अक्षर आकार:

श्रीबालागायत्री

Shri Bala Gayatri

श्रीबालागायत्री

बालाशक्त्यै च विद्महे त्र्यक्षर्यै च धीमहि । तन्नः शक्तिः प्रचोदयात् । चतुर्विंशति सहस्रजपः । अपामार्गेण लाजेन आज्येन च होमः । तद्दशांशः, क्षीरेण तर्पणं तद्दशांशं, ब्राह्मणभोजनं तद्दशांशम् । वन्ध्यायाः पुत्रोत्पत्तिः, कुक्षिरोगनिवृत्तिः, शत्रुनाशः, राजवशीकरणं च फलम् । ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि । तत्रः शक्तिः प्रचोदयात् । (अर्धरात्रे) ऐं त्रिपुरादेव्यै च विद्महे वागीश्वर्यै च धीमहि । तन्नो मुक्तिः प्रचोदयात् । इति श्रीबालागायत्री समाप्ता ।