अक्षर आकार:

श्रीबालाकर्पूरस्तोत्रम्

Shri Bala Karpura Stotram

श्रीबालाकर्पूरस्तोत्रम्

कर्पूराभेन्दुगौरां शशिसकलधरां रक्तपद्मासनस्थां विद्यापात्राक्षमुद्राधृतकरकमलां त्वां स्मरन्सन् त्रिलक्षम् । जप्त्वा चन्द्रार्धभूषं सुरुचिरमधरं बीजमाद्यं तवेदं हुत्वा पञ्चात्पलाशैः स भवति कविराड् देवि बाले महेशि ॥ १॥ हस्ताब्जैः पात्रपाशाङ्कुशकुसुमधनुर्बीजपूरां दधानां रक्तां त्वां संस्मरन्सन् प्रजपति मनुजो यस्त्रिलक्षं भवानि । वामाक्षी चन्द्रसंस्थं क्षितिसहितविधिं कामबीजं तवेदं चन्द्रैर्हुत्वा दशांशं स नयति सकलान् वश्यतां सर्वदैव ॥ २॥ विद्याक्षज्ञानमुद्राऽमृतकलशधरां त्वां मनोज्ञां किशोरीं स्मेरां ध्यायंस्त्रिनेत्रां शशधरधवलां यो जपेद्वै त्रिलक्षम् । जीवं सङ्कर्षणाढ्यं तव सुरनमिते सर्गयुक्तं सुबीजं हुत्वाऽन्ते मालतीभिर्भवति स ललिते श्रीयुतो भोगवांश्च ॥ ३॥ ध्यायंस्त्वां पुस्तक्लाक्षाभयवरदकरां लोहिताभां कुमारीं कश्चिद्यः साधकेन्द्रो जपति कुलविधौ प्रत्यहं षट्सहस्रम् । मातर्वाङ्मारशक्तिप्रयुतमनुमिमं त्र्यक्षरं त्रैपुरं ते भुक्त्वा भोगाननेकान् जननि स लभतेऽवश्यमेवाष्टसिद्धीः ॥ ४॥ आरक्तां कान्तदोर्भ्यां मणिचषकमथो रत्नपद्मं दधानां वाङ्मायाश्रीयुतान्यं मनुमयि ललिते तत्त्वलक्षं जपेद्यः । ध्यायन् रूपं त्वदीयं तदनु च हवनं पायसान्नैः प्रकुर्याद्- योगीशस्तत्त्ववेत्ता परशिवमहिले भूतले जायते सः ॥ ५॥ वाणी चेटी रमा वाग्भवमथ मदनः शक्तिबीजं च षड्भिः एतैश्चन्द्रार्धचूडे भवति तव महामन्त्रराजः षडर्णः । जप्त्वैनं साधको यः स्मरहरदयिते भक्तितस्त्वामुपास्ते विद्यैश्वर्याणि भुक्त्वा तदनु स लभते दिव्यसायुज्यमुक्तिम् ॥ ६॥ महाबिन्दुः शुद्धो जननि नवयोन्यन्तरगतो भवेदेतद्बाह्ये वसुछदनपद्मं सुरुचिरम् । ततो वेदद्वारं भवति तव यन्त्रं गिरिसुते तदस्मिन् त्वां ध्यायेत् कहरिहररुद्रेश्वरपदाम् ॥ ७॥ नवीनादित्याभां त्रिनयनयुतां स्मेरवदनां महाक्षस्रग्विद्याऽभयवरकरां रक्तवसनाम् । किशोरीं त्वां ध्यायन्निजहृदयपद्मे परशिवे जपेन्मोक्षाप्त्यर्थं तदनु जुहुयात् किंशुकसुमैः ॥ ८॥ हृदम्भोजे ध्यायन् कनकसदृशामिन्दुमुकुटां त्रिनेत्रां स्मेरास्यां कमलमधुलुङ्गाङ्कितकराम् । जपेद्दिग्लक्षं यस्तव मनुमयो देवि जुहुयात् सुपक्वैर्मालूरैरतुलधनवान् स प्रभवति ॥ ९॥ स्मरेद्धस्तैर्वेदाभयवरसुधाकुम्भधरिणीं स्रवन्तीं पीयूषं धवलवसनामिन्दुशकलाम् । सुविद्याप्त्यै मन्त्रं तव हरनुते लक्षनवकं जपेत्त्वां कर्पूरैरगरु सहितैरेव जुहुयात् ॥ १०॥ सहस्रारे ध्यायन् शशधरनिभां शुभ्रवसनां अकारादिक्षान्तावयवयुतरूपां शशिधराम् । जपेद्भक्त्या मन्त्रं तव रससहस्रं प्रतिदिनं तथारोग्याप्त्यर्थं भगवति गुडूच्यैः प्रजुहुयात् ॥ ११॥ कुलज्ञः कश्चिद्यो यजति कुलपुष्पैः कुलविधौ कुलागारे ध्यायन् कुलजननि ते मन्मथकलाम् । षडर्णं पूर्वोक्तं जपति कुलमन्त्रं तव शिवे स जीवन्मुक्तः स्यादकुलकुलपङ्केरुहगते ॥ १२॥ शिवे मद्यैर्मांसेश्चणकवटकैर्मीनसहितैः प्रकुर्वंश्चक्रार्चां सुकुलभगलिङ्गामृतरसैः । बलिं शङ्कामोहादिकपशुगणान्यो विदधति त्रिकालज्ञो ज्ञानी स भवति महाभैरवसमः ॥ १३॥ मनोवाचागम्यामकुलकुलगम्यां परशिवां स्तवीमि त्वां मातः कथमहमहो देवि जडधीः । तथापि त्वद्भक्तिर्मुखरयति मां तद्विरचितं स्तवं क्षन्तव्यं मे त्रिपुरललिते दोषमधुना ॥ १४॥ अनुष्ठानध्यानार्चामनु समुद्धारणयुतं शिवे ते कर्पूरस्तवमिति पठेदर्चनपरः । स योगी भोगी स्यात् स हि निखिलशास्त्रेषु निपुणः यमोऽन्यो वैरीणां विलसति सदा कल्पतरुवत् ॥ १५॥ बालां बालदिवाकरद्युतिनिभां पद्मासने संस्थितां पञ्चप्रेतमयाम्बुजासनगतां वाग्वादिनीरूपिणीम् । चन्द्रार्कानलभूषितत्रिनयनां चन्द्रावतंसान्वितां विद्याक्षाभयधारिणीं वरकरां वन्दे परामम्बिकाम् ॥ १६॥ इति श्रीपरातन्त्रान्तर्गतं श्रीबालाकर्पूरस्तोत्रं सम्पूर्णम् ।