अक्षर आकार:

श्रीबालाष्टोत्तरशतनामस्तोत्रम् १

Shri Bala Ashtottarashatanamastotram 1

श्रीबालाष्टोत्तरशतनामस्तोत्रम् १

अस्य श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः । अनुष्टुप् छन्दः । श्री बालात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीबालात्रिपुरसुन्दरीप्रसादसिद्‍ध्यर्थे नामपारायणे विनियोगः । ओं ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम्- पाशाङ्कुशे पुस्तकाक्षसूत्रे च दधती करैः । रक्ता त्र्यक्षा चन्द्रफाला पातु बाला सुरार्चिता ॥ लमित्यादि पञ्चपूजा \- लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं अग्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृतोपहारं निवेदयामि । सं सर्वात्मिकायै सर्वोपचारपूजाः समर्पयामि ॥ अथ श्री बाला अष्टोत्तरशतनामस्तोत्रम् । ॐ कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी । सुन्दरी सौभाग्यवती क्लीङ्कारी सर्वमङ्गला ॥ १॥ ह्रीङ्कारी स्कन्दजननी परा पञ्चदशाक्षरी । त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥ २॥ सर्वसंक्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा । अनङ्गकुसुमा ख्याता अनङ्गा भुवनेश्वरी ॥ ३॥ जप्या स्तव्या श्रुतिर्निता नित्यक्लिन्नाऽमृतोद्भवा । मोहिनी परमाऽऽनन्दा कामेशतरुणा कला ॥ ४॥ कलावती भगवती पद्मरागकिरीटिनी । सौगन्धिनी सरिद्वेणी मन्त्रिणि मन्त्ररूपिणि ॥ ५॥ तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी । श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥ ६॥ कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका । विष्णुस्वसा देवमाता सर्वसम्पत्प्रदायिनी ॥ ७॥ किङ्करी माता गीर्वाणी सुरापानानुमोदिनी । आधाराहितपत्नीका स्वाधिष्ठानसमाश्रया ॥ ८॥ अनाहताब्जनिलया मणिपूरासमाश्रया । आज्ञा पद्मासनासीना विशुद्धस्थलसंस्थिता ॥ ९॥ अष्टात्रिंशत्कलामूर्ति स्सुषुम्ना चारुमध्यमा । योगेश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥ १०॥ चतुर्भुजा चन्द्रचूडा पुराणागमरूपिनी । ऐंकारादिर्महाविद्या पञ्चप्रणवरूपिणी ॥ ११॥ भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी । षोढान्यास महाभूषा कामाक्षी दशमातृका ॥ १२॥ आधारशक्तिः तरुणी लक्ष्मीः त्रिपुरभैरवी । शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥ १३॥ माङ्गल्य दायिनी मान्या सर्वमङ्गलकारिणी । योगलक्ष्मीः भोगलक्ष्मीः राज्यलक्ष्मीः त्रिकोणगा ॥ १४॥ सर्वसौभाग्यसम्पन्ना सर्वसम्पत्तिदायिनी । नवकोणपुरावासा बिन्दुत्रयसमन्विता ॥ १५॥ नाम्नामष्टोत्तरशतं पठेन्न्याससमन्वितं । सर्वसिद्धिमवाप्नोती साधकोभीष्टमाप्नुयात् ॥ १६॥ इति श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्री बाला अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् । See corresponding nAmAvalI to help prayers.