अक्षर आकार:

श्रीबाला लघुहोमः

Shri Bala Homa short

श्रीबाला लघुहोमः

सङ्कल्पः - श्रीपरमेश्वरप्रीत्यर्थं श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थं श्रीबाला होमकर्म करिष्ये । (अप उपस्पृश्य) कलशं गन्धपुष्पाक्षतैरभ्यर्च्य पूजां कृत्वा । वं इति २१ वारं अभिमन्त्र्य धेनुमुद्रया अमृतीकृत्य । तेनात्मानं अग्निकुण्डं पूजाहोमद्रव्याणि च प्रोक्ष्य । आत्मनो दक्षिणे भागे पीठे (कलशे मुर्तौ यन्त्रे वा) देवीं बालां स्थापयेत् । आत्मनः पुरतः चतुरश्रस्थण्डिलं (होमकुण्डं) मूलेन निरीक्ष्य । फट् इति प्रोक्ष्य । कुशेन ताडायित्वा । कुशं नैरृत्यां परिहृत्य । स्थण्डिलोपरि प्रागग्राः तिस्रो रेखाः दक्षिणे वामे मध्ये च क्रमेण विलिख्य । तदुपरि उदगग्राः पश्चिमे मध्ये पूर्वत्र च क्रमेण विलिख्य । अद्भिरवोक्ष्य अप उपस्पृशेत् । भूर्भुवस्सुवरों इति अग्निं प्रतिष्ठाप्य । प्राक् तोयं निधाय । अग्निमिध्वा । प्रज्वालयेत् । प्रागग्रैः उदगग्रैश्च दर्भैः अग्निं परिस्तीर्य । प्रागादि दक्षिणानुत्तरान् उत्तरानधरान् कृत्वा । उत्तरेणाग्निं दर्भान् संस्तीर्य । तेषु द्वन्द्वं न्यञ्ज्य दर्वीं आज्यस्थालीं प्रोक्षणीं इतरदर्वीं च निदध्यात् । समौ अप्रच्छिन्नाग्रौ प्रादेशमात्रौ दर्भै पवित्रे कृत्वा अद्भिरनुमृज्य सपवित्रेण पाणिना पात्राणि संस्पृश्य । प्रोक्षणीपात्रमादाय । अपरेणाग्निं निधाय । सपवित्रे तस्मिन् अक्षतैः सह अपः आसिच्य । प्राचीः त्रिरुत्पूय । पात्राण्युत्तानानि कृत्वा । सपवित्रेण पाणिना सर्वाभिः अद्भिः त्रिः प्रोक्ष्य प्रोक्षणीपात्रं दक्षिणतो निदध्यात् । आज्यं विलाप्य । अपरेणाघ्निं पवित्रान्तर्हितायां आज्यस्थाल्यां आज्यं निरूप्य । उदीचोऽङ्गारान् निरुह्य । तेष्वाज्यमधिश्रित्य । ज्वलता तृणेन अवद्योत्य । द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य । त्रिः पर्यग्निः कृत्वा उदगुद्वास्य । अङ्गारन् प्रत्यूह्य अग्नेः पश्चात् दर्भेषु आज्यस्थलीं निधाय । उदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पवित्रग्रान्थिं विस्रस्य । अप उपस्पृश्य । प्रागग्रमग्नौ प्रहरेत् । दर्वीं इतरदर्वीं च अग्नौ प्रतितप्य । दर्भैः सम्मृश्य प्रोक्ष्य । निधाय । दर्भान् । अद्भिः संस्पृश्य अग्नौ प्रहरेत् । अग्निं परिषिञ्चति - अदितेऽनुमन्यस्व । (दक्षिणतः प्राचीनं) अनुमतेऽनुमन्यस्व । (पश्चात् उदीचीनं) सरस्वतेऽनुमन्यस्व । (उत्तरतः प्राचीनं) देवसवितःप्रसुव । (समन्तात्) अग्निं ध्यायेत् - चत्वारि श‍ृङ्गास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश । एष हि देवः प्रदिशो नु सर्वाः पुर्वो हि जातः स उ गर्भे अन्तः । स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतो मुखः । प्राङ्मुखो देव । हे अग्ने! ममाभिमुखो भव । इति प्रार्थयेत् । होमकुण्डं गन्धपुष्पाक्षतैः अलङ्कृत्य (दिक्षु) - इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । (मध्ये) अग्नये नमः । (आत्मनि) आत्मने नमः । इत्यम्भ्यर्च्य । (इतरदर्व्या जुहोति - वायव्या आग्नेय्यन्तं) स्वाहा । प्रजापतय इदं । न मम । (प्रधानदर्व्या जुहोति - नैरृत्या ऐशान्यन्तं) स्वाहा । इन्द्रायेदं । न मम । (उत्तरार्ध पुर्वार्धे) सोमाय स्वाहा । सोमाय इदं । न मम । (मध्ये) अग्नये स्वाहा । अग्नय इदं । न मम । आरम्भप्रभृति एतत्क्षणपर्यन्तं मध्ये सम्भावितसमस्त- दोषप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामि । ॐ भूर्भुवस्सुवस् स्वाहा । प्रजापतय इदं न मम । श्रीबाला मन्त्रं यथोपदेशं ऋषि - छन्दो - देवता - बीज - शक्ति - कीलक - विनियोग - कर - हृदयादिन्यासदिग्बन्धान् कृत्वा अरुणकिरण इत्यादि कल्याणशीला इति त्रिरावृत्तमूलमन्त्रेण च ध्यात्वा लमित्यादि पूजाः कृत्वा इत्यादि अस्मिन् कुम्भे (मूर्तौ) अग्नौ च देवीं बालां सपरिवारां आवाहयामि । (उभयत्र । पृथक्पृथग्वा प्राणान् प्रतिष्ठापयेत् ।) ॐ आं ह्रीं क्रों यं रं वं शं षं सं हं ॐ (यरवल शषसहों) हंसः सोऽहं सोऽहं हंसः श्रीबालायाः प्राण इह प्राणः । जीव इह स्थितः । सर्वेन्द्रियाणि वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राण प्राणापानव्यानोदानसमानाः इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा सान्निध्यं कुर्वन्तु स्वाहा । असुनी ते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृलया नः स्वस्ति । आं ह्रीं क्रों । क्रों ह्रीं आं (इति ४० वारं जस्वा) श्रीबाला प्राणशक्त्यै नमः । (इति धूपं दीपं घृतमधुनिवेदनं च कुर्यात् ।) इतः परं ॐ ऐं हीं श्रीं ऐं क्लीं सौः । इति बीजानां इति ७ संज्ञा ।) ७. श्रीबालायै नमः । आवाहिता भव । सन्निहिता भव । सन्निरुद्धा भव । अवकुन्ठिता भव । देवि प्रसीद प्रसीद । देवि सर्वजगन्नाथे यारद्धोमावसानकम् । तावत्त्वं प्रीतिभावेन बिम्बे (कलशे) अग्नौ च सन्निधिं कुरु ॥ इति प्रार्थयेत् । ततः अग्नौ कुम्भे (बिम्बे) च युगपत् पृथक्पृथग्वा आसनादि उपचारान् समर्पयेत् । ७ श्रीबालायै नमः आसनं समर्पयामि । ७ श्रीबालायै पादयोः पाद्यं समर्पयामि । ७ श्रीबालायै हस्तयोरर्ध्यं समर्पयामि । ७ श्रीबालायै आचमनीयं समर्पयामि । ७ श्रीबालायै स्नानं समर्पयामि । स्नानानन्तरं आचमनीयं समर्पयामि । ७ श्रीबालायै वस्त्राणि धारयामि । आचमनीयं समर्पयामि । ७ श्रीबालायै उपवीतं समर्पयामि । ७ श्रीबालायै आभरणानि समर्पयामि । ७ श्री बालायै गन्धान् धारयामि । गन्धोपरि हरिद्राकुङ्कुमं समर्पयामि । ७ श्रीबालायै अक्षतान् समर्पयामि । ७ श्रीबालां पुष्पैः पूजयामि (अष्टोत्तरशतनामभिः) ७ श्रीबालायै धूपं आघ्रापयामि । ७ श्रीबालायै दीपं दर्शयामि । आचमनीयं समर्पयामि । ७ श्रीबालायै नारिकेलं कदलीफलं महानैवेद्यं समर्पयामि । ७ श्रीबालायै अचमनीयं समर्पयामि । ७ श्रीबालायै ताम्बूलं समर्पयामि । ७ श्रीबालायै कर्पूरनीराजनं समर्पयामि । ७ श्रीबालायै प्रदक्षिणनमस्कारान् समर्पयामि । ७ श्रीबालायै मन्त्रपुष्पं समर्पयामि । प्रणवत्रितारीयुक्तेन मूलमन्त्रेण स्वाहान्तेन (ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः स्वाहा इति । ॐ ऐं ह्रीं श्रीं । ऐं क्लीं सौः । सौः क्लीं ऐं स्वाहा इति वा यथोपदेशं) आज्येन द्वादशवारं । कदली-दाडिम-आम्र-पायस -गुडान्न-शर्करान्नादिभिः मध्वाज्य्तगुडक्षीराक्तैः यथाकामं १२-२१-१०८ वारं जुहयात् । सत्यवकाशे आवरणदेवताश्च जुहुयात् । ॐ ऐं ह्रीं श्रीं इन्द्राय स्वाहा ..... ऐं ह्रीं श्रीं विजयायै स्वाहा इति आवरणपूजोक्तक्रमेण जुहुयात् । अन्ते