श्रीबालामन्त्रकवचस्तोत्रम्
आधारे तरुणार्कबिम्बरुचिरं हेमप्रभाभास्वरं
बीजं मान्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थिताम् ।
रन्ध्रे ब्रह्मपदं च शाक्तमपरं हेमप्रभाभास्वरं
ये ध्यायन्ति पदद्वयं तव शिवे ते यान्ति शैवं पदम् ॥
(एवं ध्यात्वा जपेद्वर्म सर्वकर्मसमृद्धये ।)
ऐङ्कारी मे शिरः पातु क्लीं कारी हृदयं मम ।
सौः पातु पादयुग्मं मे सर्वाङ्गं सकलाऽवतु ॥ १॥
वाग्देवी मे शिरः पातु फालं पातु कुमारिका ।
भ्रूयुग्मं शाङ्करी पातु श्रुतियुग्मं गिरीश्वरी ॥ २॥
नेत्रे त्रिनेत्रवरदा नासिकां मे महेश्वरी ।
ओष्ठौ मे सुभगा पातु चुबुकं नववार्षिका ॥ ३॥
कपोले कमनीयाऽव्यात्कण्ठे कामार्चिताऽवतु ।
बाहू पातु वराभीतिधारिणी संप्रदायिनी ॥ ४॥
वक्षस्त्रिकं च पद्माक्षी कुचौ काञ्चीनिवासिनी ।
उदरं सुन्दरी पातु नाभिं नागेन्द्रवन्दिता ॥ ५॥
पार्श्वे पाशवहा पातु पृष्ठं पापविनाशिनी ।
कटीं कर्पूरहृद्देशी (विद्येशी) जघनं ललिताम्बिका ॥ ६॥
मेढ्रं महेशरमणी पातु मां फाललोचना ।
जानुनी जयदा पातु गुह्यं विद्याप्रदायिनी ॥ ७॥
पादौ निशार्चिता पातु प्रपदं त्रिपुरेश्वरी ।
सर्वाङ्गं सर्वदा पातु बाला त्रिपुरसुन्दरी ॥ ८॥
वित्तं वित्तेश्वरी पातु पशून्पशुपतिप्रिया ।
पुत्रान् पुत्रप्रदा पातु दानधर्मप्रदायिनी ॥ ९॥
क्षेत्रं क्षेत्रेशवनिता गेहं गम्भीरनादिनी ।
पातु धर्ममयी सर्वं शर्वसर्वेश्वरी रमा ॥ १०॥
इत्येतत्कवचं पुण्यं सर्वपाप्रणाशनम् ।
सर्वसौभाग्यजनकं सर्वरोगनिबर्हणम् ॥ ११॥
(विषज्वरहरं भूतवेतालादिनबर्हणम् ।
अपस्मारगदाशूलनेत्ररोगादिनाशनम् ॥ १२॥
पठ्यमानं तु सततं बहुदुःखापहं नृणाम् ।
जपेत्कुमारीकवचं त्रिकालेषु त्रिमासकम् ॥ १३॥
मुच्यते सकलाद्रोगात् कञ्चुकादिव पन्नगः ।
पठेद्यः प्रयतो वर्षं कुमारी तस्य सिद्धिदा ॥ १४॥
गङ्गातरङ्गविलसच्छीकराक्तमुखाम्बुजा ।
निष्कलङ्का प्रसन्नास्या सुधासिन्धुसमुज्ज्वला ॥ १५॥
अनेकमन्त्रराजोऽयमशेषं यो जपेन्नरः ।
तस्य संरक्षणं मन्त्रं वर्षमात्रस्य संशयः ॥ १६॥
प्रातःकाले तु सलिलं ब्राह्मणः प्रयतः शुचिः ।
मन्त्रं जपन् त्रिरावृत्त्या वर्मसिद्धो भवेन्नरः ॥ १७॥
अस्य मन्त्रप्रभावेन व्याख्याता स भवेद्ध्रुवम् ।
यद्दुस्साध्यतमं कार्यं तत्तु साध्यं भवेज्जपात् ॥ १८॥
तत्तस्तोत्रेण लभते नात्र कार्या विचारणा ।
करस्थं काञ्चनं कृत्वा कवचं स महान्भावेत् ॥ १९॥
बहुनाऽत्र किमुक्तेन सर्वकार्येषु सर्वदा ।
यद्यदर्थे प्रयत्नः स्यात्तत्तदर्थमिदं जपेत्) ॥ २०॥
इति श्रीबालामन्त्रकवचस्तोत्रं सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):