अक्षर आकार:

श्रीबालागीतम्

Shri Bala Gitam

श्रीबालागीतम्

(मुत्तुस्वामिदीक्षित कृतम् ।) (कल्याणी रागे - मिश्रचापुताले) भज रे रे चित्त बालाम्बिकां भक्तकल्पलतिकां - भज रे अनुः - निजरूपदानदक्षचरणामरुणां नित्यां कल्याणीं शर्वाणीं - भज रे चरणं - श्रीमद्वाग्भवकूटचतुर्वेदस्वरूपिणीं श‍ृङ्गारकामराजोद्भवसकलविश्वव्यापिनीं देवीं शक्तिबीजोद्भवमातृकार्णशरीरिणीं देवनुतभवरोगहरवैद्यपतिहृदयविहारिणीं भावरागतालमोदिनीं भक्ताभीष्टप्रदायिनीं सेवकजनपालन गुरुगुहरूपमुत्तुकुमारजननीं - भज रे इति श्रीमुत्तुस्वामिदीक्षितकृतम् बालागीतं सम्पूर्णम् ।