अक्षर आकार:

श्रीबालामन्त्रगर्भाष्टकम्

Shri Bala Mantragarbha Ashtakam

श्रीबालामन्त्रगर्भाष्टकम्

ऐङ्काररूपिणीं सत्यां ऐङ्काराक्षरमालिनीम् । ऐम्बीजरूपिणीं देवीं बालादेवीं नमाम्यहम् ॥ १॥ वाग्भवां वारुणीपीतां वाचासिद्धिप्रदां शिवाम् । बलिप्रियां वरालाढ्यां वन्दे बालां शुभप्रदाम् ॥ २॥ लाक्षारसनिभां त्र्यक्षां ललज्जिह्वां भवप्रियाम् । लम्बकेशीं लोकधात्रीं बालां द्रव्यप्रदां भजे ॥ ३॥ यैकारस्थां यज्ञरूपां यूं रूपां मन्त्ररूपिणीम् । युधिष्ठिरां महाबालां नमामि परमार्थदाम् ॥ ४॥ नमस्तेऽस्तु महाबालां नमस्ते शङ्करप्रियाम् । नमस्तेऽस्तु गुणातीतां नमस्तेऽस्तु नमो नमः ॥ ५॥ महामनीं मन्त्ररूपां मोक्षदां मुक्तकेशिनीम् । मांसांशीं चन्द्रमौलिं च स्मरामि सततं शिवाम् ॥ ६॥ स्वयम्भुवां स्वधर्मस्थां स्वात्मबोधप्रकाशिकाम् । स्वर्णाभरणदीप्ताङ्गं बालां ज्ञानप्रदां भजे ॥ ७॥ हा हा हा शब्दनिरतां हास्यां हास्यप्रियां विभुम् । हुङ्काराद्दैत्यखण्डाख्यां श्रीबालां प्रणमाम्यहम् ॥ ८॥ इत्यष्टकं महापुण्यं बालायाः सिद्धिदायकम् । ये पठन्ति सदा भक्त्या गच्छन्ति परमां गतिम् ॥ ९॥ इति कुलचूडामणितन्त्रे श्रीबालामन्त्रगर्भाष्टकं सम्पूर्णम् ।