अक्षर आकार:

श्रीबालापञ्चाङ्गम्

Shri Bala Panchangam

श्रीबालापञ्चाङ्गम्

श्रीभैरव उवाच- अधुना देवि वक्ष्यामि रहस्यं स्तोत्ररूपकम् । येन साधक ईशानि साक्षात् श्रीभैरवायते ॥ १॥ अङ्गं त्रिपुरसुन्दर्याः पञ्चमाख्यां महेश्वरि । पञ्चमीरूपमानन्दरूपमानन्दवर्धनम् ॥ २॥ तत्त्वं श्रीत्रिपुरादेव्याः श्यामायाश्च रहस्यकम् । स्तोत्रराजः परादेव्याः परमानन्दकारणम् ॥ ३॥ स्तोत्रस्यास्य महादेवि ऋषिः प्रोक्तः सदाशिवः । पङ्क्तिश्छन्दः समाख्यातं देवता त्रिपुरा स्मृता ॥ ४॥ धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः । ध्यानम्- सूर्यकोटिसमानाभां चतुर्बाहुं त्रिलोचनाम् । रक्तपद्मसमासीनां रक्तवस्त्राद्यलङ्कृताम् ॥ पुस्तकं चाक्षमालां च वरं चाभयमेवच । दधतीं च हृदम्भोजे श्रीबालात्रिपुरां भजे ॥ वाग्भवं भवमहार्णवप्रोक्तं यो जपेन्मनसि मानवतीनाम् । कामेकेलिषु भवेत्स साधकः कामदेव इव वैरिबाधकः ॥ १॥ मदनं मदनाक्षरं जपेद्यो वदनाच्छादनबद्धमौनमुद्रः । स भावेद्भवसागरैकपोतो भवरूपो भुवनत्रयेश्वरः स्यात् ॥ २॥ शक्तिबीजमनघं सुधाकरं साधको यदि जपेत् हृदि भक्त्या । तस्य देववनिता चरणाब्जौ रञ्जयन्ति मुकुटैर्मणियुक्तैः ॥ ३॥ बिन्दुत्रिकोणवसुनागदलाढ्य वेद गेहान्विते परमयन्त्रवरे निषण्णाम् । ध्यायन्ति ये परिकरेण समन्वितां त्वां संप्राप्नुवन्ति तव देवि परं पदं तत् ॥ ४॥ इतीदं परमं गुह्यमङ्गभूतं हि पञ्चमम् । देवि त्रिपुरसुन्दर्याः श्रीबालायाः स्तवोत्तमम् ॥ ५॥ रहस्यमेतदखिलं न कस्य कथितं मया । तव भक्त्या मया ख्यातं न प्रकाश्यं महेश्वरि ॥ ६॥ इदं पञ्चाङ्गमनिशं बालायाः सारमुत्तमम् । गोप्यं गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ ७॥ इति श्रीरुद्रयामले श्रीबालापञ्चाङ्गं सम्पूर्णम् ।