अक्षर आकार:

श्रीबालामानसपूजा

Shri Bala Manasa Puja

श्रीबालामानसपूजा

उद्यद्भानुसहस्रकान्तिमरुणक्षौमाम्बरालङ्कृतां गन्धालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्दधतीं त्रिणेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ॥ १॥ एणधराश्मकृतोन्नतधिष्ण्यं हेमविनिर्मितपादमनोज्ञम् । शोणशिलाफलकं च विशालं देवि सुखासनमद्य ददामि ॥ २॥ ईशमनोहररूपविलासे शीतलचन्दनकुङ्कुममिश्रम् । हृद्यसुवर्णघटे परिपूर्णं पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३॥ लब्धभवत्करुणोऽहमिदानीं रक्तसुमाक्षतयुक्तमनर्घम् । रुक्मविनिर्मितपात्रविशेषेष्वर्ध्यमिदं त्रिपुरेशि गृहाण ॥ ४॥ ह्रीमिति मन्त्रजपेन सुगम्ये हेमलतोज्ज्वलदिव्यशरीरे । योगिमनःसमशीतजलेन ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५॥ हस्तलसत्कटकादि सुभूषाः आदरतोऽम्ब वरोप्य निधाय । चन्दनवासितमन्त्रिततोयैः स्नानमयि त्रिपुरेशि विधेहि ॥ ६॥ सञ्चितमम्ब मया ह्यतिमूल्यं कुङ्कुमशोणमतीव मृदु त्वम् । शङ्करतुङ्गतराङ्कनिवासे वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७॥ कन्दलदंशुकिरीटमनर्घं कङ्कणकुण्डलनूपुरहारम् । अङ्गदमङ्गुलिभूषणमम्ब स्वीकुरु देवि पुराधिनिवासे ॥ ८॥ हस्तलसद्वरभीतिहमुद्रे शस्ततरं मृगनाभिसमेतम् । सद्धनसारसुकुङ्कुममिश्रं चन्दनपङ्कमिदं च गृहाण ॥ ९॥ लब्धविकासकदम्बकजाती चम्पकपङ्कजकेतकयुक्तैः । पुष्यचयैर्मनसामुचितैस्त्वां अम्ब पुरेशि भवानि भजामि ॥ १०॥ ह्रीम्पदशोभिमहामनुरूपे धूरसि मन्त्रवरेण मनोज्ञम् । अष्टसुगन्धरजःकृतमाद्ये धूपमिमं त्रिपुरेशि ददामि ॥ ११॥ सन्तमसापहमुज्ज्वलपात्रे गव्यघृतैः परिवर्धितदेहम् । चम्पककुड्मलवृन्तसमानं दीपगणं त्रिपुरेऽद्य गृहाण ॥ १२॥ कल्पितमद्य धियाऽमृतकल्पं दुग्धसितायुतमन्नविशेषम् । माषविनिर्मितपूपसहस्रं स्वीकुरु देवि निवेदनमाद्ये ॥ १३॥ लङ्घितकेतकवर्णविशेषैः शोधितकोमलनागदलैश्च । मौक्तिकचूर्णयुतैः क्रमुकाद्यैः पूर्णतराम्ब पुरस्तव पात्री ॥ १४॥ ह्रीन्त्रयपूरितमन्त्रविशेषं पञ्चदशीमपि षोडशरूपम् । सञ्चितपापहरं च जपित्वा मन्त्रसुमाञ्जलिमम्ब ददामि ॥ १५॥ श्रीं पदपूर्णमहामनुरूपे श्रीशिवकाममहेश्वरहृद्ये । श्रीगुहवन्दितपादपयोजे बालवपुर्धरदेवि नमस्ते ॥ १६॥ इति श्रीबालामानसपूजा (२) सम्पाता ।