अक्षर आकार:

श्रीबाला दुःस्वप्ननाशककवचम् ४

Shri Bala Duhsvapnanashaka Kavacham 4

श्रीबाला दुःस्वप्ननाशककवचम् ४

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॥ १॥ पुर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे । मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥ २॥ ऊर्ध्वं पातु महादेवी श्रीबाला त्रिपुरेश्वरी । अधस्तात् पातु देवेशी पातालतलवासिनी ॥ ३॥ आधारे वाग्भवः पातु कामराजस्तथा हृदि । महाविद्या भगवती पातु मां परमेश्वरी ॥ ४॥ ऐं लं ललाटे मां पायात् ह्रौं ह्रीं हंसश्च नेत्रयोः । नासिकाकर्णयोः पातु ह्रीं ह्रैं तु चिबुके तथा ॥ ५॥ सौः पातु मे हृदि गले ह्रीं ह्रः नाभिदेशके । सौः क्लीं श्रीं गुह्यदेशे तु ऐं ह्रीं पातु च पादयोः ॥ ६॥ ह्रीं क्लीं मां सर्वतः पातु सौः पायात् पदसन्धिषु । जले स्थले तथा कोशे देवराजगृहे तथा ॥ ७॥ क्षें क्षें मां त्वरिता पातु मां चक्री सौः मनोभवा । हंसौः पायान्महादेवी परं निष्कलदेवता ॥ ८॥ विजया मङ्गला दूती कल्पा मां भगमालिनी । ज्वालामालिनी नित्या सर्वदा पातु मां शिवा ॥ ९॥ इतीदं कवचं देवि देवानामपि दुर्लभम् । तव प्रीत्या समाख्यातं गोपनीयं प्रयत्नतः ॥ १०॥ इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये । धन्यं प्रशस्यमायुष्यं भोगमोक्षप्रदं शिवम् ॥ ११॥ इति श्रीबाला दुःस्वप्ननाशककवचं (४) सम्पूर्णम् ।