अक्षर आकार:

श्रीबाला नित्यपूजाविधानम्

Shri Bala Nitya Puja Vidhanam

श्रीबाला नित्यपूजाविधानम्

शुक्लाम्बरधरं ..... इत्यादि ..... शान्तये । (प्राणायम्य) ममोपात्तदुरतिक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुभे शोभने श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थं यथाशक्तिध्यानावाहनादिषोडशोपचारपूजां करिष्ये । तदङ्गं कलशपूजां करिष्ये । कलशस्य मुखे विष्णुः कण्ठे रुद्रस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्स्मृताः ॥ कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदस्सामवेदो ह्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः । आयान्तु बालापूजार्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने चैव गोदावरी सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ कलशोदकेन देवीं आत्मानं पूजाद्रव्याणि संप्रोक्ष्य - अथ ध्यानम्- ऐङ्कारासनगर्भितानलशिखां सौःक्लीं कला बिभ्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौताङ्गरङ्गोज्ज्वलाम् । वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां तां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥ श्रीबालात्रिपुरसुन्दर्यै नमः ध्यायामि श्रीबालात्रिपुरसुन्दरि अस्मिन् बिम्बे स्थिरा भाव । वरदा भव । सुमुखी भव । सुप्रसन्ना भव । सर्वमङ्गलमाङ्गल्ये ! भक्ताभीष्टप्रदायिनि ! । आवाहयामि देवि ! त्वां सुप्रीता भव सर्वदा ॥ श्रीबालात्रिपुरसुन्दरीं आवाहयामि । स्थापयामि । पूजयामि । बालाम्बिके ! महादेवि ! पूर्णचन्द्रनिभानने! । सिंहासनमिदं देवि ! गृहाण सुरवन्दिते ! । श्रीबालात्रिपुरसुन्दर्यै नमः । रत्नसिंहासनं समर्पयामि । सूर्यायुतनिभस्फूर्ते ! स्फुरद्रत्नविभूषिते । पाद्यं गृहाण देवेशि ! सर्वकल्याणकारिणि श्रीबालात्रिपुरसुन्दर्यै नमः । पादयोः पाद्यं समर्पयामि । सुवासितजलं रम्यं कस्तूरीपङ्कमिश्रितम् । गन्धपुष्पाक्षतैर्युक्तं अर्ध्यं दास्यामि सुन्दरि । श्रीबालात्रिपुरसुन्दर्यै नमः । मुखे आचमनीयं समर्पयामि । गङ्गाजलं मयानीतं महादेवशिरस्स्थितम् । शुद्धोदकस्नानमिदं गृहाण परमेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः शुद्धोदकस्नानं समर्पयामि । मध्वाज्यदधिसंयुक्तं शर्कराक्षीरमिश्रितम् । पञ्चामृतस्नानमिदं गृहाण परमेश्वरि । श्रीबालात्रिपुरसुन्दर्यै नमः पञ्चामृतस्नानं समर्पयामि । सुरार्चिताङ्घ्रियुगले ! दुकूलवसनप्रिये ! वस्त्रयुग्मं प्रदास्यामि गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः वस्त्रद्वयं समर्पयामि । स्वर्णतन्तु समुद्भूतं रक्तवर्णेन शोभितम् । भक्त्या दत्तं मया देवि ! कञ्चुकं परिगृह्यताम् । श्रीबालात्रिपुरसुन्दर्यै नमः वस्त्रद्वयं समर्पयामि । कर्पूरागरुकस्तूरीरोचनादिसुसंयुतम् । अष्टगन्धं प्रदस्यामि स्वीकुरुष्व शुभप्रदे ! श्रीबालात्रिपुरसुन्दर्यै नमः गन्धं समर्पयामि । शुद्धस्वर्णकृतं देवि ! माङ्गल्यं मङ्गलप्रदम् । सर्वमङ्गलमाङ्गल्यं गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः मङ्गलसूत्रं समर्पयामि । हरिद्रा शुभदा चैव स्त्रीणां सौभाग्यदायिनी । कुङ्कुमं च मया दत्तं गृहाण सुरवन्दिते ! श्रीबालात्रिपुरसुन्दर्यै नमः हरिद्राकुङ्कुमं समर्पयामि । मल्लिकाजातिकुसुमैश्चम्पकैर्वकुलैरपि । शतपत्रैश्च कल्हारैः पूजयामि वरप्रदे ! श्रीबालात्रिपुरसुन्दर्यै नमः पुष्पाणि समर्पयामि । दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् । धूपं दास्यामि देवेशि ! गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः धूपं समर्पयामि । आचमनीयं समर्पयामि । घृतवर्तिसमायुक्तं अन्धकारविनाशकम् । दीपं दास्यामि वरदे ! गृहाण मुदिता भव ॥ श्रीबालात्रिपुरसुन्दर्यै नमः दीपं दर्शयामि । आचयनीयं समर्पयामि । नैवेद्यं षड्रसोपेतं दधिमध्वाज्यसंयुतम् । नानाभाक्ष्यफलोपेतं गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः नैवेद्यं समर्पयामि । पूगीफलसमायुक्तं नानावल्ली दुलैर्युतम् । एलालवङ्ग संयुक्तं ताम्बूलं प्रतिगृह्यताम् । श्रीबालात्रिपुरसुन्दर्यै नमः ताम्बूलं समर्पयामि ॥ नीराजनं मयाऽऽनीतं कर्पूरेण समन्वितम् । तुभ्यं दास्याम्यहं देवि ! गृह्यतां त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः कर्पूरनीराजनं समर्पयामि । आचमनीयं समर्पयामि । वाग्देवि ! वरदे ! देवि ! चन्द्ररेखासमन्विते ! मन्त्रपुष्पमिदं भक्त्या स्वीकुरुष्व मयार्पितम् ॥ श्रीबालात्रिपुरसुन्दर्यै नमः मन्त्रपुष्पं समर्पयामि । यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष दयामयि ! श्रीबालात्रिपुरसुन्दर्यै नमः । प्रदक्षिणनमस्कारान् समर्पयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । छत्रं समर्पयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । चामरं वीजयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । दर्पणं समर्पयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । आन्दोलिकादि समस्त राजोपचारान् समर्पयामि । अनया पूजया भगवती सर्वात्मिका श्रीबालात्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु । इति श्रीबाला नित्यपूजाविधानं सम्पूर्णम् ।