अक्षर आकार:

श्रीबालादेविप्रार्थना

Shri Bala Devi Prarthana

श्रीबालादेविप्रार्थना

देवि प्रसीद । देवि! यातं वयः । कालो जरादूतः प्रतीक्षते । अनुध्यायन् कर्म कृतं उदीक्षे जन्मसन्ततिम् ॥ १॥ जन्मन्यस्मिन्मत्पितरौ बन्धवो गुरुसत्तमाः । त्वदन्ति विद्याविनयशीलाढ्यं मामुपानयन् ॥ २॥ स्मरामि सर्वदा देवि तानव्याजकृपार्द्रितान् । एतज्जन्म कृतार्थं मे लब्धात्त्वत्पादसेवनात् ॥ ३॥ देहो वाणी मनो धीश्च कृतार्था मम भाग्यतः । विधेहि जीवितस्यान्ते त्वल्लग्ना वासनाः शुभाः ॥ ४॥ प्रसीद तत्त्वत्कृपया स्थिरत्वत्पदचिन्तनः । प्रसन्नधीरसम्मोहो नयेयं क्षणमन्तिमम् ॥ ५॥ लभेय जन्म यत्किञ्चित् यस्मिन्यायां त्वदन्तिकम् । विन्देय तादृशांस्तान्वा देशिकान्मद्धिते रतान् ॥ ६॥ इति श्रीबालादेविप्रार्थना समाप्ता ।