अक्षर आकार:

श्रीबालापञ्चचामरस्तवः

Shri Bala Panchachamara Stava

श्रीबालापञ्चचामरस्तवः

गिरीन्द्रराजबालिकां दिनेशतुल्यरूपिकाम् । प्रवालजाप्यमालिकां भजामि दैत्यमर्दिकाम् ॥ १॥ निशेशमौलिधारिकां नृमुण्डपङ्क्तिशोभिकाम् । नवीनयौवनाख्यकां स्मरामि पापनाशिकाम् ॥ २॥ भवार्णवात्तु तारिकां भवेन सार्धखेलिकाम् । कुतर्ककर्मभञ्जिकां नमामि प्रौढरूपिकाम् ॥ ३॥ स्वरूपरूपकालिकां स्वयं स्वयम्भुस्वात्मिकाम् । खगेशराजदण्डिकां अईकरां सुबीजकाम् ॥ ४॥ श्मशानभूमिशायिकां विशालभीतिवारिणीम् । तुषारतुल्यवाचिकां सनिम्नतुङ्गनाभिकाम् ॥ ५॥ सुपट्टवस्त्रसाजिकां सुकिङ्किणीविराजिताम् । सुबुद्धिबुद्धिदायिकां सुरा सदा सुपीयकाम् ॥ ६॥ सक्लीं ससौः ससर्गकां सनातनेश चाम्बिकाम् । ससृष्टिपालनाशिकां प्रणौमि दीर्घकेशकाम् ॥ ७॥ सहस्रमार्गपालिका परापरात्मभव्यका । सुचारुचारुवक्त्रका शिवं ददातु भद्रिका ॥ ८॥ इत्येतत्परमं गुह्यं पञ्चचामरसंज्ञकम् । बालाग्रे यः पठति च तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ९॥ यं यं चिन्तयते कामं तं तं प्राप्नोति साधकः । सिद्धिः करतले तस्य मृते मोक्षमवाप्नुयात् ॥ १०॥ इति चन्द्रद्वीपावतारे श्रीबालापञ्चचामरस्तवः सम्पूर्णः ।