अक्षर आकार:

श्रीबालाकवचम् १

Shri Bala Kavacham 1

श्रीबालाकवचम् १

वाग्भवः पातु शिरसि कामराजः सदा हृदि । शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १॥ ऐं क्लीं सीः वदने पातु बाला सर्वार्थसिद्धये । जिह्वां पातु महाहंसी स्कन्धदेशे तु भैरवी ॥ २॥ सुन्दरी नाभिदेशं तु शिरसि कमला सदा । भ्रुवौ नासाद्वयं पातु महात्रिपुरसुन्दरी ॥ ३॥ ललाटे सुभगा पातु कण्ठदेशे तु मालिनी । वाग्भवं पातु हृदये उदरे भगसर्पिणी ॥ ४॥ भगमालिनी नाभिदेशे लिङ्गे पातु मनोभवा । गुह्ये पातु महादेवी राजराजेश्वरी शिवा ॥ ५॥ चैतन्यरूपिणी पातु पादयोर्जगदम्बिका । नारायणी सर्वगात्रे सर्वकाले शिवङ्करी ॥ ६॥ ब्रह्माणी पातु मां पूर्वे दक्षिणे पातु वैष्णवी । पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ ७॥ आग्नेय्यां पातु कौमारी महालक्ष्मीस्तु नैरृते । वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥ ८॥ आकाशे च महामाया पृथिव्यां सर्वमङ्गला । आत्मानं पातु वरदा सर्वाङ्गे भुवनेश्वरी ॥ ९॥ इति सिद्धयामलान्तर्गतं श्रीबालाकवचं सम्पूर्णम् ।