क्लीं सौः ऐं इति मुक्त्यै जपः करणीय इति मन्त्र विदः केचित् । मूले उक्तक्रमेण जपात्सर्वसिद्धिरिति तत्त्वविदः ।) (जपे विशेषः -जपाङ्गत्वेन पूजा लमित्यादिना निर्वर्त्यते । पूजाङ्गत्वेन जपे क्रियमाणे मूलमन्त्रजपानन्तरं हृदयादिन्यासाद्युत्तराङ्गं अनुपदं न क्रियते । मूलमन्त्रजपानन्तरं मूलेन देवतामावाह्य बाह्यापूजां समाप्य अन्ते हृदयादिन्यासं दिग्बन्धं ध्यानं लमित्यादि पूजां च कृत्वा देव्यै जपं समर्पयेत् ।) ---- ध्यानं आवाहनं च अरुणकिरणजालै रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हारसंस्था निवसति हृदि बाला नित्यकल्याणशीला ॥ आमूलाधारात् आब्रह्मबिलं विलसन्तीं बिसतन्तुतनीयसीं परचितिमम्बां ध्यायामि । तत्तेजसि सावरणदेवतां बालां अम्बां क्रमेणाविर्भवन्तीं पश्यामि । तच्चरणयोरग्रे पुष्पपूरिताञ्जलिं सपर्योद्युक्तं आत्मानं भावयामि ॥ अकुलेन्दुगलितामृतधारारूपिणीः सर्वावयवसुन्दरीः पञ्चभूताधिदेवताः देव्यग्रे पञ्चोपचारान् समर्पयन्तीः भावये । लम्बीजा पृथिवी गन्धं समर्पयति । हं बीजः आकाशः पुष्पाणि समर्पयति । यं बीजो वायुः धूपमाघ्रापयति । रं बीजोऽग्निः दीपं दर्शयति । वं बीजो वरुणः अमृतोपहारं निवेदयति । सर्वा एता देवताः दिव्यङ्गेषु निलीनाः । अहमपि देवीपादारविन्दमूले निलीनः । सर्वं ज्योतिर्मयं चिन्मयं विभाति । तेजोरूपेण परिणतां देवीं परचिद्रूपां सुषुम्नापथेन उद्गतां विनिर्भिन्नविधिबिलविलसदमल- सहस्रदलकमलमागतां नासापुटेन निर्गच्छन्तीं त्रिखण्डमुद्रामण्डितशिखण्डे कुसुमगर्भिते अञ्जलौ समानीय पूजाविग्रहे समायोजयामि । ---- प्राणप्रतिष्ठा अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य । ब्रह्मविष्णुमहेश्वराः ऋषयः । ऋग्यजुःसामाथर्वाणि छन्दांसि । प्राणशक्तिः परा देवता । आं बीजं । ह्रीं शक्तिः क्रों कीलकम् । प्राणप्रतिष्ठार्थे विनियोगः । आं ह्रीं क्रों इति द्विरावृत्त्या करहृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्बन्धः) ध्यानम्- रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्चबाणान् । बिभ्राणाऽसृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ लमित्यादि पञ्च पूजा । ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ॐ । हंसः सोऽहं सोऽहं हंसः शिवः । बालाम्बायाः सपरिवारायाः प्राण इह प्राणः । जीव इह स्थितः । सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणप्राणापानव्यानोदानसमाना इहैवागत्य चिरं सुखं तिष्ठन्तु स्वाहा । सान्निध्यं कुर्वन्तु स्वाहा । आं ह्रीं क्रों क्रों ह्रीं आं (४० वारं) । प्राणशक्त्यै नमः । (धूपदीपनैवेद्यानि । योनिमुद्रया प्रणमेत् ।) १० आवाहिता भव । १० स्थापिता भव । १० सन्निहिता भव । १० अवकुण्ठिता भाव । १० देवि प्रसीद प्रसीद । (१० -ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐम् ।) देवि सर्वजगन्नाथे यावद्बिम्बावसानकम् । तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥ कामेशाङ्कनिवासिन्याः कामेश्या अङ्कमास्थिता । मम भाग्यवशाद्बाला सन्निधत्से चिदाकृतिः ॥ कामेश्वर्यङ्कनिलयां तरुणारुणसन्निभाम् । अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥ फुल्लकल्हारमध्यस्थां मन्दस्मितमुखीं शिवाम् । कौसुम्बाम्बरसञ्छन्नपूगस्तनमनोहराम् ॥ काश्मीरकर्दमालिप्ततनुच्छायाविराजिताम् । देवीसमानाकृतिकां दिव्याभरणभूषिताम् ॥ बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलयुग्मकैः । भूपुराभ्यां च संयुक्ते चिच्चक्रे सुखमास्थिताम् । देवीं प्रणौमि बालां त्वां नित्यकल्याणरूपिणीम् ॥ ---- निर्गुणमानसपूजा १. पराभावनास्तोत्रम्- ध्यायामि कथमिव त्वां धीवर्त्मविदूरदिव्यमहिमवतीम् । आवाहनं विभोस्ते देवेशि कथं कुतः स्थानात् ॥ १॥ कियदासनं प्रकल्प्यं कृतासनायाश्च सर्वतोऽपि शिवे । पाद्यं कुतोऽर्घ्यमपि वाऽऽपाद्यं सर्वत्रपाणिपादायाः ॥ २॥ आचमनं ते स्यादपि भगवति ननु सर्वतोमुखीनायाः । मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादायाः ॥ ३॥ स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धायाः । वस्त्रेणापि न कार्यं कार्पासीयेन हेमवस्त्रायाः ॥ ४॥ हैमैराभरणैर्वा चमत्कृतिः का हिरण्यवर्णायाः । रत्नाचलवासिन्याः चिन्तामणिगेहगायास्ते ॥ ५॥ गन्धवती हि तनुस्ते गन्धाः किं नेशि पौनरुक्त्याय । पुष्करफलदानोत्कां पुष्करकुसुमेन पूजये किं त्वाम् ॥ ६॥ शमधनमूलधनं त्वं सकलेश्वरी भवसि धूपिता केन । दीपः कथं शिखावान् दीप्येत पुरः स्वयम्प्रकाशायाः ॥ ७॥ अमृतात्मकं निवेदितमशनं किं नाम नित्यतृप्तायाः । त्वय्याम्रेडितमेतत्ताम्बूलं यदिह सुमुखरागायाः ॥ ८॥ उपहारीभूयादिदमुमेऽद्य यन्मे विचेष्टितमशेषम् । नीराजयामि विद्युन्निभां कथं वा चिदाभासाम् ॥ ९॥ पुष्पाञ्जलिः कुतस्ते मूलप्रकृतिस्वरूपायाः । छत्रं नभोऽतिगायाः चामरमप्यविदितश्रमायास्ते ॥ १०॥ नृत्यं प्रथतां कथमिव चित्रं भायान्महानटपुरन्घ्र्याः । गीतं किं कलभाषणजितवाणीमधुरवीणायाः ॥ ११॥ वाद्यं डमरुभृदीशे वादयितुं तव पुरोऽस्ति का शक्तिः । अपरिच्छिन्नायास्ते जगदीश्वरि कः प्रदक्षिणविधिर्वा ॥ १२॥ स्युस्ते नमांसि कथमिव शङ्करि परितोऽपि विद्यमानायाः । वाचामगोचरीं त्वां वाचः प्रसरैः प्रसादयेयं वा ॥ १३॥ कस्मै वच्मि दशां मे कस्येदुग्घृदयमस्ति शक्तिर्वा । कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ १४॥ याचे नाभिनवं ते चन्द्रापीडे मदम्ब किञ्चिदपि । मह्यं प्रदेहि भगवति मदीयमेव स्वरूपमानन्दम् ॥ १५॥ भगवति बालतया वाऽभक्त्या वाप्यापदाकुलितया वा । मोहाविष्टतया वा मास्तु च ते मनसि यद्दुरुक्तं मे ॥ १६॥ ---- आवरणदेवतासहित श्रीबालाध्यानं ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः नमो भगवति बाले त्रिपुरसुन्दरि इन्द्राग्नियमनिरृतिवरुणवायु - कुबेरेशानशक्तिभिः सेविते सर्वाशापरिपूरकचक्रस्वामिनि । अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्ग- रेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालिनीभिः वशिनी-कामेश्वरी- मोदिनी-विमलारुणा-जयिनी-सर्वेश्वरी-कौलिनीभिश्च परिवृते सर्वसौभाग्यदायकचक्रेशि । ब्राह्मी-माहेश्वरी-कौमारी- वैष्णवी-वाराही-माहेन्द्री-चामुण्डी-महालक्ष्म्याख्यमातृभिः असिताङ्ग-रुरु-चण्ड-क्रोधोन्मत्त-कपालभीषण- संहाराख्यभैरवैश्चोपासिते । सर्वार्थसाधकचक्रेशि । साकिनी- राकिणी-लाकिनी-काकिनी-डाकिनी-हाकिनी-याकिन्याख्ययोगिनीसंस्तुते सर्वरक्षाकरचक्रेशि । रतिप्रीति-विजयाख्यशक्तिभिः गुरु-परमगुरु - परमेष्ठिगुरुभिश्च