अक्षर आकार:

श्रीबालाभुजङ्गस्तोत्रम्

Shri Bala Bhujanga Stotram

श्रीबालाभुजङ्गस्तोत्रम्

श्रीनीललोहित उवाच- जगद्योनिरूपां सुवेशीं च रक्तां गुणातीतसंज्ञां महागुह्यगुह्याम् । महासर्पभूषां भवेशादिपूज्यां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ १॥ महास्वर्णवर्णां शिवपृष्ठसंस्थां महामुण्डमालां गले शोभमानाम् । महाचर्मवस्त्रां महाशङ्खःहस्तां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ २॥ सदा सुप्रसन्नां भृतासूक्ष्मसूक्ष्मां वराभीतिहस्तां धृतावक्षपुस्ताम् । महाकिन्नरेशीं भगाकारविद्यां महाट्युग्रबालां भजेऽहं हि नित्याम् ॥ ३॥ तिनीं तीकिनीनां रवां किङ्किःणीनां हहाहा हहाहा महालापशब्दाम् । तथैथै तथैथै महानृत्यनृत्यां महाट्युग्रबालां भजेऽहं हि नित्याम् ॥ ४॥ ननाना रिरीरी महागीश शम्बू हुहूवू हुहूवू पशो रक्तपानाम् । धिमिन्धीं धिमिन्धीं मृदङ्गस्य शब्दां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ५॥ महाचक्रसंस्थां त्रिमात्रास्वरूपां शिवार्धाङ्गभूतां महापुष्पमालाम् । महादुःखहर्त्रीं महाप्रेतसंस्थां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ६॥ स्फुरत्पद्मवक्त्रां हिमांशोः कलापां महाकोमलाङ्गीं सुरेशेन मान्याम् । जगत्पालनैकाग्रचित्तां सुपुष्टां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ७॥ महादैत्यनाशीं सुरान्नित्यपालीं महाबुद्धिराशिं कवीनां मुखस्थाम् । जटीनां हृदिस्थां मनूनां शिरःस्थां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ८॥ भुजङ्गाख्यं महास्तोत्रं त्रिषु लोकेषु दुर्लभम् । महासिद्धिप्रदं दिव्यं चतुर्वर्गफलप्रदम् ॥ ९॥ सर्वक्रतुफलं भद्रे सर्वव्रतफलं तथा । सर्वदानोद्भवं पुण्यं लभते नात्र संशयः ॥ १०॥ विवादे कलहे घोरे महादुःखे पराजये । ग्रहदोषे महारोगे पठेत्स्तोत्रं विचक्षणः ॥ ११॥ सर्वदोषा विनश्यन्ति लभते वाञ्छितं फलम् । दूतीयागे पठेद्देवि सर्वशत्रुक्षयो भवत् ॥ १२॥ महाचक्रे पठेद्देवि लभते परमं पदम् । पूजान्ते पठते भक्त्या महाबलिफलप्रदम् ॥ १३॥ पितृगेहे तुर्यपथे शून्यागारे शिवालये । बिल्वमूले चैकवृक्षे रतौ मधुसमागमे ॥ १४॥ पठेत्स्तोत्रं महेशानि जीवन्मुक्तस्स उच्यते । त्रिकालं पठते नित्यं देवीपुत्रत्वमाप्नुयात् ॥ १५॥ इति श्रीकालानलतन्त्रतः श्रीबालाभुजङ्गस्तोत्रं सम्पूर्णम् ।