अक्षर आकार:

श्रीबालाष्टोत्तरशतनामावलिः २

Shri Balashtottarashatanamavali 2

श्रीबालाष्टोत्तरशतनामावलिः २

ओं ऐं ह्रीं श्रीं श्रीबालायै नमः । श्रीमहादेव्यै नमः । श्रीमत्पञ्चासनेश्वर्यै नमः । शिववामाङ्गसम्भूतायै नमः । शिवमानसहंसिन्यै नमः । त्रिस्थायै नमः । त्रिनेत्रायै नमः । त्रिगुणायै नमः । त्रिमूर्तिवशवर्तिन्यै नमः । त्रिजन्मपापसंहर्त्र्यै नमः । त्रियम्बककुटुम्बिन्यै नमः । बालार्ककोटिसङ्काशायै नमः । नीलालकलसत्कचायै नमः । फालस्थहेमतिलकायै नमः । लोलमौक्तिकनासिकायै नमः । पूर्णचन्द्राननायै नमः । स्वर्णताटङ्कशोभितायै नमः । हरिणीनेत्रसाकारकरुणापूर्णलोचनायै नमः । दाडिमीबीजरदनायै नमः । बिम्बोष्ठ्यै नमः । २० मन्दहासिन्यै नमः । शङ्खःग्रीवायै नमः । चतुर्हस्तायै नमः । कुचपङ्कजकूड्मलायै नमः । ग्रैवेयाङ्गदमाङ्गल्यसूत्रशोभितकन्धरायै नमः । वटपत्रोदरायै नमः । निर्मलायै नमः । घनमण्डितायै नमः । मन्दावलोकिन्यै नमः । मध्यायै नमः । कुसुम्भवदनोज्ज्वलायै नमः । तप्तकाञ्चनकान्त्याढ्यायै नमः । हेमभूषितविग्रहायै नमः । माणिक्यमुकुरादर्शजानुद्वयविराजितायै नमः । कामतूणीरजघनायै नमः । कामप्रेष्ठगतल्पगायै नमः । रक्ताब्जपादयुगलायै नमः । क्वणन्माणिक्यनूपुरायै नमः । वासवादिदिशानाथपूजिताङ्घ्रिसरोरुहायै नमः । वराभयस्फाटिकाक्षमालापुस्तकधारिण्यै नमः । ४० स्वर्णकङ्कणज्वालाभकराङ्गुष्ठविराजितायै नमः । सर्वाभरणभूषाढ्यायै नमः । सर्वावयवसुन्दर्यै नमः । एङ्काररूपायै नमः । ऐङ्कार्यै नमः । ऐश्वर्यफलदायिन्यै नमः । क्लीङ्काररूपायै नमः । क्लीङ्कार्यै नमः । क्लृप्तब्रह्माण्डमण्डलायै नमः । सौःकाररूपायै नमः । सोः कार्यै नमः । सौन्दर्यगुणसंयुतायै नमः । सचामररतीन्द्राणीसव्यदक्षिणसेवितायै नमः । बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलसंयुतायै नमः । सत्यादिलोकपालान्तदेव्यावरणसेवितायै नमः । ओड्याणपीठनिलयायै नमः । ओजस्तेजःस्वरूपिण्यै नमः । अनङ्गपीठनिलयायै नमः । कामितार्थफलप्रदायै नमः । जालन्धरमहापीठायै नमः । ६० जानकीनाथसौदर्यै नमः । पूर्णागिरिपीठगतायै नमः । पूर्णायुःसुप्रदायिन्यै नमः । मन्त्रमूर्त्यै नमः । महायोगायै नमः । महावेगायै नमः । महाबलायै नमः । महाबुद्‍ध्यै नमः । महासिद्‍ध्यै नमः । महादेवमनोहर्यै नमः । कीर्तियुक्तायै नमः । कीर्तिधरायै नमः । कीर्तिदायै नमः । कीर्तिवैभवायै नमः । व्याधिशैलव्यूहवज्रायै नमः । यमवृक्षकुठारिकायै नमः । वरमूर्तिगृहावासायै नमः । परमार्थस्वरूपिण्यै नमः । कृपानिधये नमः । कृपापूरायै नमः । ८० कृतार्थफलदायिन्यै नमः । अष्टात्रिंशत्कलामूर्त्यै नमः । चतुःषष्टिकलात्मिकायै नमः । चतुरङ्गबलादात्र्यै नमः । बिन्दुनादस्वरूपिण्यै नमः । दशाब्दवयसोपेतायै नमः । दिविपूज्यायै नमः । शिवाभिधायै नमः । आगमारण्यमायूर्यै नमः । आदिमध्यान्तवर्जितायै नमः । कदम्बवनसम्पन्नायै नमः । सर्वदोषविनाशिन्यै नमः । सामगानप्रियायै नमः । ध्येयायै नमः । ध्यानसिद्धाभिवन्दितायै नमः । ज्ञानमूर्त्यै नमः । ज्ञानरूपायै नमः । ज्ञानदायै नमः । भयसंहरायै नमः । तत्त्वज्ञानायै नमः ॥ १०० तत्त्वरूपायै नमः । तत्त्वमय्यै नमः । आश्रितावन्यै नमः । दीर्घायुर्विजयारोग्यपुत्रपौत्रप्रदायिन्यै नमः । मन्दस्मितमुखाम्भोजायै नमः । मङ्गलप्रदमङ्गलायै नमः । वरदाभयमुद्राढ्यायै नमः । बालात्रिपुरसुन्दर्यै नमः ॥ १०८ इति श्रीबालाष्टोत्तरशतनामावलिः २ सम्पाता ।