अक्षर आकार:

श्रीबालाबाह्यपूजाविधिः

Shri Bala Bahyapuja Vidhi

श्रीबालाबाह्यपूजाविधिः

आत्मपूजा मूलेन प्राणायामः । कुण्डलिणीं ध्यात्वा ब्रह्मरन्ध्रे शिवशक्तिसंयोगं कुर्यात् । पीठपूजा - ४ महामण्डूकाय नमः । कालाग्निरुद्राय नमः । मूलप्रकृत्यै नमः । आधारशक्त्यै नमः । आदिकूर्माय नमः । अनन्ताय नमः । आदिवराहाय नमः । पृथिव्यै नमः । सुधार्णवाय नमः । रत्नद्वीपाय नमः । नन्दनोद्यानाय नमः । कल्पकवृक्षेभ्यो नमः । प्रभायै नमः । मायायै नमः । दुर्गायै नमः । रत्नद्वीपाय नमः (repetition) । चिन्तामणिगृहाय नमः । नवरत्नप्राकाराय नमः । ह्रीं ज्ञानतत्त्वात्मने नमः । ह्रीं मायातत्त्वात्मने नमः । ह्रीं विद्यातत्त्वात्मने नमः । कामकोटिपीठाय नमः । जालन्धरपीठाय नमः । ओड्याणपीठाय नमः । यं रं लं वं शं षं सं हं ळं अष्टादशपीठेभ्यो नमः । तमसे नमः । रजसे नमः । सत्त्वाय नमः । माणिक्यमण्डपाय नमः । सहस्रस्तम्भमण्डपाय नमः । अमृतवापिकायै नमः । आनन्दवापिकायै नमः । विमर्शवापिकायै नमः । बालातपोद्गाराय नमः । चन्द्रिकोद्गाराय नमः । महाश‍ृङ्गारपरिखायै नमः । महापद्माटव्यै नमः । प्रकृतिमयपत्रेभ्यो नमः । विकृतिमयकेसरेभ्यो नमः । चिन्तामणिगृहान्तरालाय नमः । पुर्वाम्नायाय नमः । पूर्वद्वाराय नमः । दक्षिणाम्नायाय नमः । दक्षिणद्वाराय नमः । पश्चिमाम्नायाय नमः । षश्चिमद्वाराय नमः । उत्तराम्नायाय नमः । उत्तरद्वाराय नमः । रत्नद्वीपवलयाय नमः । मणिमयमहासिंहासनाय नमः । ब्रह्ममयैकमञ्चपादाय नमः । विष्णुमयैकमञ्चपादाय नमः । रुद्रमयैकमञ्चपादाय नमः । ईश्वरमयैकमञ्चपादाय नमः । सदाशिवमञ्जफलकाय नमः । हंसतूलतल्पाय नमः । हंसतूलमहोपधानाय नमः । कौसुम्भास्तरणाय नमः । महामायायवनिकायै नमः । कामेश्वराङ्कमध्यस्थकामेश्वर्यङ्काय नमः ।) आसनं १० कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय ॥ पाद्यं १० दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ अर्घ्यं १० गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्र निहितं सह रत्नैः अर्ध्यमेतदुररीकुरु मातः ॥ आचमनं १० जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धमिश्रैः । अमृतैरमृतैरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥ मधुपर्कः १० निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ स्नानं १० दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥ एलोशीरसुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकैः माणीक्यामलमौक्तिकामृतरसैः स्वच्छारिः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ (गणपत्यथर्वशीर्ष श्रीरुद्र दुर्गा पुरुष श्रीसूक्तादिभिः अभिषिञ्चेत् ।) स्नानानन्तरं आचमनीयं समर्पयामि । वस्त्रधारणम् - केशप्रसाधनं च । १० बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १० बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चर्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ आभरणभूषणं (१०) मञ्जीरे पायोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनदधे शीर्षे च चूडामणिम् ॥ गन्धकुङ्कुमाक्षतधारणं (१०) मातः फालतले तावतिविमले काश्मीरकस्तूरिका कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ (१०) रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ (१०) सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति । बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिः अन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ पुष्पालङ्करणं १० मन्दारकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततमहं परिपूजयामि । जातीजपावकुलचम्पककेतकादि - नानाविधानि कुसुमानि च तेऽर्पयामि ॥ (गुरुमण्डलपूजा) (श्रीनाथादि गुरुत्रयं) ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । ऐं ह्रीं श्रीं ऐं क्लीं सौः सोऽहं हंसः शिवः । स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । (गणपतिं) ॐ श्रीं ह्रीं क्लीं ग्लौः गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । महागणपतये नमः । (पीठत्रयं) ॐ ऐं ह्रीं । श्रीं क्लीं सौः कामगिरिपीठे ब्रह्मशक्त्यै सरस्वत्यै नमः । ॐ ऐं ह्रीं । ह्रीं श्रीं सौः क्लीं ऐं पूर्णगिरिपीठे विष्णुशक्त्यै महालक्ष्म्यै नमः । ॐ ऐं क्लीं सौः श्रीं ह्रीं ऐं जालन्धरपीठे रुद्रशक्त्यै श्रीमहागौर्यै नमः । (भैरवं) -ओं ह्रीं श्रीं फट् फं फां फिं फीं भैरवाय नमः । (सिद्धौघं) -ओं ह्रीं श्रीं सौः आं सिद्धौघाय नमः । (वटुकत्रयं) ॐ ह्रीं श्रीं हुं फट् वटुकत्रयाय नमः । (पदयुगं) हसकलह्रीं हसकहलह्रीं सकलह्रीं पदयुगाय नमः । (दूतीक्रमं) ॐ ऐं ह्रीं श्रीं अं आं सौः श्रीं ह्रीं सौः नवदूतीभ्यो नमः । (मण्डलं) ह्रीं श्रीं ऐं अग्निमण्डलाय नमः । ह्रीं श्रीं क्लीं सूर्यमण्डलाय नमः । ह्रीं श्रीं सौः चन्द्रमण्डलाय नमः । (वीरान्द्व्यष्ट) ऐं ह्रीं श्रीं क्लीं ह्रीं श्रीं फट् फां फें षोडशवीरभैरवेभ्यो नमः । (चतुष्कषष्टि) ऐं ह्रीं श्रीं क्लीं ह्रीं श्रीं सौः ह्रीं श्रीं चतुष्षष्टिसिद्धेभ्यो नमः । (नवकं) द्रां द्रीं क्लीं ब्लूं सः क्रों ह् स्ख् फ्रें ह्सौः ऐं नवमुद्राभ्यो नमः । (वीरावलीपञ्चकम्) ऐं ह्रीं ऐं क्लीं सौः पञ्चवीरावलीभ्यो नमः । (श्रीमन्मालिनी) ऐं ह्रीं श्रीं अं आं इत्यादि लं क्षं श्रीं ह्रीं ऐं मालिन्यम्बायै नमः । (मन्त्रराजः) ऐं ह्रीं श्रीं ह्रीं ह्रीं हुं फट् मन्त्रराजाय नमः ।) आवरणपूजा१॥ श्रीगुरुभ्यो ॐ नमः । ॐ श्रीगुरुश्रीपादुकां पूजयामि नमः । (देव्याः पुरः)। ॐ गं गणपतये नमः । श्रीगणपतिश्रीपादुकां पूजयामि नमः । (पुरतः)। ॐ दुं दुर्गायै नमः । श्रीदिर्गापादुकां पूजयामि नमः (दक्षिणे)। ॐ क्षं क्षेत्रपालकाय नमः । श्रीक्षेत्रपालश्रीपादुकां पूजयामि नमः (पश्चात्) । ॐ अं अभयङ्कराय नमः । श्री अभयङ्करश्रीपादुकां पूजयामि नमः (वामे) । ॐ नमः कुलदेवतायै । कुलदेवता श्रीपादुकां पूजयामि नमः (पुरतः) । १. आवरणपूजा द्वेधा क्रियते । भूपुरादि विन्द्वन्तं एकं । यस्य क्रमो अत्र दीयते । अन्यत् । बिन्द्वादि भूपुरान्तं । अस्यैव व्युत्क्रमेण तत्साध्यते । प्रथमावरणेत्यादि सङ्ख्यासङ्केते भेदः तत्र । अन्यत्समानम् । तत्र षष्छं प्रथमं भवति । पञ्चमं द्वितीयमित्यादि । प्रथमावरणे भूपुरे (सर्वाशापरिपूरके) (प्रागादिक्रमेण) १० सर्वाशापरिपूरकचक्राय नमः । (पुष्पाञ्जलिः) (पुरतः) १० इन्द्रशक्ति श्रीपादुकां पूजयामि नमः । १० अग्निशक्ति श्रीपादुकां पूजयामि नमः । १० यमशक्ति श्रीपादुकां पूजयामि नमः । १० निरृतिशक्ति श्रीपादुकां पूजयामि नमः । १० वरुणशक्ति श्रीपादुकां पूजयामि नमः । १० वायुशक्ति श्रीपादुकां पूजयामि नमः । १० कुबेरशक्ति श्रीपादुकां पूजयामि नमः । १० ईशान शक्ति श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (३) (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ (इति सामान्यार्ध्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० प्रथमावरणदेवतासहितायै सर्वाशापरिपूरकचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) द्वितीयावरणे - बहिरष्टदले (सर्वसौभाग्यदायके) (प्रागादिक्रमेण) (दलमध्ये) १० सर्वसौभाग्यदायकचक्राय नमः । (पुष्पाञ्जलिः) १० अनङ्गकुसुमाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गमेखलाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गमदनाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गमदनातुराम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गरेखाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गवेगिन्यम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गाङ्कुशाम्बा श्रीपादुकां पूजयामि नमः १० अनङ्गमालिन्यम्बा श्रीपादुकां पूजयामि नमः । (दलाघ्रे) प्रागादिक्रमेण) १० वशिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० कामेश्वरीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० मोदिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० विमलावाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० अरुणावाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० जयिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० सर्वेश्वरीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० कौलिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (३) (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनम्) अभीष्टसिद्धिं मे देहि शरणाघतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ (इति सामान्यार्ध्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० द्वितीयावरणदेवतासहितायै सर्वसौभाग्यदायकचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) अन्तरष्टदले तृतीयावरणम् (सर्वार्थसाधकचक्रम्) (दलमध्ये) (प्रागादिक्रमेण) १० सर्वार्थसाधकचक्राय नमः । (पुष्पाञ्जलिः) १० ब्राह्म्यम्बा श्रीपादुकां पूजयामि नमः । १० माहेश्वर्यम्बा श्रीपादुकां पूजयामि नमः । १० कौमार्यम्बा श्रीपादुकां पूजयामि नमः । १० वैष्णव्यम्बा श्रीपादुकां पूजयामि नमः । १० वाराह्यम्बा श्रीपादुकां पूजयामि नमः । १० माहेन्द्र्यम्बा श्रीपादुकां पूजयामि नमः । १० चामुण्डाम्बा श्रीपादुकां पूजयामि नमः । १० महालक्ष्म्यम्बा श्रीपादुकां पूजयामि नमः । (दलाग्रे) प्रागादिक्रमेण) १० असिताङ्गभैरव श्रीपादुकां पूजयामि नमः । १० रुरुभैरव श्रीपादुकां पूजयामि नमः । १० चण्डभैरव श्रीपादुकां पूजयामि नमः । १० क्रोधभैरव श्रीपादुकां पूजयामि नमः । १० उन्मत्तभैरव श्रीपादुकां पूजयामि नमः । १० कपालभैरव श्रीपादुकां पूजयामि नमः । १० भीषणभैरव श्रीपादुकां पूजयामि नमः । १० संहारभैरव श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भाक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ (इति सामान्यार्ध्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० तृतीयावरणदेवता सहितायै सर्वार्थसाधकचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) षट्कोणे चतुर्थावरणम् (सर्वरक्षाकरम्) (प्रागादिक्रमेण) (१०) सर्वसिद्धिप्रदचक्राय नमः । (पुष्पाञ्जलिः ।) (१०) साकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) राकिण्यम्बा श्रीपादुकां पूजयामि नमः । (१०) लाकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) काकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) डाकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) हाकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) याकिन्यम्बा श्रीपादुकां पूजयामि नमः । (मध्ये) (१०) बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (३) (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ (इति सामान्यार्घ्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० चतुर्थावरणदेवतासहितायै सर्वरक्षाकरचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) त्रिकोणे पञ्चमावरणम् (सर्वसिद्धिप्रदचक्रम्) १० सर्वसिद्धिप्रदचक्राय नमः (पुष्पाञ्जलिः) १० रत्यम्बा श्रीपादुकां पूजयामि नमः । १० प्रीत्यम्बा श्रीपादुकां पूजयामि नमः । १० विजयाम्बा श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि नमः । (३) बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । (इति सामान्यार्घ्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० पञ्चमावरणदेवतासहितायै सर्वसिद्धिप्रदचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) बिन्दौ सर्वानन्दमयचक्रे षष्ठावरणम् (मध्यत्रिकोण - बहिर्भागे आग्नेयीनैरृतीवायवी ऐशानादि दिक्षु मध्ये परितश्च) १० ऐं हृदयशक्ति श्रीपादुकां पूजयामि नमः । १० क्लीं शिरःशक्ति श्रीपादुकां पूजयामि नमः । १० सौः शिखाशक्ति श्रीपादुकां पूजयामि नमः । १० ऐं कवचशक्ति श्रीपादुकां पूजयामि नमः । १० क्लीं नेत्रशक्ति श्रीपादुकां पूजयामि नमः । १० सौः अस्त्रशक्ति श्रीपादुकां पूजयामि नमः । १० श्री बालाम्बा श्रीपादुकां पूजयामि नमः । बिन्दोर्बहिः त्रिकोणेषु १० ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा - श्रीमेधादक्षिणामूर्तिश्रीपादुकां पूजयामि नमः । १० हंसः शिवः सोऽहं श्री गुरुश्रीपादुकां पूजयामि नमः । १० सोऽहं हंसः शिवः श्रीपरमगुरु श्रीपादुकां पूजयामि नमः । १० हंसः शिवः सोऽहं हंसः श्रीपरमेष्ठिगुरु श्रीपादुकां पूजयामि नमः । १० सर्वानन्दमयचक्राय नमः (पुष्पाञ्जलिः) १० सर्वमन्त्रेश्वरी -सर्वचक्रेश्वरी - सर्वजगदुत्पत्तिमातृका सचक्रा सवाहना सालङ्कारा - सपरिवारा श्रीमद्बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (मूलेन त्रिः सन्तर्पय धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥ (इति सामान्यार्घ्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० षष्ठावरणदेवतासहितायै सर्वानन्दमयचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) नवयोन्यात्मके यन्त्रे आवरणपूजा ह्सौः सदाशिवमञ्चासनाय नमः । कामेश्वराङ्काय नमः । कामेश्वराङ्कमध्यस्थकामेश्वर्यङ्काय नमः । देव्यासनाय नमः । बालां ध्यात्वा प्राणशक्तिं प्रतिष्ठाप्य आवाहनादि पुष्पान्तां पूजां कुर्यात् श्रीगुर्वभिन्नबालात्रिपुरसुन्दर्याज्ञां गृह्णीयात् । श्रीगुरो दक्षिणामूर्ते भक्तानुग्रहकारक । अनुज्ञां देहि भगवन् श्रीबालायजनाय मे ॥ संविन्मये परे देवि परामृतरसप्रिये । अनुज्ञां देहि बाले त्वं परिवारार्चनाय मे ॥ १. प्रथमावरणाचनम् - (बिन्दुमध्ये देवी । देव्या वामे) ४ रत्यै नमः । रति श्रीपादुकां पूजयामि नमः । (देव्या दक्षिणे) ४ प्रीत्यै नमः । प्रीति श्रीपादुकां पूजयामि नमः । (देव्यग्रे) मनो भवायै नमः । मनोभवा श्रीपादुकां पूजयामि नमः । (पुष्पाञ्जलिं दत्वा) ७. अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ एता देवताः पूजितास्तर्पिताः सन्तु इति पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् ।) २. द्वितीयावरणार्चनम् । (मध्यत्रिकोणे बहिर्भागे आग्नेयी-नैरृती- वायवी-ऐशानीदिक्षु क्रमेण) ४ आं सौः क्लीं ऐं हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः । ४ ईं सौः क्लीं ऐं शिरःशक्ति श्रीपादुकां पूजयामि नमः । ४ ऊं सौः क्लीं ऐं शिखाशक्ति श्रीपादुकां पूजयामि नमः । ४ ऐं सौः क्लीं ऐं कवचशक्ति श्रीपादुकां पूजयामि नमः । ४ औं सौः क्लीं ऐं नेत्रत्रयशक्ति श्रीपादुकां पूजयामि नमः । (मध्ये) ४ अः सौः क्लीं ऐं अस्त्रशक्ति श्रीपादुकां पूजयामि नमः । (दिक्षु परितः)। (पुष्पाञ्जलिं दत्वा) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ एता देवताः पूजितास्तर्पिता भवन्तु इति पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् । तृतीयावरणार्चनम् । (मध्यत्रिकोणस्य बहिः पुर्वादक्षिणा- पश्चिमोदीचीदिक्षु मध्ये च क्रमेण) ४ ह्रीं मनोभवाय नमः । मनोभव श्रीपादुकां१ पूजयामि नमः । ४ क्लीं मकरध्वजाय नमः । मकरध्वज श्रीपादुकां पूजयामि नमः । ४ ऐं कन्दर्पाय नमः । कन्दर्प श्रीपादुकां पूजयामि नमः । ४ ब्लूं मन्मथाय नमः । मन्मथ श्रीपादुकां पूजयामि नमः । ४ स्त्रीं कामदेवाय नमः । कामदेव श्रीपादुकां पूजयामि नमः । (पुष्पाञ्जलिं दत्वा) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ एता देवताः प्रीतास्तर्पिता भवन्तु । (पुष्पाञ्जलिं दत्वा योनि मुद्रया प्रणमेत् । पञ्चमावरणाचनम् - (अष्टकोणस्य प्राच्याद्यष्टदिक्षु क्रमेण) ४. सुभगायै नमः । सुभगाश्रीपादुकां पूजयामि नमः१ (०) । ४ भगायै नमः । भगाश्रीपादुकां ०। ४ भगसर्पिण्यै नमः । भगसर्पिणी श्रीपादुकां ०। ४ भगमालिन्यै नमः । भगमालिनीश्रीपादुकां ०। ४. अनङ्गायै नमः । अनङ्गाश्रीपादुकां०। ४ अनङ्गकुसुमायै नमः । अनङ्गकुसुमाश्रीपादुकां ०। ४. अनङ्गमेखलायै नमः । अनङ्गमेखलाश्रीपादुकां ०। ४. अनङ्गमदनायै नमः । अनङ्गमदना श्रीपादुकां ०। (पुष्पाञ्जलिं दत्वा) अभीष्ट इत्यदि पञ्चमावरणार्चनम् । पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् । १ - ० श्रीपादुकां पूजयामि इति सर्वत्रानुवर्तते षष्ठावरणाचना । (अष्टदलमूले प्राच्यादिदिक्षु) ४ आं ब्राह्म्यै नमः । ब्राह्मीश्री ०। ४ ईं माहेश्वर्यै नमः । माहेश्वरी श्री ०। ४ ऊं कौमार्यै नमः । कौमारी श्री ०। ४ ऋं वैष्णव्यै नमः । वैष्णवीश्री ०। ४ लृं वाराह्यै नमः । वाराही श्री ०। ४ ऐं माहेन्द्र्यै नमः । माहेन्द्रीश्री ०। ४ औं चामुण्डायै नमः । चामुण्डाश्री ०। ४ अः महालक्ष्म्यै नमः । महालक्ष्मीश्री ०। (पुष्पाञ्जलिं दत्वा) अभीष्ट सिद्धिं इत्यादि + षष्ठमावरणार्चनम् । पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् । सप्तमावरणाचनम् । (अष्टदलाग्रमध्ये) ४. अं असिताङ्गभैरवाय नमः । असिताङ्गभैरव श्री ०। ४ इं रुरुभैरवाय नमः । रुरु भैरवश्री ०। ४ उं चण्डभैरवाय नमः । चण्डभैरव श्री ०। ४ ऋं क्रोधभैरवाय नमः । क्रोधभैरव श्री ०। ४ लृं उन्मत्तभैरवाय नमः । उन्मत्तभैरव श्री ०। ४. एं कपालभैरवाय नमः । कपालभैरव श्री ०। ४. ॐ भीषणभैरवाय नमः । भीषणभैरव श्री ०। ४. अं संहारभैरवाय नमः । संहारभैरव श्री ०। (पुष्पाञ्जलिः । अभीष्ट + सप्तमावरणार्चनम् । (पुष्पाञ्जलिः) योनिमुद्रया प्रणमेत् ॥ अष्टमावरणाचनम् । (अष्टदलाघ्रे) (प्राच्यादि) ४ कामरूपपीठाय नमः । कामरूपपीठश्री ०। ४ मलयपीठाय नमः । मलयपीठ श्री ०। ४. कोल्लगिरिपीठाय नमः । कोल्लगिरिपीठ श्री ०। ४. चौहारापीठाय नमः । चौहारापीठश्री ०। ४. कुलान्तकपीठाय नमः । कुलान्तकपीठश्री ०। ४ जालन्धरपीठाय नमः । जालन्धरपीठश्री ०। ४. उड्यानपीठाय नमः । उड्यानपीठश्री ०। ४. कोट्टपीठाय नमः । कोट्टपीठश्री ०। (पुष्पाञ्जलिः) । अभीष्टसिद्धिं इत्यादि ..... अष्टमावरणार्चनम् । (पुष्पाञ्जलिः । योनिमुद्रया प्रणमेत् ।) नवमावरणार्चनम् । (भूपुरमध्ये दशदिक्षु) ४. हेतुकाय नमः । हेतुकश्री ०। ४. त्रिपुरान्तकाय नमः । त्रिपुरान्तकश्री ०। ४ वेतालाय नमः । वेतालश्रीं ०। ४ अग्निजिह्वाय नमः । अग्निजिह्वश्री ०। ४ कालान्तकाय नमः । कालान्तकश्री ०। ४ कपालाय नमः । कपालश्री ०। ४ एकापादाय नमः । एकपादश्री ०। ४ भीमरूपाय नमः । भीमरूपश्री ०। ४ मलयाय नमः । मलयश्री ०। ४ हाटकेश्वराय नमः । हाटकेश्वरश्री ०। पुष्पाञ्जलिः । अभीष्टसिद्धिं इत्यादि नवमावरणार्चनम् । (पुष्पाञ्जलिः । योनिमुद्रया प्रणमेत् ।) १ प्राचीशान्योर्मध्ये नवमी अधरा । नैरृतीवारुण्योर्मध्ये दशमी ऊर्ध्वा दिक् । दशमावरणाचनम् - ४ सवज्राय इन्द्राय नमः । इन्द्रश्रीपादुकां ०। ४ सशक्तये अग्रये नमः । अग्निश्रीपादुकां०। ४ सदण्डाय यमाय नमः । यमश्रीपादुकां ०। ४ सखड्गाय निरृतये नमः । निरृतिश्री पादुकां ०। ४ सपाशाय वरुणाय नमः । वरुणश्रीपादुकां ०। ४ सध्वजाय वायवे नमः । वायुश्रीपादुकां ०। सशङ्खाय सोमाय नमः । सोमश्री श्रीपादुकां ०। सत्रिशूलाय ईशानाय नमः । ईशानश्री ०। (पुष्पाञ्जलिः) अभीष्ट इत्यादि दशामावरणाचतम् । (पुष्पाञ्जलिः । योनिमुद्रया प्रणमेत् ।) पुष्पार्चना - ४. हंसः शिवः सोऽहं गुरुभ्यो नमः । ४. सोऽहं हंसः शिवः परमगुरुभ्यो नमः । ४. हंसः शिवः सोऽहं हंसः परमेष्ठिगुरुभ्यो नमः । ४. हंसः सोऽहं परात्परगुरुभ्यो नमः । ४. शिवाय गुरवे नमः । ४. ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । मेधादक्षिणामूर्तये नमः । ४ ॐ समस्तगुरुमण्डलरूपिण्यै बालात्रिपुरसुन्दर्यै नमः । ४. ॐ गं गणपतये नमः । ४. ॐ दुं दुर्गायै नमः । ४. क्षं क्षेत्रपालकाय नमः । ४. अं अभयङ्कराय नमः । ४. वां वास्तुपुरुषाय नमः । ४. यां योगिनीभ्यो नमः । ४. ह्रीं श्रीं फट् फं फां फिं फीं भैरवाय नमः । ४. सं सरस्वत्यै नमः । ४. कुलदेवताभ्यो नमः । ४. गणानां त्वा गणपतिꣳ इत्यादि साधनम् । ब्रह्मणस्पतये गणपतये नमः । ४. ॐ गं ॐ गणपतये नमः । ४. ॐ वक्रतुण्डाय हुम् । वक्रतुण्डगणपतये नमः । ४. ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा - महागणपतये नमः । ४. ॐ श्रीं ह्रीं क्लीं ग्लौं कएईलह्रीं तत्सवितुवरेण्यं गणपतये क्लीं हसकहलह्रीं भर्गो देवस्य धीमहि वरवरद सौः सकलह्रीं श्रीं धियो यो नः प्रचोदयात् सर्वजनं मे वशमानय स्वाहा - श्रीविद्यागणपतये नमः । ॐ श्रीं ह्रीं क्लीं सुमुखाय नमः । एकदन्ताय नमः । कपिलाय नमः । गजकर्णकाय नमः । लम्बोदराय नमः । विकटाय नमः । विघ्नराजाय नमः । विनायकाय नमः । धूमकेतवे नमः । गणाध्यक्षाय नमः । भालचन्द्राय नमः । गजाननाय नमः । वक्रतुण्डाय नमः । शूर्पकर्णाय नमः । हेरम्बाय नमः । स्कन्दपुर्वजाय नमः । ४ ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः । संहृताय इष्टचित्तात्मने भास्वरूपाय नमः । रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय नमः । हं षण्मुखशरजन्मने शुभलक्षणाय शिखिवाहनाय नमः । णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय नमः । भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नमः । वं खेटधराय खड्गिने शक्तिहस्ताय सुब्रह्मण्याय नमः । (४ ॐ ह्रीं श्रीं क्लीं औं सौः शरवणभव रवणभवश वणभवशर णभवशरव भवशरवण वशरवणभ शरवणभवाय नमः ।) (४. अं आं इं ईं उं ऊं ऋ ॠं लृं लॄं एं ऐं ॐ औं अं अः कं खं गं घं ङं चं छं जं झं ञ्चं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं मातृकादेव्यै नमः । ४ ऐं वद वद वाग्वादिनि स्वाहा । वाग्वादिन्यै नमः । ४ तत्सवितुर्व- इत्यादि प्रचोदयात् । गायर्त्यै नमः । ४ ऐं उच्छिष्टचाण्डालि मातङ्गिः क्लीं स्वाहा । मातङ्ग्यै