अक्षर आकार:

श्रीबालादलम्

Shri Bala Dalam

श्रीबालादलम्

ॐ नमो भगवति बालापरमेश्वरि रविशशिवह्निविद्युत्कोटिनिभाकारे, हारनूपुरकिरीटकुण्डलहेमसूत्रमुक्तादामभूषितसर्वगात्रे, पीयूषवरप्रिये, ऋग्यजुस्सामादि निगमकोटिभिः संस्तूयमानचरणारविन्दद्वयशोभिते, किन्नरचारणयक्षविद्याधरसाध्यकिम्पुरुषादि परिवृतमहेन्द्रमुखत्रिदशसङ्घैः संसेव्यमाने, षट्कोट्यप्सरसां नृत्तसन्तोषिते, अणिमाद्यष्टसिद्धिभिः पूजितपादाम्बुजद्वये, खड्गकपालत्रिशूलभिण्डिपालशक्तिचक्रकुन्तगदापरिघचापबाणपाशवह्नि- क्षेपणिकादिव्यायुधैः शोभिते, दुष्टदानवगर्व शोषिणि, एकाहिक-द्व्याहिक-चातुर्थिकसांवत्सरिकादि सर्वज्वरभयविच्छेदिनि, राजचोराग्निजलविषभूतकृत्यानानाविधज्वरस्फोटकादिनानारूपेभ्यो नानाभिचारेभ्यो नानापवादेभ्यः परकर्ममन्त्रतन्त्रशल्यशून्यक्षुद्रादिभ्यः संरक्षिणि, सकलदुरितसंहारकारिणि, सर्वमङ्गलदयासंवर्षिणि, ललितोत्सङ्गनिवासिनि, महामाये श्रीपरमेश्वरि ममाभयं देहि देहि दापय स्वाहा ॥ इति श्रीबालादलं सम्पूर्णम् ।