अक्षर आकार:

श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम्

Shri Bala Nirguna Manasapuja Parabhavana Stotram

श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम्

ध्यायामि कथमिव त्वां धीवर्त्मविदूरदिव्यमहिमवतीम् । आवाहनं विभोस्ते देवेशि कथं कुतः स्थानात् ॥ १॥ कियदासनं प्रकल्प्यं कृतासनायाश्च सर्वतोऽपि शिवे । पाद्यं कुतोऽर्घ्यमपि वाऽऽपाद्यं सर्वत्रपाणिपादायाः ॥ २॥ आचमनं ते स्यादपि भगवति ननु सर्वतोमुखीनायाः । मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादायाः ॥ ३॥ स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धायाः । वस्त्रेणापि न कार्यं कार्पासीयेन हेमवस्त्रायाः ॥ ४॥ हैमैराभरणैर्वा चमत्कृतिः का हिरण्यवर्णायाः । रत्नाचलवासिन्याः चिन्तामणिगेहगायास्ते ॥ ५॥ गन्धवती हि तनुस्ते गन्धाः किं नेशि पौनरुक्त्याय । पुष्करफलदानोत्कां पुष्करकुसुमेन पूजये किं त्वाम् ॥ ६॥ शमधनमूलधनं त्वं सकलेश्वरी भवसि धूपिता केन । दीपः कथं शिखावान् दीप्येत पुरः स्वयम्प्रकाशायाः ॥ ७॥ अमृतात्मकं निवेदितमशनं किं नाम नित्यतृप्तायाः । त्वय्याम्रेडितमेतत्ताम्बूलं यदिह सुमुखरागायाः ॥ ८॥ उपहारीभूयादिदमुमेऽद्य यन्मे विचेष्टितमशेषम् । नीराजयामि विद्युन्निभां कथं वा चिदाभासाम् ॥ ९॥ पुष्पाञ्जलिः कुतस्ते मूलप्रकृतिस्वरूपायाः । छत्रं नभोऽतिगायाः चामरमप्यविदितश्रमायास्ते ॥ १०॥ नृत्यं प्रथतां कथमिव चित्रं भायान्महानटपुरन्घ्र्याः । गीतं किं कलभाषणजितवाणीमधुरवीणायाः ॥ ११॥ वाद्यं डमरुभृदीशे वादयितुं तव पुरोऽस्ति का शक्तिः । अपरिच्छिन्नायास्ते जगदीश्वरि कः प्रदक्षिणविधिर्वा ॥ १२॥ स्युस्ते नमांसि कथमिव शङ्करि परितोऽपि विद्यमानायाः । वाचामगोचरीं त्वां वाचः प्रसरैः प्रसादयेयं वा ॥ १३॥ कस्मै वच्मि दशां मे कस्येदुग्घृदयमस्ति शक्तिर्वा । कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ १४॥ याचे नाभिनवं ते चन्द्रापीडे मदम्ब किञ्चिदपि । मह्यं प्रदेहि भगवति मदीयमेव स्वरूपमानन्दम् ॥ १५॥ भगवति बालतया वाऽभक्त्या वाप्यापदाकुलितया वा । मोहाविष्टतया वा मास्तु च ते मनसि यद्दुरुक्तं मे ॥ १६॥ श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रं सम्पूर्णम् ।