नमः । ४ ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति राजमाटङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्वशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं श्रीं ह्रीं ऐं राजमातङ्गीश्वर्यै नमः । ४ ॐ ऐं ह्रीं श्रीं ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुख- गतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौः ठः ठः ठः ठः हुं फट् स्वाहा । वाराह्यै नमः ।) (- ॐ श्रीं ह्रीं क्लीं इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः । ॐ श्रीं ह्रीं क्लीं ब्राह्म्यै नमः । माहेश्वर्यै नमः । कौमार्यै नमः । वैष्णव्यै नमः । वाराह्मै नमः । माहेन्द्रयै नमः । चामुण्डायै नमः । महालक्ष्म्यै नमः । ॐ श्रीं ह्रीं क्लीं ऋद्ध्यामोदाभ्यां नमः । समृद्धिप्रमोदाभ्यां नमः । कान्ति सुमुखाभ्यां नमः । मदनावतीदुर्मुखाभ्यां नमः । मदद्रवा अविघ्नाभ्यां नमः । द्रावणीविघ्नकर्तृभ्यां नमः । वसुधाराशङ्खनिधिभ्यां नमः । वसुमतीपद्मनिधिभ्यां नमः । ॐ श्रीं ह्रीं क्लीं हृदयशक्तये नमः । शिरश्शक्तये नमः । शिखाशक्तये नमः । कवचशक्तये नमः । नेत्रत्रयशक्तये नमः । अस्त्रशक्तये नमः । ॐ श्रीं ह्रीं क्लीं रमारमापतिभ्यां नमः । गिरिजागिरिजापतिभ्यां नमः । रतिरतिपतिभ्यां नमः । महीमहीपतिभ्यां नमः । महालक्ष्मीमहागणपतिभ्यां नमः । श्रीमहागणपतये नमः । श्रीविद्यागणेशाय नमः ।) ४ ॐ ह्रीं नमः शिवाय । श्रीकामेश्वराय नमः । ४ ॐ ह्रीं नमः शिवायै । ॐ ह्रीं नमः शिवाय । कामेश्वरीकामेश्वराभ्यां नमः । ४ क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं श्रीम् । ॐ नमः ह्रीं ॐ । शिवकामेश्वराङ्कस्थकामेश्वर्यै नमः । ४ ॐ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं सौः ऐं क्लीं ह्रीं श्रीम् । ॐ नमः ह्रीं ॐ । शिवकामेश्वराङ्कस्थकामेश्वर्यै नमः । ४ ॐ क ए ई ल ह्रीं हसकहल ह्रीं सकल ह्रीं श्रीं ऐं क्लीं सौः शिवकामेश्वराङ्कस्थकामेश्वर्यङ्कवासिन्यै बालायै नमः । ४ ॐ ऐं क्लीं श्रीं वषट् सौः क्लीं श्रीं वौषट् ऐं क्लीं श्रीं सौः क्लीं ऐं ॐ आं ह्रीं क्रों बालात्रिपुरसुन्दरि प्रसन्नवाग्वादिनि आश्रावय आश्रावय आकर्षयाकर्षय । आवाहयावाहय । मां रक्ष रक्ष सौभाग्यदायिनि स्वर्णाकर्षणमहालक्ष्मि धनं देहि देहि सर्वजनं मे वशमानय स्वाहा । बालाम्बायै नमः । ४ ऐं क्लीं सौः बालाम्बायै नमः । ४ ऐं क्लीं सौः सौः क्लीं ऐं बालाम्बायै नमः । ॐ ईं ईं नमः कामकलायै बालाम्बायै नमः । अष्टोत्तरशतनामार्चना ॐ ऐं ह्रीं श्री कल्याण्यै नमः । त्रिपुरायै नमः । बालायै नमः । मायायै नमः । त्रिपुरसुन्दर्यै नमः । सुन्दर्यै नमः । सर्वसौभाग्यवत्यै नमः । ह्रीङ्काररूपिण्यै नमः । ऐङ्कार्यै नमः । सर्वजनन्यै नमः । क्लीङ्कार्यै नमः । परमेश्वर्यै नमः । सौः कार्यै नमः । सर्वशक्त्याढ्यायै नमः । त्र्यक्षर्यै नमः । दिव्यगन्धिन्यै नमः । संविदानन्दलहर्यै नमः । श्रीविद्यायै नमः । त्रिपुरेश्वर्यै नमः । गुप्तायै नमः । २०॥ गुप्ततरायै नमः । नित्यायै नमः । नित्याषोडशकावृतायै नमः । भक्तानुरक्तायै नमः । रक्ताङ्ग्यै नमः । शिवायै नमः । सर्वारुणायै नमः । शुभायै नमः । मोहिन्यै नमः । परमानन्दायै नमः । कामेश्यै नमः । तरुण्यै नमः । कलायै नमः । पद्मावत्यै नमः । भगवत्यै नमः । पद्मरागकिरीटिन्यै नमः । रक्तवस्त्रायै नमः । रक्तभूषायै नमः । रक्तगन्धानुलेपनायै नमः । सौगन्धिकमिलद्वेण्यै नमः । ४०॥ मन्त्रिण्यै नमः । मन्त्रपुष्पिण्यै नमः । तत्त्वासनायै नमः । तत्त्वमय्यै नमः । सिद्धान्तःपुरवासिन्यै नमः । श्रीवाणीड्यायै नमः । महादेव्यै नमः । कौलिन्यै नमः । परदेवतायै नमः । कैवाल्यरेखायै नमः । वशिन्यै नमः । सर्वेश्यै नमः । सर्वमङ्गलायै नमः । नारायण्यै नमः । वेदवेद्यायै नमः । सर्वसम्पत्प्रदायै नमः । सत्यै नमः । चतुर्भुजायै नमः । चन्द्रचूडायै नमः । पुराणागमबोधितायै नमः । ६०॥ भूतेश्वर्यै नमः । भूतमय्यै नमः । पञ्चाशद्वर्णरूपिण्यै नमः । सर्वमङ्गलमाङ्गल्यायै नमः । कामाक्ष्यै नमः । कामदायिन्यै नमः । किङ्करीभूतगीर्वाण्यै नमः । सुधापानविनोदिन्यै नमः । आधारवीथीपथिकायै नमः । स्वाधिष्ठानसमाश्रितायै नमः । मणिपूरसमासीनायै नमः । अनाहतनिवासिन्यै नमः । विशुद्धिचक्रनिलयायै नमः । आज्ञाचक्रनिवासिन्यै नमः । अष्टत्रिंह्सत्कलामूर्तये नमः । सुषुम्नागारमध्यगायै नमः । योगीश्वरमुनिध्येयायै नमः । परब्रह्मस्वरूपिण्यै नमः । दिक्पालशक्तिसंयुक्तायै नमः । सर्वाशापरिपूरकायै नमः । ८०॥ अनङ्गकुसुमादीड्यायै नमः । वाग्देव्यष्टकसंवृतायै नमः । सर्वसौभाग्यदेशान्यै नमः । मात्रष्टकसमावृतायै नमः । भैरवाष्टकसंसेव्यायै नमः । सर्वाभीष्टार्थसाधिकायै नमः । योगिनीषट्कसंसेव्यायै नमः । सर्वरक्षाकराधिपायै नमः । रतिप्रीतिविजयाख्यत्रिशक्तिगुरुसेवितायै नमः । सर्वसिद्धिप्रदेशान्यै नमः । सर्वानन्दमयाधिपायै नमः । रहः पूजासमालोलायै नमः । बिन्दुस्थलमनोहरायै नमः । त्रिकोणमध्यनिलयायै नमः । षट्कोणपुरवासिन्यै नमः । वसुपत्रद्वयावासायै नमः । भूपुरद्वयमध्यगायै नमः । शिवकामेश्वराङ्गस्थकामेश्वर्यङ्कवासिन्यै नमः । कामेश्वरीसमाकारायै नमः । फुल्लकल्हारमध्यगायै नमः । १००॥ पुस्तकाभीतिवरदजपमालालसत्करायै नमः । तरुणारुणदेहाभायै नमः । दिव्याभरणभूषितायै नमः । बन्धूककुसुमप्रख्यायै नमः । बाललीलाविनोदिन्यै नमः । काश्मीरकर्दमालिप्ततनुच्छायाविराजितायै नमः । सपर्याऽऽचारनिरतगुरुमण्डलसेवितायै नमः । चतुर्वर्गप्रदानोत्कनित्यकल्याणरूपिण्यै नमः । १०८॥ आवरणाचना१ १आवरणपूजाकरणाशक्तौ पुष्पार्चना कर्तुं शक्यते ॥ ४ बालाम्बायै नमः । ४ इन्द्रशक्त्यम्बायै नमः । ४ अग्निशक्त्यम्बायै नमः । ४ यमशक्त्यम्बायै नमः । ४ निरृतिशक्त्यम्बायै नमः । ४ वरुणशक्त्यम्बायै नमः । ४ वायुशक्त्यम्बायै नमः । ४ कुबेरशक्त्यम्बायै नमः । ४ ईशानशक्त्यम्बायै नमः । ४ सर्वाशापूरकचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ अनङ्गकुसुमाम्बायै नमः । ४ अनङ्गमेखलाम्बायै नमः । ४ अनङ्गमदनाम्बायै नमः । ४ अनङ्गमदनातुराम्बायै नमः । ४ अनङ्गरेखाम्बायै नमः । ४ अनङ्गवेगिन्यम्बायै नमः । ४ अनङ्गाङ्कुशाम्बायै नमः । ४ अनङ्गमालिन्यम्बायै नमः । ४ वशिनीवाग्देवताम्बायै नमः । ४ कामेश्वरीवाग्देवताम्बायै नमः । ४ मोदिनीवाग्देवताम्बायै नमः । विमलावाग्देवताम्बायै नमः । ४ अरुणावाग्देवताम्बायै नमः । ४ जयिनीवाग्देवताम्बायै नमः । ४ सर्वेश्वरीवाग्देवताम्बायै नमः । ४ कौलिनीवाग्देवताम्बायै नमः । ४ सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ ब्राह्म्यम्बायै नमः । ४ माहेश्वर्यम्बायै नमः । ४ कौमार्यम्बायै नमः । ४ वैष्णव्यम्बायै नमः । ४ वाराह्यम्बायै नमः । ४ माहेन्द्र्यम्बायै नमः । ४ चामुण्डाम्बायै नमः । ४ महालक्ष्म्यम्बायै नमः । ४ असिताङ्गभैरवाय नमः । ४ रुरुभैरवाय नमः । ४ चण्डभैरवाय नमः । ४ क्रोधभैरवाय नमः । ४ उन्मत्तभैरवाय नमः । ४. कपालभैरवाय नमः । ४ भीषणभैरवाय नमः । ४ संहारभैरवाय नमः । ४ सर्वार्थसाधकचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ साकिन्यम्बायै नमः । ४ राकिण्यम्बायै नमः । ४ लाकिन्यम्बायै नमः । ४ काकिन्यम्बायै नमः । ४ डाकिन्यम्बायै नमः । ४ हाकिन्यम्बायै नमः । ४ याकिन्यं बायै नमः । सर्वक्षाकरचक्रस्वामिन्यै नमः । ४ बालाम्बायै नमः । रत्यम्बायै नमः । प्रीत्यम्बायै नमः । ४ विजयाम्बायै नमः । ४ सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ ऐं हृदयशक्त्यम्बायै नमः । ४ क्लीं शिरःशक्त्यम्बायै नमः । ४ सौः शिखाशक्त्यम्बायै नमः । ४ ऐं कवचशक्त्यम्बायै नमः । ४ क्लीं नेत्रत्रयशक्त्यम्बायै नमः । ४ सौः अस्त्रशक्त्यम्बायै नमः । १० बालाम्बायै नमः । ४ गुरुभ्यो नमः । ४ परमगुरुभ्यो नमः । ४ परमेष्ठिगुरुभ्यो नमः । ४ सर्वानन्दमयचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । धूपः १० लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीकण्ठागरुगुग्गुलुप्रभृतिर्नानाविधैर्वस्तुभिः । धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ दीपः १० रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैः बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरारनुदिनं नीराजयाम्युच्चकैः ॥ निवेदनं १० मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिका - सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ (देव्यग्रे चतुरश्रमण्डलं सामान्यार्ध्यं जलेन विधाय । तत्र यथासम्भवं नैवेद्यं निधाय । ॐ वं इति धेनुमुद्रया अमृतीकृत्य ४ मूलेन सव्याहृत्या गायत्र्या च प्रोक्ष्य सत्यं त्वर्तेन (ऋतं त्वा सत्येन) परिषिञ्चामीति परिषिच्य ४ सपरिवारायै श्रीबालात्रिपुरसुन्दर्यै नैवेद्यं कल्पयामि । अमृतोपस्तरणमसि । वामकरेण ग्रासमुद्रां दक्षकरेण प्राणादि पञ्च मुद्राश्च दर्शयन् ४ ऐं प्राणाय स्वाहा ४. क्लीं अपानाय स्वाहा । ४. सौः व्यानाय स्वाहा । ४. ऐं क्लीं उदानाय स्वाहा । ४. ऐं क्लीं सौः समानायस्वाहा । ४. ब्रह्मणे स्वाहा । १०. सर्वतत्त्वव्यापिका बाला त्रिपुरसुन्दरी तृप्यतु । मधु वाता ऋताय ते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधु नक्तमुतोषसि मधुमत्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । इति पुष्पाञ्जलिं विधाय । भुञ्जानां देवीं ध्यायेत् । सापूपसूपदधिदुग्धसुधाघृतानि सुस्वादुभक्तपरमान्नपुरस्सराणि । शाकोल्लसन्मरिचजीरकबाह्विकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु । मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् । पटपूतमिदं जितामृतं शुचि गङ्गाजलम्ब पीयताम् ॥ (देवीं भुक्तवतीं ध्यात्वा) अमृतापिधानमसि (इति उत्तरापोशनं दद्यात् ।) उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि । सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ताम्बूलसमर्पणं १०. एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि । ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ कर्पूरनीराजनं १०. सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्धत्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ स्वर्ण -मन्त्रपुष्पाञ्जलिः -उपचाराः १०. अथ बहुमणिमिश्रैः मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ १०. तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ १०. पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादि फलं ददाति । तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ १०. रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्यां अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ १०. चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मिन् भगवति भवनेऽस्तु ते निवासः ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ । विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मिन् पर्यङ्के कनकमये निषीद मातः ॥ क्षणमथ जगदम्ब मञ्चकेऽस्मिन् मृदुतरतूलिकया विराजमाने । अतिरहसि मुदा भृतान्तरङ्गा सुखशयनं कुरु तत्र मां स्मरन्ती ॥ पूजासमर्पणं १० मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां अक्षस्रक्पुस्तहस्तामभयवरकरां चन्द्रचूडां त्रिणेत्राम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ १०. एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व । न्यूनं यत्तत्तव करुणाया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७. श्रीबाला त्रिपुरसुन्दरीपार्षदेभ्यो नमः । बलिमुपहारयामि । ---- पूजासमापनं वक्रतुण्डादीनां मन्त्राणां पुनः षडङ्गन्यासः दिग्बन्धः । ध्यानं । मन्त्रजपो यथावकाशं । उत्तराङ्ग षडङ्गन्यासः । दिग्विमोकः । लमित्यादि पञ्चपूजा । जपसमर्पणम् । साधु वाऽसाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं कृपया देवि गृहाणाराधनं मम ॥ इति देव्या वामहस्ते पूजां समर्प्य । शङ्खमुद्धृत्य देव्यपुरि त्रिः परिभ्राम्य । तज्जलं आत्मानं समवेतांश्च प्रोक्ष्य । शङ्खं प्रक्षाल्य निदध्यात् । ज्ञानतोऽज्ञानतो वापि यन्मयाऽऽचरितं शिवे । बालकृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥ सर्वां आवर देवताः देव्यङ्गे विलीनाः भावये । देवी ज्योतिर्मयी चिन्मयी विभाति । लम्बीजा पृथिवी गन्धं समर्पयति । हम्बीज आकाशः पुष्पाणि समर्पयति । यं बीजो वायुर्धूपमाघ्रापयति । रम्बीजोऽग्निर्दीपं दर्शयति । वम्बीजो वरुणोऽमृतोपहारं निवेदयति । देव्याः पादतले निविष्टः पुष्पाञ्जलिं समर्पयामि । देवीं संविन्मयीं हृदयं नयामि । (खेचर्या) संविदात्मरूपिणीं भावये । विशेषार्घ्यपात्रं मूलेन आमस्तकमुद्धृत्य तत्क्षीरं पात्रान्तरेण आदाय आर्द्रं ज्वलतीति मन्त्रेण आत्मनः कुण्डलिन्यग्नौ हुतं भावयेत् । मूलेन तीर्थनिर्माल्ये स्वीकुर्यात् । ॐ तत्सद्भह्यार्पणमस्तु ॥ इति श्रीबालाबाह्यपूजाविधिः समाप्ता ।