अक्षर आकार:

श्रीबालाध्यानम्

shrIbAlAdhyAnam

श्रीबालाध्यानम्

रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ पाशाङ्कुशौ पुस्तकमक्षसूत्रं करैर्दधाना सकलामरार्च्या । रक्ता त्रिनेत्रा शशिशेखरेयं ध्येयाऽखिलर्द्ध्यै त्रिपुराऽत्र बाला ॥ मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् । पद्मासनगतां बालां लक्ष्मीप्राप्त्यै विचिन्तये ॥ वरपीयूषकलशपुस्तकाभीतिधारिणीम् । सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥ शुक्लाम्बरां शशाङ्काभां रोगनाशे भजे शिवाम् । सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् । प्रसन्नामरुणां वन्दे वशीकरणसिद्धिदाम् ॥ वाग्बीजमूर्तिध्यानम् - विद्याक्षमालाशुकपालमुद्राराजत्करां कुन्दसमानकान्तिम् । मुक्ताफलालङ्कृतिशोभिताङ्गीं बालां भजे वाङ्मयसिद्धिहेतोः ॥ कामबीजमूर्तिध्यानम् - भजे कल्पवृक्षाध उद्दीप्तरत्नासने सन्निषण्णां मदाघूर्णिताक्षीम् । करैर्बीजपूरं कपालेषुचापं सपाशाङ्कुशं रक्तवर्णां दधानाम् ॥ शक्तिबीजमूर्तिध्यानम् - व्याख्यानमुद्रामृतकुम्भविद्यामक्षस्रजं सन्दधतीं कराग्रैः । चिद्रूपिणीं शारदचन्द्रकान्तिं बालां भजे मौक्तिकभूषिताङ्गीम् ॥ इति श्रीबालाध्यानम् ॥