अक्षर आकार:

श्रीबालारक्षास्तोत्रम्

Shri Bala Raksha Stotram

श्रीबालारक्षास्तोत्रम्

सर्वलोकैकजनके सर्वाभीष्टफलप्रदे । रक्ष मां क्षुद्रजालेभ्यः पातकेभ्यश्च सर्वदा ॥ १॥ जगद्धिते जगन्नेत्रि जगन्मातर्जगन्मये । जगद्दुरितजालेभ्यो रक्ष मामहितं हर ॥ २॥ वाङ्मनः कायकरणैर्जन्मान्तरशतार्जितम् । पापं नाशय देवेशि पाहि मां कृपयाऽनिशम् ॥ ३॥ जन्मान्तरसहस्रेषु यत्कृतं दुष्कृतं मया । तन्निवारय मां पाहि शरण्ये भक्तवत्सले ॥ ४॥ मया कृतान्यशेषाणि मदीयैश्च कृतानि च । पापानि नाशयस्वाद्य पाहि मां परदेवते ॥ ५॥ ज्ञानाज्ञानकृतैः पापैः साम्प्राप्तं दुरितं क्षणात् । निवारय जगन्मातरखिलैरनिवारितम् ॥ ६॥ असत्कार्यनिवृत्तिं च सत्कायस्य प्रवर्तनम् । देवतात्मानुसन्धानं देहि मे परमेश्वरि ॥ ७॥ सर्वावरणविद्यानां सन्धानेनानुचिन्तनम् । देशिकाङ्घ्रिस्मृतिं चैव देहि मे जगदीश्वरि ॥ ८॥ अनुस्यूतरपरब्रह्मानन्दामृतनिषेवणम् । अत्यन्तनिश्चलं चित्तं देहि मे जगदीश्वरि ॥ ९॥ अनुस्यूतरपरब्रह्मानन्दामृतनिषेवणम् । अत्यन्तनिश्चलं चित्तं देहि मे परमेश्वरि ॥ १०॥ सदाशिवाद्यैर्धात्र्यन्तैः देवताभिर्मुनीश्वरैः । उपासितं पदं यत्तद्देहि मे परमेश्वरि ॥ ११॥ इन्द्रादिभिरशेषैश्च देवैरसुरराक्षसैः । कृतं विघ्नं निवार्याशु कृपया रक्ष रक्ष माम् ॥ १२॥ आत्मानमात्मनः स्निग्धमाश्रितं परिचारकम् । द्रव्यदं बन्धुवर्गं च देवेशि परिरक्ष नः ॥ १३॥ उपासकस्य यो यो मे यथाशक्त्यनुकूलकृत् । सुहृदं रक्ष तं नित्यं द्विषन्तमनुकूलय ॥ १४॥ दैहिकादैहिकान्नानाहेतुकात्केवलद्भयात् । पाहि मां प्रणतापत्तिभञ्जने विश्वलोचने ॥ १५॥ नित्यानन्दमयं सौख्यं निर्मलं निरूपाधिकम् । देहि मे निश्चलां भक्तिं निखिलाभिष्टसिद्धिदे ॥ १६॥ यन्मया सकलोपायैः करणीयमितः परम् । तत्सर्वं बोधयस्वाम्ब सर्वलोकहिते रते ॥ १७॥ प्रदेहि बुद्धियोगं तं येन त्वामुपयाम्यहम् । कामानां हृद्यसंरोहं देहि मे कृपयेश्वरि ॥ १८॥ भवाब्धौ पतितं भीतमनाथं दीनमानसम् । उद्धृत्य कृपया देवि निधेहि चरणाम्बुजे ॥ १९॥ इति श्रीबालारक्षास्तोत्रं सम्पूर्णम् ।