अक्षर आकार:

श्रीबालापटलम्

Shri Bala Patalam

श्रीबालापटलम्

कैलासशिखरासीनं भगवन्तमुमापतिम् । चन्द्रार्धमुकुटं देवं सोमसूर्याग्निलोचनम् ॥ १॥ गजचर्मपरीधानं विरूपाक्षं सुरार्चितम् । गणगन्धर्वयक्षेन्द्रदेवासुरनमस्कृतम् ॥ २॥ विहसन्तं जपन्तं च पठन्तं च मुहुर्मुहुः । उत्थाय प्रणता भूत्वा चेदं पृच्छति भैरवी ॥ ३॥ श्रीभैरवी - भगवन् करुणाम्बोधे सर्वागमविशारद । त्वत्प्रसादान्मया सर्वाः श्रुता विद्याः सुरेश्वर ॥ ४॥ इदानीं श्रोतुमिच्छामि बालां त्रिपुरसुन्दरीम् । दयास्ति यदि मे देव वद विद्यां महेश्वर ॥ ५॥ श्रीभैरवः - श‍ृणु देवि ! प्रवक्ष्यामि पञ्चाङ्गं साधकेष्टदम् । पटलं पद्धतिं वर्म तथा नाम्नां सहस्रकम् ॥ ६॥ स्तवराजं महादेवि श‍ृणुष्वैकाग्रमानसा । श्रीबाला परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ ७॥ राज्यं देयं शिरो देयं गृहं लक्ष्मीयुतं तथा सर्वं देयं महादेवि न देयमिदमुत्तमम् ॥ ८॥ अस्या विद्यायाः सदृशी विद्या नान्या कलौ युगे । श्रीबालात्रिपुराविद्या शीघ्रं सिद्धिप्रदा स्मृता ॥ ९॥ देया शिष्याय शान्ताय गुरुभक्तिरताय च । नाभक्ताय प्रदातव्या विद्येयं परमेश्वरि ॥ १०॥ मन्त्रोद्धारं तथा यन्त्रं प्रस्तारं ध्यानमेव च । प्रयोगान् संप्रवक्ष्यामि देवदेव्या महेश्वरि ॥ ११॥ प्रथमं श‍ृणु देवेशि मन्त्रोद्धारं फलप्रदम् । गोपनीयं प्रयत्नेन येन सिद्धिः प्रजायते ॥ १२॥ वाग्भवं कामराजश्च शक्तिमध्येऽभिधं न्यसेत् । नमोऽन्ते देवि बालाया मन्त्रोऽयं चाष्टवर्णकः ॥ १३॥ नापि विघ्नो न वा शौचो न वारनियमस्तथा । स्वयं सिद्धो महादेवि मन्त्रराजः कलौ युगे ॥ १४॥ दक्षिणामूर्तिपङ्क्त्यौ च मुनिश्छन्दः क्रमात् स्मृतम् । देवता त्रिपुरा बाला आद्यन्ते बीजशक्तिके ॥ १५॥ क्लीं कीलकं समादिष्टं धर्मकामार्थमुक्तये । शिरसि वदने देवि हृदये गुह्यदेशके ॥ १६॥ पादयोर्नाभिकमले सर्वाङ्गे च तथा न्यसेत् । ऋष्यादिकं महादेवि कुर्यान्न्यासविकल्पनाम् ॥ १७॥ करन्यासं षडङ्गं च बीजैः कुर्यान्महेश्वरि । अस्या ध्यानं प्रवक्ष्यामि साधकानां हितप्रदम् ॥ १८॥ रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाऽभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ १९॥ इति ध्यात्वा महादेवीं जपेन्मत्रं सुसिद्धदम् । लक्षत्रयं पुरश्चर्याविधौ साधकसत्तमः ॥ २०॥ अथ वक्ष्यामि देवेशि यन्त्रोद्धारं सुदुर्लभम् । साधकस्य महादेव्या भुक्तिमुक्तिफलप्रदम् ॥ २१॥ बिन्दुत्रिकोणवसु(रस)कोणकनागपत्रवृत्तत्रयाञ्चितमहीसदनत्रयं च बालादिचक्रमिदमार्तिहरं गिरीशे ब्रह्मेन्द्रविष्णुनमितं गदितं मया ते ॥ एवं विलिखिते यन्त्रे पीठशक्तीः प्रपूजयेत् । इच्छाज्ञानक्रियाश्चैव कामिनी कामदायिनी ॥ २३॥ रती रतिप्रियानन्दा मनोन्मन्यपि चान्तिमा । पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ २४॥ व्योमपर्वततार्तीयं सदाशिवमहापदम् । पीठपद्मासनायान्ते नमोऽन्तः पीठमन्त्रकः ॥ २५॥ षोडशार्णस्ततो मूर्तौ क्लृप्तायां मूलमन्त्रतः । आवाह्य पूजयेद्देवीमुपचारैः पृथग्विधैः ॥ २६॥ देवीमिष्ट्वा मध्ययोनौ त्रिकोणे मतिपूर्वकम् । वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ २७॥ योन्यां तु वह्निकोणादावङ्गानि परिपूजयेत् । मध्ययोन्यां बहिः पूर्वदिक्षु चाग्रे स्मरानपि ॥ २८॥ बाणदेवीस्तद्वदेव शक्तीरष्टासु योनिषु । सुभगाख्या भगा पश्चात्तृतीया भगसर्पिणी ॥ २९॥ भगमाला तथानङ्गाद्यानङ्गकुसुमा परा । अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः ॥ ३०॥ पद्मकेसरगा ब्राह्मीमुखाः पत्रेषु भैरवाः । दलाग्रेऽप्यष्ट पीठानि कामरूपाख्यमादिमम् ॥ ३१॥ मलयं कौलगिर्याख्यं चौहाराख्यं कुलान्तकम् । जालन्धरं तथौड्याणं देवकूटमथाष्टमम् ॥ ३२॥ भूगृहे च धरादिक्षु हेरुकं त्रिपुरान्तकम् । वेतालमग्निजिह्वं च कालान्तककपालिनौ ॥ ३३॥ एकपादं भीमरूपं मलयं हाटकेश्वरम् । शक्राद्यानायुधैः सर्वैः स्वस्वदिक्षु समर्चयेत् ॥ ३४॥ तद्बहिर्दिक्षु वटुकं योगिनीः क्षेत्रपालकम् । गणेशं विदिशासु वै वसून् सूर्यं शिवं तथा ॥ ३५॥ (सर्वभूतान् समभ्यर्च्य पूजयेदायुधांस्तथा) । बालां मध्ये विभाव्यादौ कामेश्वराङ्कमध्यगाम् ॥ ३६॥ मकारैः पञ्चभिः कौलः कौलाचारपरायणः । सम्पूजयेन्महादेवि साधको मन्त्रसाधकः ॥ ३७॥ बिन्दौ गन्धाक्षतैः पुष्पैर्धूपदीपादितर्पणैः । लयाङ्गमिदमाख्यातं प्रयोगान् श‍ृणु पार्वति ॥ ३८॥ यान् विधाय मनुः शीघ्रं सिद्धिभाग्भवति ध्रुवम् । स्तम्भनं मोहनं चैव मारणाकर्षणे तथा ॥ ३९॥ वशीकारं तथोच्चाटं शान्तिकं पौष्टिकं तथा । एतत्साधनमाचक्षे सारभूतं मनोः प्रिये ॥ ४०॥ अदेयं देव्यभक्ताय गोप्यं गुह्यतमः पशोः । १. प्रतिपद्दिवसे देवि ! स्नात्वा कृत्वाह्निकीं क्रियाम् ॥ ४१॥ मध्याह्ने निर्जनं गत्वा यथावदयुतावधि । होमो दशांशतः कार्यो घृतपायसबर्हकैः ॥ ४२॥ सन्तर्प्य देवताः सद्यः स्तम्भनं जायते ध्रुवम् । राजसूर्येन्दुवातानां दस्युवादिमुखेषु च ॥ ४३॥ २. दर्शे सायं श्मशाने तु जपेदुलूकविष्टरः । अयुतं तद्दशांशेन होमं सर्पिस्सुरान्वितैः ॥ ४४॥ भूताख्ये वासरे देवि गत्वा प्रेतालयं निशि ॥ ४५॥ चिताग्रे सञ्जपेद्विद्यां वीरेन्द्रः षोडशाक्षरीम् । अयुतं च हुनेन्मन्त्री चिताग्नौ घृतगुग्गुलम् ॥ ४६॥ चण्डालकेशसहितं म्रियते रिपुरुत्कटः । ४. अष्टाम्यां शुक्लपक्षे तु जपेद्रहसि साधकः ॥ ४७॥ अयुतं मूलविद्याया ध्यात्वा कान्तां मनोगताम् । होमो दशांशतः सर्पिर्लाक्षापुष्पवतीरजः ॥ ४८॥ करीरपूलगोधूमैः स्त्रीणामाकर्षणं भवेत् । ५. नवम्यां साधकः स्नात्वा कृत्वा कर्माह्निकं प्रिये ॥ ४९॥ अयुतं घृतमत्स्याण्डपद्ममुक्तैणरोमभिः । होमो विधेयो वरीशैर्वासवो दासतां व्रजेत् ॥ ५०॥ ६. चतुर्थ्यां कृष्णपक्षे तु जपेच्चन्द्रोदये शिवे । नदीतीरे मनुं वीरोऽयुतं शीर्षासनस्थितः ॥ ५१॥ दशांशेन हुनेत्तत्र घृतनीलोत्पलत्वचः । लवङ्गमरिचाम्लादीन् रिपोरुच्चाटनं भवेत् ॥ ५२॥ ७. पञ्चम्यां निशि देवेशि जपेदयुतसङ्ख्यया । हुनेद्दशांशतः सर्पिर्मत्स्यमत्स्याण्डखर्परान् ॥ ५३॥ महामयमहाभीति-महोपद्रवशान्तये । ८. महाष्टम्यां नरः स्नात्वा पीठे श्रेष्ठे दशाधिकाम् ॥ ५४॥ वीरो दशाङ्कसाहस्रीं हुनेत्तत्र दशांशतः । घृतखर्जूरमृद्वीका -नाघवल्लीदलस्रजः ॥ ५५॥ छागमांसं सरक्तं च महापुष्टिः प्रजायते । इदं रहस्यमाख्यातं सर्वतत्त्वनिरूपणम् ॥ ५६॥ सर्वस्वं मम देवेशि रहस्यं गोपयेत्कलौ । सूर्यादिवारेषु जपैर्दशसाहस्रसङ्ख्यकैः ॥ ५७॥ सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा । इत्येष पटलो दिव्यः स्नेहात् तव प्रकाशितः । गोप्याद्गोप्यो गोप्यतरो गोपनीयः स्वयोनिवत् ॥ ५८॥ इति श्रीमद्रुद्रयामलान्तर्गतं श्रीबालापटलं सम्पूर्णम् ।