अक्षर आकार:

श्रीबालान्यासविधिः

Shri Bala Nyasavidhi

श्रीबालान्यासविधिः

अस्य श्रीबालान्यासमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः । देवी गायत्री छन्दः । श्रीबालापरमेश्वरी देवता । ऐं बीजं । क्लीं शक्तिः । सौः कीलकम् । श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थे जपे विनियोगः । मूलेन न्यासः । ध्यानं - शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी नित्यानन्दमयी निरञ्जनमयी सम्पन्मयी चिन्मयी । तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी सर्वैश्वर्यमयी सदाशिवमयी मां पहि बालाम्बिके ॥ लमित्यादि पञ्चपूजा । बालाम्बिकायै नमः (प्राच्यां) । कुमारिकायै नमः (दक्षिणस्यां) । ललिता पुत्र्यै नमः (पश्चिमायां) । शाम्भव्यै नमः (उत्तरस्याम्) । भण्डपुत्रदमन्यै नमः (आग्नेय्यां) । चिन्मय्यै नमः (नैरृत्यां) । ईशनन्दिन्यै नमः (वायव्यां) । देव्यै नमः (ऐशान्यां) । ब्रह्माण्डरूपिण्यै नमः (ऊर्ध्वायां) । सर्वरूपायै नमः (अधः) । ऐङ्कार्यै नमः (मूर्ध्नि) । क्लीङ्कायै नमः (फालमध्ये) सौः कार्यै नमः (वक्त्रे) । कामेश्यै नमः (कण्ठदेशे) । चतुर्भुजायै नमः (हृदयदेशे) । अभयप्रदायै नमः (वामे स्तने) । शक्त्यै नमः (दक्षिणस्तने) । सर्वाङ्गसुन्दर्यै नमः (कुक्षौ) । मणिनिभच्छायायै नमः (नाभौ) । पाटलप्रभायै नमः (जघने) । परमायै नमः (ऊरुद्वन्द्वे)। शिवयोगिन्यै नमः (जान्वोः) महामायायै नमः (जङ्घाद्वये) । परात्परायै नमः (पादद्वन्द्वे) । आत्मानन्द स्वरूपिण्यै नमः (हस्तयोः) । पञ्चब्रह्ममय्यै देव्यै नमः (पार्श्वयोः) । नारदादिभिरर्चितायै नमः (नेत्रायोः) । दुष्टप्रशमन्यै देव्यै नमः (पृष्ठे) । भुवनानन्दकारिण्यै अम्बायै नमः (नासाग्रे) । नवमाणिक्यशोभाढ्यायै नमः (कपोलयोः) । दशोर्ध्ववयसोपेतायै नमः (दन्तेषु) । श्रुत्यर्थफलदायिन्यै नमः (कर्णयोः) । ऐं शैलपुत्र्यै नमः (पादयोः) । क्लीं ब्रह्मचारिण्यै नमः (जान्वोः) । सौः ब्रह्मचारिण्यै नमः (कट्याम्) । सौः कूश्माण्डायै नमः (नाभौ) । क्लीं स्कन्दमात्रे नमः (कुक्षौ) । ऐं कात्यायिन्यै नमः । (हृदये) । ऐं कालरार्त्यै नमः (कण्ठे) । क्लीं महागौर्यै नमः (मुखे) । सौः सिद्धिप्रदायै नमः (ललाटे) । सौः बालापरमेश्वर्यै नमः (ब्रह्मरन्ध्रे) । क्लीं महालक्ष्म्यै नमः (दक्षिणपार्श्वे) । ऐं महासरस्वत्यै नमः (वामपाश्वे) । किरिट कुण्डलोपेतां कङ्कणाङ्गदधारिणीम् । पीतवस्त्रेण संयुक्तां ब्रह्मानन्दफलप्रदाम् ॥ ब्रह्मादि दैवतैः पूज्यां ब्रह्मानन्दविवर्धिनीम् । माणिक्य मकुटोपेतां अङ्गैरलङ्कृतां शुभाम् ॥ सर्वदेवैः परिवृतां सर्वसिद्धैर्निषेविताम् । सर्वमन्त्रफलोपेतां साम्राज्यफलदायिनीम् । रमावाणी समोपेतां राजराजार्चिताङ्घ्रिकाम् ॥ साक्षाद्ब्रह्ममयीं देवीं चिन्तये सर्वतो मम ॥ बालाध्यानं ईक्षे बालां परां शक्तिं ललितातनयां शिवाम् । कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ हृत्पुण्डरीकनिलयां पूगस्तनविराजिताम् । बालार्ककिरणोपेतां भालचन्द्रधरां शिवाम् ॥ अक्षमालापुस्तधरां वरदाभयशोभिताम् । सर्वाभरणशोभाढ्यां सर्वावयवसुन्दरीम् ॥ अनेककोटि ब्रह्माण्डपालिनीं सुरसेविताम् । फुल्लपङ्कजमध्यस्थां पूर्णानन्दवपुर्घराम् ॥ मातृकावर्णपीठस्थां मन्त्रकोटिस्वरूपिणीम् । गगनाकारसदृशां खगमध्वजसोदरीम् ॥ कामेश्वरस्य तनयां गानलोलां शुभाननाम् । ब्राह्मी माहेश्वरीमुख्यैः सेवितां सिद्धपूजिताम् । ध्यायामि तां परां शक्तिं बालां कामेश्वरीसुताम् ॥ इति श्रीबालान्यासविधिः समाप्ता ।