अक्षर आकार:

श्रीबालाकवचम् २

Shri Bala Kavacham 2

श्रीबालाकवचम् २

श्रीपार्वत्युवाच- देवदेव महादेव शङ्कर प्राणवल्लभ । कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ॥ १॥ श्रीमहेश्वर उवाच- श्रीबालाकवचं देवि महाप्राणाधिकं परम् । वक्ष्यामि सावधाना त्वं श‍ृणुष्वावहिता प्रिये ॥ २॥ अरुणकिरणजालैः रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकह्लारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥ ३॥ (ऐं) वाग्भवः पातु शीर्षे (क्लीं) कामराजस्तथा हृदि । सौः शक्तिबीजं मां पातु नाभौ गुह्ये च पादयोः ॥ ४॥ ऐं क्लीं सौः वदने पातु बाला मां सर्वसिद्धये । हसकलह्रीं सौः पातु स्कन्धे भैरवी कण्ठदेशतः ॥ ५॥ सुन्दरी नाभिदेशेऽव्याच्चर्चे कामकला सदा । भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ ६॥ ललाटे सुभगा पातु भगा मां कण्ठदेशतः । भगोदया तु हृदये उदरे भगसर्पिणी ॥ ७॥ भगमाला नाभिदेशे लिङ्गे पातु मनोभवा । गुह्ये पातु महावीरा राजराजेश्वरी शिवा ॥ ८॥ चैतन्यरूपिणी पातु पादयोर्जगदम्बिका । नारायणी सर्वगात्रे सर्वकार्यशुभङ्करी ॥ ९॥ ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा । पश्चिमे पातु वाराही ह्युत्तरे तु महेश्वरी ॥ १०॥ आग्नेय्यां पातु कौमारी महालक्ष्मीश्च नैरृते । वायव्ये पातु चामुण्डा चेन्द्राणी पातु चेशके ॥ ११॥ जले पातु महामाया पृथिव्यां सर्वमङ्गला । स्क्ल्रीं मां सर्वतः पातु सकलह्रीं पातु सन्धिषु ॥ १२॥ जले स्थले तथाऽऽकाशे दिक्षु राजगृहे तथा । क्षूं क्षें मां त्वरिता पातु सह्रीं सक्लीं मनोभवा ॥ १३॥ हंसः पायान्महादेवी परं निष्कलदेवता । विजया मङ्गला दूती कल्याणी भगमालिनी । जलामालिनिनित्या च सर्वदा पातु मां शिवा ॥ १४॥ इत्येतत्कवचं देवि बालादेव्याः प्रकीर्तितम् । सर्वस्वं मे तव प्रीत्या प्राणवद्रक्षितं कुरु ॥ १५॥ (श्रीरुद्रयामले) (१. आकाशे पातु वरदा सर्वतो भुवनेश्वरी ॥ १॥ इदं तु कवचं नाम देवानामपि दुर्लभम् । पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ २॥ नामयो व्याधपस्तस्य न भयं च क्वचिद्भवेत् । न च मारीभयं तस्य पातकानां भयं तथा ॥ ३॥ गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥ ४॥ यदिदं कवचं ज्ञात्वा श्रीबालां यो जपेच्छिवे । स प्राप्नोति फलं सर्वं शिवसायुज्यसम्भवम् ॥ ५॥ इति पाठः) इति श्रीबालाकवचं (२) सम्पूर्णम् ।