अक्षर आकार:

श्रीबालामकरन्दस्तवः

Shri Bala Makaranda Stava

श्रीबालामकरन्दस्तवः

श्रीरुद्र उवाच- श‍ृणु देवि प्रवक्ष्यामि मकरन्दस्तवं शुभम् । गोप्याद्गोप्यतरं गोप्यं महाकौतूहलं परम् ॥ १॥ बालायाः परमेशान्याः स्तोत्रचूडामणिः शिवे । मकरन्दस्य स्तोत्रस्य ऋषिर्नारदसंज्ञकः ॥ २॥ छन्दोऽनुष्टुपुदाख्यातं श्रीबाला देवता स्मृता । ऐं बीजं शक्तिः सौः प्रोक्तं कीलकं क्लीं तथैव च ॥ ३॥ भोगमोक्षस्य सिद्ध्यर्थे विनियोगः प्रकीर्तितः । नमस्तेऽस्तु परां शक्तिं नमस्ते भक्तवत्सले ॥ ४॥ नमस्तेऽस्तु गुणातीतां बालां सिद्धिप्रदाम्बिकाम् । भवदुःखाब्धितरणीं परं निर्वाणदायिनीम् ॥ ५॥ धनदां ज्ञानदां सत्यां श्रीबालां प्रणमाम्यहम् । सिद्धिप्रदां ज्ञानरूपां चतुर्वर्गफलप्रदाम् ॥ ६॥ आधिव्याधिहरां वन्दे श्रीबालां परमेश्वरीम् । ऐङ्काररूपिणीं भद्रां क्लीङ्कारगुणसम्भवाम् ॥ ७॥ सौःकाररूपरूपेशीं बालां बालार्कसन्निभाम् । ऊर्ध्वाम्नायेश्वरीं देवीं रक्तां रक्तविलेपनाम् ॥ ८॥ रक्तवस्त्रधरां सौम्यां श्रीबालां प्रणमाम्यहम् । राजराजेश्वरीं देवीं रजोगुणात्मिकां भजे ॥ ९॥ ब्रह्मविद्यां महामायां त्रिगुणात्मकरूपिणीम् । पञ्चप्रेतासनस्थां च पञ्चमाकारभक्षकाम् ॥ १०॥ पञ्चभूतात्मिकां चैव नमस्ते करुणामयीम् । सर्वदुःखहरां दिव्यां सर्वसौख्यप्रदायिनीम् ॥ ११॥ सिद्धिदां मोक्षदां भद्रां श्रीबालां भावयाम्यहम् । नमस्तस्यै महादेव्यै देवदेवेश्वरि परे ॥ १२॥ सर्वोपद्रवनाशिन्यै बालायै सततं नमः । गुह्याद्गुह्यतरां गुप्तां गुह्येशीं देवपूजिताम् ॥ १३॥ हरमौलिस्थितां देवीं बालां वाक्सिद्धिदां शिवाम् । व्रणहां सोमतिलकां सोमपानरतां पराम् ॥ १४॥ सोमसूर्याग्निनेत्रां च वन्देऽहं हरवल्लभाम् । अचिन्त्याकाररूपाख्यां ओङ्काराक्षरूपिणीम् ॥ १५॥ त्रिकालसन्ध्यारूपाख्यां भजामि भक्ततारिणीम् । कीर्तिदां योगदां रादां सौख्यनिर्वाणदां तथा ॥ १६॥ मन्त्रसिद्धिप्रदामीडे सृष्टिस्थित्यन्तकारिणीम् । नमस्तुभ्यं जगद्धात्रि जगत्तारिणि चाम्बिके ॥ १७॥ सर्ववृद्धिप्रदे देवि श्रीविद्यायै नमोऽस्तु ते । दयारूप्यै नमस्तेऽस्तु कृपारूप्यै नमोऽस्तु ते ॥ १८॥ शान्तिरूप्यै नमस्तेऽस्तु धर्मरूप्यै नमो नमः । पूर्णब्रह्मस्वरूपिण्यै नमस्तेऽस्तु नमो नमः ॥ १९॥ ज्ञानार्णवायै सर्वायै नमस्तेऽस्तु नमो नमः । पूतात्मायै परात्मायै महात्मायै नमो नमः ॥ २०॥ आधारकुण्डलीदेव्यै भूयो भूयो नमाम्यहम् । षट्चक्रभेदिनी पूर्णा षडाम्नायेश्वरी परा ॥ २१॥ परापरात्मिका सिद्धा श्रीबाला श्ररणं मम । इदं श्रीमकरन्दाख्यं स्तोत्रं सर्वागमोक्तकम् ॥ २२॥ स्तोत्रराजमिदं देवि धारय त्वं कुलेश्वरि । पुण्यं यशस्यमायुष्यं देवानामपि दुर्लभम् । पाठमात्रेण देवेशि सर्वारिष्टं विनश्यति ॥ २३॥ इति रुद्रयामलतः श्रीबालामकरन्दस्तवः सम्पूर्णः ।