आज्येन ७ वारं जुहुयात् । पूर्णाहुतिद्रव्यं प्रणवात्रतारीयुक्तेन मूलमन्त्रेण ४० वारं श्रीसूक्तेन चाभिमन्त्र्य पूर्णाहुतिं जुहुयात् । कुम्भेऽग्नौ पुनः पूजा आसनादिमन्त्रपुष्पान्ता । शर्कराद्यन्नानि भक्ष्याणि फलानि यथाकामं श्रीबालायै निवेदयेत् । अथ । ॐ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बाभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् । स्वाहा । प्रजापतय इदं । न मम । ॐ भूः स्वाहा अग्नय इदं । न मम । ॐ भुवः स्वाहा । वायव इदं न मम । ॐ सुवः स्वाहा । सूर्ययेदं । न मम । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु स्वाहा । अग्नये स्विष्टकृते इदं न मम । ॐ भूर्भुवस्सुवः स्वाहा । प्रजापतय इदं न मम । (प्राणानायम्य) अस्मिन् कर्मणि अविज्ञात प्रायश्चित्तादीनि करिष्ये । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् । स्वाहा । अग्नय इदं न मम । पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् । स्वाहा । अग्नय इदं न मम । यत्पाकत्रा मनसा दीनदक्षा न । यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन् । यजिष्ठो देवान् ऋतुशो यजाति । स्वाहा । अग्नय इदं न मम । ॐ भूः स्वाहा । अग्नय इदं न मम । ॐ भुवः स्वाहा । वायव इदं । न मम । ॐ सुवः स्वाहा । सूर्यायेदं । न मम । अस्मिन् होमकर्माणि मध्ये सम्भावित समस्तमन्त्रलोप तन्त्रलोपद्रव्यलोपादि समस्तदोषप्रायश्चित्तार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि । ॐ भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदं न मम । ॐ श्री विष्णवे स्वाहा । विष्णवे परमात्मने इदं न मम । ॐ नमो रुद्राय पशुपतये स्वाहा । रुद्राय पशुपतय इदं न मम । (अप उपस्पृश्य) शिष्टमाज्यं मूलेन त्रिरावृत्तेन ``सप्त ते अग्ने समधिः सप्त जिह्वाः सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्राः सप्त धात्वा यजन्ति । सप्तयोनीरापृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदन्न मम । (आज्यपात्रं उत्तरतो निदध्यात् ।) अदितेऽन्वमंस्थाः । (इति दक्षिणतः प्राचीनं परिषिञ्चति) अनुमतेऽन्वमंस्थाः ॥ (इति पश्चात् उदीचीनं) सरस्वतेऽन्वमंस्थाः । (इति उत्तरतः प्राचीनं) देवसवितः प्रासावीः । (इति समन्तात्) हृदयादिन्यास दिग्वन्ध - ध्यानं - लमित्यादि पूजा पुरःसरं १०८ वारं मूलमन्त्रं जपेत् । मूलेन १२ वारं जप्तेन क्षीरेण अग्निं तर्पयेत् । श्रीबालां तर्पयामि इति । श्रीबालापार्षदाभ्यो नमः इति बलिं दत्वा । अस्मात्कुम्भात् अग्नेश्च श्रीबालां यथास्थानं प्रतिष्ठापयामि इति तां हृदयं नयेत् । अग्निं उपतिष्ठते - अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम । अग्नये नमः । मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन । यद्धुतं तु मया देव परिपूर्णं तदस्तु ते ॥ प्रायश्चित्तान्यशेपाणि तपः कर्मात्मकानि वै । यानि तेषामशेषाणां श्रीकृष्णस्मरणं परम् ॥ श्रीकृष्ण कृष्ण कृष्ण । कायेन वाचा इत्यादि समर्पयामि । अनेन होमेन भगवती सर्वात्मिका श्रीबाला प्रीयताम् । ॐ तत्सत् । ब्रह्मार्पणमस्तु । कुम्भजलेन यजमानस्याभिषेकः । प्रोक्षणं वा । मूर्त्यादीनां यथास्थानं निवेशः । इति श्रीबाला लघुहोमः सम्पूर्णः ।