पूजिते । सर्वसिद्धिप्रदचक्रेशि । हृदय-शिरस्शिखा-कवचनेत्रत्रयास्त्रशक्तिगुप्ते । सर्वानन्दमयचक्राधिष्ठात्रि । श्रीशिवकामेश्वराङ्कस्थे कामेश्वर्यङ्कवासिनि । धृतवरदाभयमुद्रे पुस्तकजपमालाहस्ते अरुणे कल्हारसंस्थे श्रीबाले त्रिपुरसुन्दरि । परे भट्टारिके नमस्ते नमस्ते नमस्ते नमः सौः क्लीं ऐं श्रीं ह्रीं ऐम् । ---- त्रिशताक्षरी ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं नमो बाले त्रिपुरसुन्दरि । हृदयदेवि । शिरोदेवि । शिखादेवि । कवचदेवि । नेत्रदेवि । अस्त्रदेवि । इन्द्रशक्ते । अग्निशक्ते । यमशक्ते । निरृतिशक्ते । वरुणशक्ते । वायुशक्ते कुबेरशक्ते ईशानशक्ते । वशिनि । कामेश्वरि । मोदिनि । विमले । अरुणे । जयिनि । सर्वेश्वरि । कौलिनि । अनङ्गकुसुमे । अनङ्गमेखले । अनङ्गमदने । अनङ्गमदनातुरे । अनङ्गरेखे । अनङ्गवेगिनि । अनङ्गाङ्कुशे । अनङ्गमालिनि । असिताङ्गभैरव-रुद्रभैरव- चण्डभैरव- क्रोधभैरव-उन्मत्तभैरव-कपालभैरव- भीषणभैरव - संहारभैरवयुते । ब्राह्मि । माहेश्वरि । कौमारि । वैष्णवि । वाराहि । माहेन्द्रि । चामुण्डे । महालक्ष्मि । साकिनि । राकिणि । लाकिनि । काकिनि । डाकिनि । हाकिनि । याकिनि । गुरुमयि । परमगुरुमयि । पामेष्ठिगुरुमयि । रतिदेवि । प्रीतिदेवि । विजयादेवि । सावरणदेवते बाले परे भट्टारिके । नमस्ते नमः सौः क्लीं ऐं ॐ ॥ ---- नामस्मरणपूर्वकस्वरूपध्यानं कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी । सुन्दरी सर्वसौभाग्यवती ह्रीङ्काररूपिणी ॥ १॥ ऐङ्कारी सर्वजननी क्लीङ्कारी परमेश्वरी । सौःकारी सर्वशक्त्याढ्या त्र्यक्षरी दिव्यगन्धिनी ॥ २॥ संविदानन्दलहरी श्रीविद्या त्रिपुरेश्वरी । गुप्ता गुत्पतरा नित्या नित्या षोडशकावृता ॥ ३॥ भक्तानुरक्ता रक्ताङ्गी शिवा सर्वारुणा शुभा । मोहिनी परमानन्दा कामेशी तरुणी कला ॥ ४॥ पद्मावती भगवती पद्मरागकिरीटिनी । रक्तवस्त्रा रक्तभूषा रक्तगन्धानुलेपना ॥ ५॥ सौगन्धिकमिलद्वेणी मन्त्रिणी मन्त्रपुष्पिणी । तत्त्वासना तत्त्वमयी सिद्धान्तःपुरवासिनी ॥ ६॥ श्रीवाणीड्या महादेवी कौलिनी परदेवता । कैवल्यरेखा वशिनी सर्वेशी सर्वमङ्गला ॥ ७॥ नारायणी वेदवेद्या सर्वसम्पत्प्रदा सती । चतुर्भुजा चन्द्रचूडा पुराणागमबोधिता ॥ ८॥ भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी । सर्वमङ्गलमाङ्गल्या कामाक्षी कामदायिनी ॥ ९॥ किङ्करीभूतगीर्वाणी सुधापानविनोदिनी । आधारवीथीपथिका स्वाधिष्ठानसमाश्रिता ॥ १०॥ मणिपूरसमासीना अनाहतनिवासिनी । विशुद्धिचक्रनिलया आज्ञाचक्रनिवासिनी ॥ ११॥ अष्टत्रिंशत्कलामूर्तिः सुषुम्नागारमध्यगा । योगीश्वरमुनिध्येया परब्रह्मस्वरूपिणी ॥ १२॥ दिक्पालशक्तिसंयुक्ता सर्वाशापरिपूरका । अनङ्गकुसुमादीड्या वाग्देव्यष्टकसंवृता ॥ १३॥ सर्वसौभाग्यदेशानी मात्रष्टकसमावृता । भैरवष्टकसंसेव्या सर्वाभीष्टार्थसाधिका ॥ १४॥ योगिनीषट्कसंसेव्या सर्वरक्षाकराधिपा । रतिप्रीतिविजयाख्यत्रिशक्तिगुरुसेविता ॥ १५॥ सर्वसिद्धिप्रदेशानी सर्वानन्दमयाधिपा । रहःपूजासमालोला बिन्दुस्थलमनोहरा ॥ १६॥ त्रिकोणमध्यनिलया षट्कोणपुरवासिनी । वसुपत्रद्वयावासा भूपुरद्वयमध्यगा ॥ १७॥ शिवकामेश्वराङ्कस्थकामेश्वर्यङ्कवासिनी । कामेश्वरीसमाकारा फुल्लकल्हारमध्यगा ॥ १८॥ पुस्तकाभीतिवरदजपमालालसत्करा । तरुणारुणदेहाभा दिव्याभरणभूषिता ॥ १९॥ बन्धूककुसुमप्रख्या बाललीलाविनोदिनी । काश्मीरकर्दमालिप्ततनुच्छायाविराजिता ॥ २०॥ सपर्याचारनिरतगुरुमण्डलसेविता । चतुर्वर्गप्रदानोत्क नित्यकल्याणरूपिणी ॥ २१॥ एवं ध्याता हृदि सदा पराम्बा बालरूपिणी । देवि ! भाग्यवशादत्र सन्निधत्से चिदाकृतिः ॥ २२॥ ---- सगुणमानसपूजा प्रबोधनं १०. उषसि मागधमङ्गगायनैः झटिति जागृहि जागृहि जागृहि । - (१०. ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं इत्यस्य सङ्केतः) - अतिकृपार्द्रकटाक्षनिरीक्षणैः जगदिदं जगदम्ब सुखीकुरु ॥ मण्डपप्रवेशः १०. कनकमयवितर्दिशोभमानं दिशिदिशि पूर्णसुवर्णकुम्भयुक्तम् । मणीमयमण्डपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय ॥ ---- पाद्यं १०. दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पायमेतदुररीकुरु मातः ॥ अर्घ्यं १०. गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सहरत्नैः अर्ध्यमेतदुररीकुरु मातः ॥ आचमनं १०. जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धमिश्रैः । अमृतैरमृतैरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥ मधुपर्कः १०. निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ स्नानं १०. एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोर्द्वर्तनं भक्त्याहं कलयामि हेमरजस सम्मिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥ एलोशीरसुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ वस्त्रधारणं केशप्रसाधनं च १०. बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भाक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १०. बहुभिरगरुधूपैः सादरं धूपयित्वा भागवति तव केशान्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चर्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ आभरणभूषणं १०. मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः काट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ गन्धकुङ्कुमाक्षतधारणं (१०) मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ (१०) रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ (१०) सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति । बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिः अन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ पुष्पालङ्करणं १०. मन्दाकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततमहं परिपूजयामि जातीजपावकुलचम्पककेतकादि - नानाविधानि कुसुमानि च तेऽर्पयामि ॥ मालतीवकुलहेमपुष्पिका काञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ पारिजातशतपत्रपाटलैर्मल्लिकावकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ धूपः १०. लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीकण्ठागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ दीपः १०. रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैः बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ निवेदनं १०. मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिका - सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ सापूपसूपदधिदुग्धसुधाघृतानि सुस्वादुभक्तपरमान्नपुरस्सराणि । शाकोल्लसन्मरिचजीरक बाह्लिकानि भाक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदुमुज्ज्वलं मधु । मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् । पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि । सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ कूश्माण्डकोशाटकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ ताम्बूलं १०. कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ गोधूमदीपाराधनं १०. सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ स्वर्णमन्त्रपुष्पाञ्जलिः १०. अथ बहुमणीमिश्रैः मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ---- स्तोत्रं १०. तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु स्तवनं कस्तव कर्तुमीश्वरः ॥ रात्रिसूक्तं ॐ रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्या १ क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑न्धित ॥ १॥ ओर्व॑प्रा अम॑र्त्या निवतो॑ दे॒व्यु॑ १ द्वतः । ज्योति॑षा बाधते॒ तमः॑ ॥ २॥ निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑हासते तमः॑ ॥ ३॥ सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्न वि॑क्ष्महि । वृ॒क्षेन व॑स॒तिं वयः॑ ॥ ४॥ निग्रामा॑सो अविक्षत॒ निप॒द्वन्तो॒ निप॒क्षिणः॑ । निश्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५॥ या॒वया॑ वृ॒क्य॑ (अं) वृकं॑ य॒वय॑स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव ॥ ६॥ उप॑ मा पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित । उप ऋ॒णेव॑ यातय ॥ ७॥ उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जिग्युषे॑ ॥ ८॥ देवीसूक्तं ॐ ॥ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमादि॒त्यैरु॒त वि॒श्वदेवैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ १॥ अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टारमु॒त पू॒षणं॒ भगम्᳚ । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ३ यज॑ मानाय सुन्व॒ते ॥ २॥ अ॒हं राष्टी᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् । तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚ वे॒शय᳚न्तीम् ॥ ३॥ मया॒ सोऽन्न॑म्मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ यईं᳚ श‍ृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒मान्त उप॑क्षियन्ति श्रु॒धिश्रु॑त श्रद्धि॒वन्ते᳚ वदामि ॥ ४॥ अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ ५॥ अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒हन्त॒ वा उ॑ । अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आवि॑वेश ॥ ६॥ अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑ र॒प्स्व(१)न्तः स॑मुद्रे । ततो॒ विति॑ष्ठे॒ भुव॒नान॒ विश्वो॒ तामूं द्यां व॒र्ष्मणोप॑स्पृशामि ॥ ७॥ अ॒हमे॒व वात॑ इव॒ प्रवा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ । प॒रो दि॒वा प॒रए॒ना पृ॑थि॒व्यै ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति बालासपर्या समाप्ता ।