अक्षर आकार:

श्रीबालामुक्तावलीस्तोत्रम्

Shri Bala Muktavali Stotram

श्रीबालामुक्तावलीस्तोत्रम्

बालार्ककोटिरुचिरां कोटिब्रह्माण्डभूषिताम् । कन्दर्पकोटिलावण्यां बालां वन्दे शिवप्रियाम् ॥ १॥ वह्निकोटिप्रभां सूक्ष्मां कोटिकोटिसहेलिनीम् । वरदां रक्तवर्णां च बालां वन्दे सनातनीम् ॥ २॥ ज्ञानरत्नाकरां भीमां परब्रह्मावतारिणीम् । पञ्चप्रेतासनगतां बालां वन्दे गुहाशयाम् ॥ ३॥ पराप्रासादमूर्ध्निस्थां पवित्रां पात्रधारिणीम् । पशुपाशच्छिदां तीक्ष्णां बालां वन्दे शिवासनाम् ॥ ४॥ गिरिजां गिरिमध्यस्थां गीः रूपां ज्ञानदायिनीम् । गुह्यतत्त्वपरां चाद्यां बालां वन्दे पुरातनिम् ॥ ५॥ बौद्धकोटिसुसौन्दर्यां चन्द्रकोटिसुशीतलाम् । आशावासां परां देवीं वन्दे बालां कपर्दिनीम् ॥ ६॥ सृष्टिस्थित्यन्तकारिणीं त्रिगुणात्मकरूपिणीम् । कालग्रसनसामर्थ्यां बालां वन्दे फलप्रदाम् ॥ ७॥ यज्ञनाशीं यज्ञदेहां यज्ञकर्मशुभप्रदाम् । जीवात्मविश्वजननीं बालां वन्दे परात्पराम् ॥ ८॥ इत्येतत्परमं गुह्यं नाम्ना मुक्तावलीस्तवम् । ये पठन्ति महेशानि फलं वक्तुं न शक्यते ॥ ९॥ गुह्याद्गुह्यतरं गुह्यं महागुह्यं वरानने । विद्यार्थी लभते विद्यां धनार्थी मोक्षमाप्नुयात् ॥ १०॥ कन्यार्थी लभते कन्यां मोक्षार्थी मोक्षमाप्नुयात् । बहुनात्र किमुक्तेन चिन्तामणिरिवापरम् ॥ ११॥ गोपनीयं प्रयत्नेन गोपनीयं न संशयः । अन्येभ्यो नैव दातव्यं किमन्यच्छ्रोतुमिच्छसि ॥ १२॥ इति श्रीविष्णुयामले श्रीबालामुक्तावलीस्तोत्रं सम्पूर्णम् ।