अक्षर आकार:

श्रीबालासगुणमानसपूजा

Shri Bala Sagunamanasapuja

श्रीबालासगुणमानसपूजा

प्रबोधनं १०. उषसि मागधमङ्गगायनैः झटिति जागृहि जागृहि जागृहि । - (१०. ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं इत्यस्य सङ्केतः) - अतिकृपार्द्रकटाक्षनिरीक्षणैः जगदिदं जगदम्ब सुखीकुरु ॥ मण्डपप्रवेशः १०. कनकमयवितर्दिशोभमानं दिशिदिशि पूर्णसुवर्णकुम्भयुक्तम् । मणीमयमण्डपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय ॥ ---- पाद्यं १०. दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पायमेतदुररीकुरु मातः ॥ अर्घ्यं १०. गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सहरत्नैः अर्ध्यमेतदुररीकुरु मातः ॥ आचमनं १०. जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धमिश्रैः । अमृतैरमृतैरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥ मधुपर्कः १०. निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ स्नानं १०. एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोर्द्वर्तनं भक्त्याहं कलयामि हेमरजस सम्मिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥ एलोशीरसुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ वस्त्रधारणं केशप्रसाधनं च १०. बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भाक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १०. बहुभिरगरुधूपैः सादरं धूपयित्वा भागवति तव केशान्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चर्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ आभरणभूषणं १०. मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः काट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ गन्धकुङ्कुमाक्षतधारणं (१०) मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ (१०) रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ (१०) सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति । बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिः अन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ पुष्पालङ्करणं १०. मन्दाकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततमहं परिपूजयामि जातीजपावकुलचम्पककेतकादि - नानाविधानि कुसुमानि च तेऽर्पयामि ॥ मालतीवकुलहेमपुष्पिका काञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ पारिजातशतपत्रपाटलैर्मल्लिकावकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ धूपः १०. लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीकण्ठागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ दीपः १०. रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैः बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ निवेदनं १०. मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिका - सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ सापूपसूपदधिदुग्धसुधाघृतानि सुस्वादुभक्तपरमान्नपुरस्सराणि । शाकोल्लसन्मरिचजीरक बाह्लिकानि भाक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदुमुज्ज्वलं मधु । मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् । पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि । सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ कूश्माण्डकोशाटकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ ताम्बूलं १०. कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ गोधूमदीपाराधनं १०. सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ स्वर्णमन्त्रपुष्पाञ्जलिः १०. अथ बहुमणीमिश्रैः मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ इति श्रीबालासगुणमानसपूजा समाप्ता ।