अक्षर आकार:

श्रीबालानीराजनम्

Shri Bala Nirajanam

श्रीबालानीराजनम्

जय बाले त्रिपुरे जय बाले जय त्रिपुरे । द्वेधा विधृतशरीरे शिवशक्त्याकारे ॥ १॥ अरुणकिरणनिभासे बहुकृतविश्वासे । मौक्तिकशोभितनासे कमलमुकुलवासे ॥ २॥ निजशक्तिस्वविलासे दनुजकृतत्रासे । शशिवदनाधरहासे भक्तार्पितरासे ॥ ३॥ इन्दुविराजितभाले करधृतजपमाले । भक्तं रक्षसि बाले करपुस्तकजाले ॥ ४॥ इतराभशयशीले नाशितभवजाले । रत्नविभूषितमाले खलजनकृतकाले ॥ ५॥ मुकुलाभस्तनभारे कण्ठार्पितहारे । तारितभवाब्धिपारे श्रितमूलाधारे ॥ ६॥ कर्णीरथकृतचारे जयसि निराकारे । कामेश्यङ्काधारे भक्तहृदयसञ्चारे ॥ ७॥ आदौ वाग्भवबीजे मध्ये क्लीम्बीजे । अन्ते सुशक्तिबीजे क्रीडसि हृदि निर्बीजे ॥ ८॥ मञ्जीरध्वनिमण्डितमृदुतरशुभचरणे । रमतां मम चित्तमिदं तव पूजनकरणे ॥ ९॥ तव नीराजनकरणं भवसागरतरणम् । बाले भव मम शरणं । बाले भव शरणम् ॥ १०॥