अक्षर आकार:

श्रीबालासहस्रनामस्तोत्रम् २

Shri Bala Sahasranamastotram 2

श्रीबालासहस्रनामस्तोत्रम् २

शौनक उवाच - कैलासशिखरे रम्ये नानापुय्ष्पोपशोभिते । कल्पपादपमध्यस्थे गन्धर्वगणसेविते ॥ १॥ मणिमण्डपमध्यस्थे नानारत्नोपशोभिते । तं कदाचित् सुखासीनं भगवन्तं जगद्गुरुम् ॥ २॥ कपालखट्वाङ्गधरं चन्द्रार्धकृतशेखरम् । त्रिशूलडमरुधरं महावृषभवाहनम् ॥ ३॥ जटाजूटधरं देवं वासुकिकण्ठभूषणम् । विभूतिभूषणं देवं नीलकण्ठं त्रिलोचनम् ॥ ४॥ द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् । सहस्रादित्यसङ्काशं गिरिजार्धाङ्गभूषणम् ॥ ५॥ प्रणम्य शिरसा नाथं कारणं विश्वरूपिणम् । कृताञ्जलिपुटो भूत्वा प्राह तं शिखिवाहनः ॥ ६॥ कार्तिकेय उवाच - देवदेव महादेव ! सृष्टिस्थित्यन्तकारक ! । त्वं गतिः सर्वदेवानां त्वं गतिः सर्वदेहिनाम् ॥ ७॥ त्वं गतिः सर्वदेवानां सर्वेषां त्वं गतिर्विभो ! । त्वमेव जगदाधारस्त्वमेव विश्वकारणम् ॥ ८॥ त्वमेव पूज्यः सर्वेषां त्वदन्यो नास्ति मे गतिः । किं गुह्यं परमं लोके किमेकं सर्वसिद्धिदम् ॥ ९॥ किमेकं परमं सृष्टिः किं भौमैश्वर्यमोक्षदम् । विना तीर्थेन तपसा विना वेदैर्विना मखैः ॥ १०॥ विना जाप्येन ध्यानेन कथं सिद्धिमवाप्नुयात् । कस्मादुत्पद्यते सृष्टिः कस्मिंश्च विलयो भवेत् ॥ ११॥ कस्मादुत्तीर्यते देव ! संसारार्णवसङ्कटात् । तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ! ॥ १२॥ श्रीमहादेव उवाच - साधु साधु त्वया पृष्टोऽस्म्यहं पार्वतीनन्दन ! । अस्ति गुह्यतमं पुत्र ! कथयिष्याम्यसंशयम् ॥ १३॥ सत्त्वं रजस्तमश्चैव ब्रह्मविष्णुशिवादयः । ये चान्ये बहवो भूताः सर्वे प्रकृतिसम्भवाः ॥ १४॥ सैव देवी पराशक्तिर्महात्रिपुरसुन्दरी । सैव संहरते विश्वं जगदेतच्चराचरम् ॥ १५॥ आधारं सर्वभूतानां सैव रोगार्तिहारिणी । इच्छाशक्तिः क्रियारूपा ब्रह्मविष्णुशिवात्मिका ॥ १६॥ त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी । सृजति ब्रह्मरूपेण विष्णुरूपेण रक्षति ॥ १७॥ हरते रुद्ररूपेण जगदेतच्चराचरम् । यस्य योनौ जगत्सर्वमद्यापि वर्ततेऽखिलम् ॥ १८॥ यस्यां प्रलीयते चान्ते यस्यां च जायते पुनः । यां समाराध्य त्रैलोक्ये सम्प्राप्तं पदमुत्तमम् । तस्या नामसहस्रं ते कथयामि श‍ृणुष्व तत् ॥ १९॥ ॐ अस्य श्रीबालासहस्रनामस्तोत्रमन्त्रस्य, भगवान् दक्षिणामुर्तिर्वामदेवः ऋषिः, गायत्री छन्दः, प्रकटगुप्तगुप्ततरसम्प्रदाय कुलकौलोत्तीर्णानिगर्भरहस्यातिरहस्य परापररहस्या चिन्त्या वर्तिनी बाला देवता । आं बीजं, ह्रीं शक्तिः, क्लीं कीलकम्, श्री बालाप्रीत्यर्थे पारायणे विनियोगः । ध्यानं आधारे तरुणार्कबिम्बसदृशं हेमप्रभं वाग्भवं बीजं मान्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् । चक्रं भालमयं शशाङ्करुचिरं बीजं तु तार्तीयकं ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मां गतिम् ॥ कल्याणी कमला काली कराली कामरूपिणी । कामाक्षा कामदा काम्या कामना कामचारिणी ॥ २२॥ कौमारी करुणामूर्तिः कलिकल्मषनाशिनी । कात्यायनी कलाधारा कौमुदी कमलप्रिया ॥ २३॥ कीर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला । माहेश्वरी महामाया महातेजा महेश्वरी ॥ २४॥ महामोहान्धकारघ्नी महामोक्षप्रदयिनी । महादारिद्र्यराशिघ्नी महाशत्रुविमर्दिनी ॥ २६॥ महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी । महाकाया महाबीजा महापातकनाशिनी ॥ २७॥ महामखा मन्त्रमयी मणिपुरनिवासिनी । मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥ २८॥ गणमाता च गायत्री गणगन्धर्वसेविता । गिरिजा गिरिशा साध्वी गिरिसूर्गिरिसम्भवा ॥ २९॥ चण्डेश्वरी चन्द्ररूपा प्रचण्डा चण्डमालिनी । चर्चिका चर्चिताकारा चण्डिका चारुरूपिणी ॥ ३०॥ यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा । यज्ञमाता यज्ञगोप्त्री यज्ञेशी यज्ञसम्भवा ॥ ३१॥ यज्ञसिद्धिः क्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षका । यज्ञप्रिया यज्ञरूपा याज्ञी यज्ञकृपालया ॥ ३२॥ जालन्धरी जगन्माता जातवेदा जगत्प्रिया । जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी ॥ ३३॥ गङ्गा गोदावरी गौरी गौतभी च शतह्रदा । घुर्घुरा वेदगर्भा च रेविका करसम्भवा ॥ ३४॥ सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती । चन्द्रभागा विपाशा च गण्डकी विन्ध्यवासिनी ॥ ३५॥ नर्मदा कह्नकावेरी वेत्रवत्या च कौशिकी । महोनतनया चैव अहल्या चम्पकावती ॥ ३६॥ अयोध्या मथुरा माया काशी काञ्ची अवन्तिका । द्वारावती च तीर्थेशी महाकिल्विषनाशिनी ॥ ३७॥ पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी । पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥ ३८॥ ह्रीङ्कारी कुण्डली धात्री हृत्पद्मथा सुलोचना । श्रीङ्कारी भूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी ॥ ३९॥ हरिप्रिया हरेर्मूर्तिर्हरिनेत्रकृतालया । हरिवक्त्रोद्भवा शान्ता हरिवक्षःस्थितालया ॥ ४०॥ वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी । विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला ॥ ४१॥ विश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी । विश्वेश्वरी शिवाधारा शिवनाथा शिवप्रिया ॥ ४२॥ शिवमाता शिवाक्षी च शिवदा शिवरूपिणी । भवेश्वरी भवाराध्या भवेशी भवनायिका ॥ ४३॥ भवमाता भवागम्या भवकण्टकनाशिनी । भवप्रिया भवानन्दा भवानी भवमोचिनी ॥ ४४॥ गीतिर्वरेण्या सावित्री ब्रह्माणी ब्रह्मरूपिणी । ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मवादिनी ॥ ४५॥ दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी । त्रयीदा ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मवादिनी ॥ ४६॥ त्वक्स्था तथा च त्वग्रूपा त्वग्गा त्वगार्तिहारिणी । स्वगमा निर्गमा दात्री दाया दोग्ध्री दुरापहा ॥ ४७॥ दूरघ्नी च दुराराध्या दूरदुष्कृतनाशिनी । पञ्चस्था पञ्चमी पूर्णा पूर्णापीठ निवासिनी ॥ ४८॥ सत्त्वस्था सत्त्वरूपा च सत्त्वदा सत्त्वसम्भवा । रजःस्था च रजोतूपा रजोगुणसमुद्भवा ॥ ४९॥ तामसी च तमोरूपा तामसी तमसः प्रिया । तमोगुणसमुद्भूता सात्त्विकी राजसी तमी ॥ ५०॥ कला काष्ठा निमेषा च स्वकृता तदनन्तरा । अर्धमासा च मासा च संवत्सरस्वरूपिणी ॥ ५१॥ युगस्था युगरूपा च कल्पस्था कल्परूपिणी । नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ ५२॥ विश्वात्मिका विश्वमाता विश्वपाशा विधायिनी । विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥ ५३॥ जपाकुसुमसङ्काशा दाडिमीकुसुमोपमा । चतुरङ्गा चतुर्बाहुश्चतुरा चारुहासिनी ॥ ५४॥ सर्वेशी सर्वदा सर्वा सर्वज्ञा सर्वदायिनी । सर्वेश्वरी सर्वविद्या शर्वाणी सर्वमङ्गला ॥ ५५॥ नलिनी नन्दिनी नन्दा आनन्दानन्दवर्धिनी । व्यापिनी सर्वभूतेषु भवभारविनाशिनी ॥ ५६॥ कुलीना कुलमध्यस्था कुलधर्मोपदेशिनी । सर्वश‍ृङ्गारवेशाढ्या पाशाङ्कुशकरोद्यता ॥ ५७॥ सूर्यकोटिसहस्रभा चन्द्रकोटिनिभानना । गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ॥ ५८॥ दावाग्निकोटिज्वलिनी रुद्रकोट्युग्ररूपिणी समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ ५९॥ आकाशकोटिविस्तारा यमकोटिभयङ्करा । मेरुकोटिसमुञ्च्छ्रा या गुणकोटिसमृद्धिदा ॥ ६०॥ निष्कलङ्का निराधारा निर्गुणा गुणवर्जिता । अशोका शोकरहिता तापत्रयविवर्जिता ॥ ६१॥ विशिष्टा विश्वजननी विश्वमोहविधारिणी । चित्रा विचित्रा चित्राशी हेतुगर्भा कुलेश्वरी ॥ ६२॥ इच्छाशाक्तिः ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता । श्रुतिस्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया ॥ ६३॥ श्रुतिप्रज्ञा महासत्या पञ्चतत्त्वोपरिस्थिता । पार्वती हिमवत्पुत्री पाशस्था पाशरूपिणी ॥ ६४॥ जयन्ती भद्रकाली च अहल्या कुलनायिका । भूतधात्री च भूतेशी भूतस्था भूतभाविनी ॥ ६५॥ महाकुण्डलिनीशक्तिर्महाविभववर्धिनी । हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी ॥ ६६॥ सोमसूर्याग्निमध्यस्था मणिपूरकवासिनी । षट् पत्राम्भोजमध्यस्था मणिपूरनिवासिनी ॥ ६७॥ द्वादशारसरोजस्था सूर्यमण्डलवासिनी । अकलङ्का शशाङ्काभा षोडशारनिवासिनी ॥ ६८॥ द्विपत्रदलमध्यस्था ललाटतलवासिनी । डाकिनी शाकिनी चैव लाकिनी काकिनी तथा ॥ ६९॥ राकिणी हाकिनी चैव षट्चक्रक्रमवासिनी । सृष्टिस्थितिविनाशा च सृष्टिस्थित्यन्तकारिणी ॥ ७०॥ श्रीकण्ठा श्रीप्रिया कण्ठनादाख्या बिन्दुमालिनी । चतुःषष्टिकलाधारा मेरुदण्डसमाश्रया ॥ ७१॥ महाकाली द्युतिर्मेधा स्वधा तुष्टिर्महाद्युतिः । हिङ्गुला मङ्गलशिवा सुषुम्णामध्यगामिनी ॥ ७२॥ परा घोरा करालाक्षी विजया जयशालिनी । हृत्पद्मनिलया देवी भीमा भैरवनादिनी ॥ ७३॥ आकाशलिङ्गभूता च भुवनोद्यानवासिनी । महासूक्ष्माऽभया काली भीमरूपा महाबला ॥ ७४॥ मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा । अन्तःस्था कूटबीजा च त्रिकूटाचलवासिनी ॥ ७५॥ वर्णाक्षा वर्णरहिता पञ्चाशद्वर्णभेदिनी । विद्याधरी लोकधात्री अप्सरा अप्सरःप्रिया ॥ ७६॥ दक्षा दाक्षायणी दीक्षा दक्षयज्ञविनाशिनी । यशस्विनी यशःपूर्णा यशोदागर्भसम्भवा ॥ ७७॥ देवकी देवमाता च राधिका कृष्णवल्लभा । अरुन्धती शचीन्द्राणी गान्धारी गन्धमोदिनी ॥ ७८॥ ध्यानातीता ध्यानगम्या ध्याना ध्यानावधारिणी । लम्बोदरी च लम्बोष्ठा जाम्बवती जलोदरी ॥ ७९॥ महोदरी मुक्तकेशी मुक्तिकामार्थसिद्धिदा । तपस्विनी तपोनिष्ठा चापर्णा पर्णभक्षिणी ॥ ८०॥ बाणचापधरा वीरा पाञ्चाली पञ्चमप्रिया । गुह्या गभीरा गहना गुह्यतत्त्वा निरञ्जना ॥ ८१॥ अशरीरा शरीरस्था संसारार्णवतारिणी । अमृता निष्कला भद्रा सकला कृष्णपिङ्गला ॥ ८२॥ चक्रेश्वरी चक्रहस्ता पाशचक्रनिवासिनी । पद्मरागप्रतीकाशा निर्मलाकाशसन्निभा ॥ ८३॥ ऊर्ध्वस्था ऊर्ध्वरूपा च ऊर्ध्वपद्मनिवासिनी । कार्यकारणकर्त्री च पर्वाख्या रूपसंस्थिता ॥ ८४॥ रसज्ञा रसमध्यस्था गन्धज्ञा गन्धरूपिणी । परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ॥ ८५॥ शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्जिता । सिद्धिर्वृद्धिपरा वृद्धिः सकीर्तिर्दीप्तिसंस्थिता ॥ ८६॥ स्वगुह्या शाम्भवीशक्तिस्तत्त्वज्ञा तत्त्वरूपिणी । सरस्वती भूतमाता महाभूताधिपप्रिया ॥ ८७॥ श्रुतिप्रज्ञादिमा सिद्धिः दक्षकन्याऽपराजिता । कामसन्दीपनी कामा सदाकामा कुतूहला ॥ ८८॥ भोगोपचारकुशला अमला ह्यमलानना । भक्तानुकम्पिनी मैत्री शरणागतवत्सला ॥ ८९॥ सहस्रभुजा चिच्छक्तिः सहस्राक्षा शतानन । सिद्धलक्ष्मीर्महालक्ष्मीर्वेदलक्ष्मीः सुलक्षणा ॥ ९०॥ यज्ञसारा तपस्सारा धर्मसारा जनेश्वरी । विश्वोदरी विश्वसृष्टा विश्वाख्या विश्वतोमुखी ॥ ९१॥ विश्वास्यश्रवणघ्राणा विश्वमाला परात्मिका । तरुणादित्यसङ्काशा करणानेकसङ्कुला ॥ ९२॥ क्षोभिणी मोहिनी चैव स्तम्भिनी जृम्भिनी तथा । रथिनी ध्वजिनी सेना सर्वमन्त्रमयी त्रयी ॥ ९३॥ ज्ञानमुद्रा महामुद्रा जपमुद्रा महोत्सवा । जटाजूट धरा मुक्ता सूक्ष्मशान्तिर्विभीषणा ॥ ९४॥ द्वीपिचर्मपरीधाना चीरवल्कलधारिणी । त्रिशूलडमरुधरा नरमालाविभूषिणी ॥ ९५॥ अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा । त्रैलोक्यसाधिनी साध्या सिद्धसाधकवत्सला ॥ ९६॥ सर्वविद्यामयी सारा असुराम्बुधिधारिणी । सुभगा सुमुखी सौम्या सुशूरा सोमभूषणा ॥ ९७॥ शुद्धस्फटिकसङ्कशा महावृषभवाहिनी । महिषी महिषारूढा महिषासुरघातिनी ॥ ९८॥ दमिनी दामिनी दान्ता दया दोग्ध्री दुरापहा । अग्निजिह्वा महाघोराऽघोरा घोरतरानना ॥ ९९॥ नारायणी नारसिंही नृसिंहहृदयस्थिता । योगेश्वरी योगरूपा योगमाला च योगिनी ॥ १००॥ खेचरी भूचरी खेला निर्वाणपदसंश्रया । नागिनी नागकन्या च सुवेगा नागनायिका ॥ १०१॥ विषज्वालावती दीप्ता कलाशतविभूषणा । भीमवक्त्रा महावक्त्रा वक्त्राणां कोटिधारिणी ॥ १०२॥ महदात्मा च धर्मज्ञा धर्मातिसुखदायिनी । कृष्णमूर्तिर्महामूर्तिर्घोरमूर्तिर्वरानना ॥ १०३॥ सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी । सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता ॥ १०४॥ सर्वपीडोपशमनी सर्वारिष्टविनाशिनी । सर्वैश्वर्यसमुत्पत्तिः सर्वग्रहविनाशिनी ॥ १०५॥ भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी । मातङ्गी मत्तमातङ्गी मातङ्गगणमण्डिता ॥ १०६॥ अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता । अमृतद्वीपमध्यस्था प्रबला वत्सलोज्ज्वला ॥ १०७॥ मणिमण्डपमध्यस्था रत्नसिंहासनस्थिता । परमानन्दमुदिता ईषत्प्रहसितानना ॥ १०८॥ कुमुदा ललिता लोला लाक्षा लोहितलोचना । दिग्वासा देवदूती च देवदेवादिदेवता ॥ १०९॥ सिंहोपरिसमारूढा हिमाचलनिवासिनी । अट्टाट्टहासिनी घोरा घोरदैत्यविनाशिनी ॥ ११०॥ अत्युग्रा रक्तवसना नागकेयूरमण्डिता । मुक्ताहारस्तनोपेता तुङ्गपीनपयोधरा ॥ १११॥ रक्तोत्पलदलाकारा मदाघूर्णितलोचना । गण्डमण्डितताटङ्का गुञ्जाहारविभूषणा ॥ ११२॥ सङ्गीतरङ्गरसना वीणावाद्यकुतूहला । समस्तदेवमूर्तिश्च ह्यसुरक्षयकारिणी ॥ ११३॥ खड्गिनी शूलहस्ता च चक्रिणी चाक्षमालिनी । पाशिनी चक्रिणी दान्ता वज्रिणी वज्रदण्डिनी ॥ ११४॥ आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता । नानाभरणदीप्ताङ्गी नानामणिविभूषणा ॥ ११५॥ जगदानन्दसम्भूतिश्चिन्तामणिगुणाकरा । त्रैलोक्यनमिता पूज्या चिन्मयाऽऽनन्दरूपिणी ॥ ११६॥ त्रैलोक्यनन्दिनी देवी दुःखदुःस्वप्ननाशिनी । घोराग्निदाहशमनी राजदैवादिशालिनी ॥ ११७॥ महाऽपराधराशिघ्नी महावैरिभयापहा । रागादिदोषरहिता जरामरणवर्जिता ॥ ११८॥ चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा । सर्वदेवैः स्तुता देवी सर्वसिद्धिनमस्कृता ॥ ११९॥ अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधी । स्वस्तिः स्वस्तिमती बाला मलयाचलसंस्थिता ॥ १२०॥ धात्री विधात्री संहारा रतिज्ञा रतिदायिनी । रुद्राणी रुद्ररूपा च रौद्री रौद्रार्तिहारिणी ॥ १२१॥ सर्वज्ञा चौरधर्मज्ञा रसज्ञा दीनवत्सला । अनाहता त्रिनयना निर्भरा निर्वृतिः परा ॥ १२२॥ परा घोरकरालाक्षी स्वमाता प्रियदायिनी । मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता समन्त्रिणी ॥ १२३॥ शुद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका । धरणी धारिणी पृथ्वी धरा धात्री वसुन्धरा ॥ १२४॥ मेरुमन्दिरमध्यस्था शिवा शङ्करवल्लभा । श्रीगतिः श्रीमती श्रेष्ठा श्रीकरी श्रीविभावनी ॥ १२५॥ श्रीदा श्रीमा श्रीनिवासा श्रीमती श्रीमतां गतिः । उमा शारङ्गिणी कृष्णा कुटिला कुटिलालका ॥ १२६॥ त्रिलोचना त्रिलोकात्मा पुण्यदा पुण्यकीर्तिदा । अमृता सत्यसङ्कल्पा सत्याशा ग्रन्थिभेदिनी ॥ १२७॥ परेशा परमा विद्या पराविद्या परात्परा । सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता ॥ १२८॥ प्रजा प्रजावती धन्या धनधान्यसमृद्धिदा । ईशानी भुवनेशानी भुवना भुवनेश्वरी ॥ १२९॥ अनन्तानन्तमहिमा जगत्सारा जगद्भवा । अचिन्त्यशक्तिमहिमा चिन्त्याचिन्त्यस्वरूपिणी ॥ १३०॥ ज्ञानगम्या ज्ञानमूर्तिर्ज्ञानदा ज्ञानशालिनी । अमिता घोररूपा च सुधाधारा सुधावहा ॥ १३१॥ भास्करी भासुरी भाती भास्वदुत्तानशायिनी । अनसूया क्षमा लज्जा दुर्लभा भुवनान्तिका ॥ १३२॥ विश्ववन्द्या विश्वबीजा विश्वधीर्विश्वसंस्थिता । शीलस्था शीलरूपा च शीला शीलप्रदायिनी ॥ १३३॥ बोधिनी बोधकुशला रोधिनी बाधिनी तथा । विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा ॥ १३४॥ विश्वयोनिर्महायोनिः कर्मयोनिः प्रियंवदा । रोगिणी रोगशमनी महारोगभयावहा ॥ १३५॥ वरदा पुष्टिदा देवी मानदा मानवप्रिया । कृष्णाङ्गवाहिनी चैव कृष्णा कृष्णसहोदरी ॥ १३६॥ शाम्भवी शम्भुरूपा च तथैव शम्भुसम्भवा । विश्वोदरी विश्वमाता योगमुद्रा च योगिनी ॥ १३७॥ वागीश्वरी योगमुद्रा योगिनीकोटिसेविता । कौलिकानन्दकन्या च श‍ृङ्गारपीठवासिनी ॥ १३८॥ क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरा । धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ॥ १३९॥ पिनाकी रुद्रवेताली महावेतालरूपिणी । तपनी तापिनी दक्षा विष्णुविद्या त्वनाथिता ॥ १४०॥ अङ्कुरा जठरा तीव्रा अग्निजिह्वा भयापहा । पशुघ्नी पशुरूपा च पशुदा पशुवाहिनी ॥ १४१॥ पिता माता च भ्राता च पशुपाशविनाशिनी । चन्द्रमा चन्द्ररेखा च चन्द्रकान्तिविभूषणा ॥ १४२॥ कुङ्कुमाङ्कितसर्वाङ्गी सुधीर्बुद्बुदलोचना । शुक्लाम्बरधरा देवी वीणापुस्तकधारिणी ॥ १४३॥ श्वेतवस्त्रधरा देवी श्वेतपद्मासनस्थिता । रक्ताम्बरा च रक्ताङ्गी रक्तपद्मविलोचना ॥ १४४॥ निष्ठुरा क्रूरहृदया अक्रूरा मितभाषिणी । आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी ॥ १४५॥ महासूक्ष्मा च कङ्काली भीमरूपा महाबला । अनौपम्यगुणोपेता सदा मधुरभाषिणी ॥ १४६॥ विरूपाक्षी सहस्राक्षी शताक्षी बहुलोचना । दुस्तरी तारिणी तारा तरुणी ताररूपिणी ॥ १४७॥ सुधाधारा च धर्मज्ञा धर्मयोगोपदेशिनी । भगेश्वरी भगाराध्या भगिनी भगिनीप्रिया ॥ १४८॥ भगविश्वा भगक्लिन्ना भगयोनिर्भगप्रदा । भगेश्वरी भगरूपा भगगुह्या भगावहा ॥ १४९॥ भगोदरी भगानन्दा भगाढ्या भगमालिनी । सर्वसङ्क्षोभिणीशक्तिः सर्वविद्राविणी तथा ॥ १५०॥ मालिनी माधवी माध्वी मदरूपा मदोत्कटा । भेरुण्डा चण्डिका ज्योत्स्ना विश्वचक्षुस्तपोवहा ॥ १५१॥ सुप्रसन्ना महादूती यमदूती भयङ्करी । उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता ॥ १५२॥ चैतन्यरूपिणी नित्या नित्यक्लिन्ना मदोल्लसा । मदिरानन्दकैवल्या मदिराक्षी मदालसा ॥ १५३॥ सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धवन्दिता । सिद्धार्चिता सिद्धमाता सिद्धसर्वार्थसाधिका ॥ १५४॥ मनोन्मनी गुणातीता परञ्ज्योतिःस्वरूपिणी । परेशी पारगा पारा पारसिद्धिः परा गतिः ॥ १५५॥ विमला मोहिनीरूपा मधुपानपरायणा । वेदवेदाङ्गजननी सर्वशास्त्रविशारदा ॥ १५६॥ सर्ववेदमयी विद्या सर्वशास्त्रमयी तथा । सर्वज्ञानमयी देवी सर्वधर्ममयीश्वरी ॥ १५७॥ सर्वयज्ञमयी यज्वा सर्वमन्त्राधिकारिणी । त्रैलोक्याकर्षिणी देवी सर्वाद्यानन्दरूपिणी ॥ १५८॥ सर्वसम्पत्त्यधिष्ठात्री सर्वविद्राविणी परा । सर्वसङ्क्षोभिणी देवी सर्वमङ्गलकारिणी ॥ १५९॥ त्रैलोक्यरञ्जनी देवी सर्वस्तम्भनकारिणी । त्रैलोक्यजयिनी देवी सर्वोन्मादस्वरूपिणी ॥ १६०॥ सर्वसम्मोहिनी देवी सर्ववश्यङ्करी तथा । सर्वार्थसाधिनी देवी सर्वसम्पत्तिदायिनी ॥ १६१॥ सर्वकामप्रदा देवी सर्वमङ्गलकारिणी । सर्वसिद्धिप्रदा देवी सर्वदुःखविमोचिनी ॥ १६२॥ सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी । सर्वाङ्गसुन्दरी माता सर्वसौभाग्यदायिनी ॥ १६३॥ सर्वदा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा । सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ १६४॥ सर्वाधारा सर्वरूपा सर्वपापहरा तथा । सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥ १६५॥ सर्वलक्ष्मीमयी विद्या सर्वेप्सितफलप्रदा । सर्वदुःखप्रशमनी परमानन्ददायिनी ॥ १६६॥ त्रिकोणनिलया त्रीष्टा त्रिमता त्रितनुस्थिता । त्रैविद्या चैव त्रिस्मारा त्रैलोक्यत्रिपुरेश्वरी ॥ १६७॥ त्रिकोदरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका । त्रिधात्री त्रिदशा त्र्यक्षा त्रिघ्नी त्रिपुरवाहिनी ॥ १६८॥ त्रिपुराश्रीः स्वजननी बालात्रिपुरसुन्दरी । श्रीमत्त्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ॥ १६९॥ गुह्याद्गुह्यतरं पुत्र ! तव प्रीत्या प्रकीर्तितम् । गोपनीयं प्रयत्नेने पठनीयं प्रयत्नतः ॥ १७०॥ नातः परतरं पुण्यं नातः परतरं शुभम् । नातः परतरं स्तोत्रं नातः परतरा गतिः ॥ १७१॥ स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिस्सृतम् । यः पठेत्परया भक्त्या श‍ृणुयाद्वा समाहितः ॥ १७२॥ मोक्षार्थी लभते मोक्षं सुखार्थी सुखमाप्नुयात् । फलार्थी लभते कामान् धनार्थी लभते धनम् ॥ १७३॥ विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः । कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् ॥ १७४॥ गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम् । मूर्खेऽपि लभते शास्त्रं चौरोऽपि लभते गतिम् ॥ १७५॥ सक्रांन्तावमावास्यायामष्टम्यां भौमवासरे । पठेद्वा पाठयेद्वापि श‍ृणुयाद्वा समाहितः ॥ १७६॥ पौर्णमास्यां चतुर्दश्यां नवम्यां च विशेषतः । स मुक्तः सर्वपापेभ्यः कामेश्वरसमो भवेत् ॥ १७७॥ लक्ष्मीवान् सुतवांश्चैव वल्लभः सर्वयोषिताम् । तस्या वश्यं भवेद्दास्ये त्रैलोक्यं सचराचरम् ॥ १७८॥ रुद्रं दृष्ट्वा यथा देवा विष्णुं दृष्ट्वा च दानवाः । पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा मृगाः ॥ १७९॥ मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषको यथा । कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् ॥ १८०॥ अग्निचौरभयं तस्य कदाचिन्नैव सम्भवेत् । पातका विविधाः सन्ति मेरुमन्दरसन्निभाः ॥ १८१॥ भस्मसात्तत्क्षणं कुर्यात् तृणं वह्नियुतं यथा । एकधा पठनादेव सर्पपापक्षयो भवेत् ॥ १८२॥ दशधा पठनादेव वाञ्छासिद्धिः प्रजायते । नश्यन्ति सहसा रोगा दशधाऽऽवर्तनेन च ॥ १८३॥ सहस्रं वा पठेद्यस्तु खेचरो जायते नरः । सहस्रदशकं यस्तु पठेद्भक्तिपरायणः ॥ १८४॥ सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् । लक्षं पूर्णं यदा पुत्र ! स्तवराजं पठेत्सुधीः ॥ १८५॥ भवपाशविनिर्मुक्तो मम तुल्यो न संशयः । सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ १८६॥ सर्वदेवेषु यत्पुण्यं तत्फलं परिकिर्तितम् । तत्फलं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः ॥ १८७॥ श्रुत्वा महाबलश्चाशु पुत्रवान् सर्वसम्पदः । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १८८॥ अद्वैतयोगिभिर्ज्ञेयं मार्गगैरपि दुर्लभम् । स यास्यति न सन्देहः स्तवराजप्रकीर्तनात् ॥ १८९॥ यः सदा पठते भक्तो मुक्तिस्तस्य न संशयः ॥ १९०॥ इति श्रीवामकेश्वरतन्त्रान्तर्गतं श्रीबालासहस्रनामस्तोत्रं सम्पूर्णम् । There are some commanalities of names with the ShoDashIsahasranAmastotram.