अक्षर आकार:

अर्बुदाभगवतीस्तोत्रम्

Arbudabhagavati Stotram

अर्बुदाभगवतीस्तोत्रम्

श्यामां दिनाद्ययजनेरुण-पद्मरागां देवीं प्रदोषसमये च हिरण्यवर्णाम् । संवित्प्रभां सकलमूर्तिषु निर्विकल्पां तामर्बुदां भगवतीं प्रणतोस्मि भक्त्या ॥ १॥ सौम्यां सदा हृदि सतां ललितस्वरूपां क्रूरां च दुष्टमनसां धृतघोररूपाम् । शूलासिपात्र-फणिपाशकरां पराम्बां तामर्बुदां भगवतीं प्रणतोस्मि भक्त्या ॥ २॥ ब्रह्मादिपञ्च-समलङ्कृत -मञ्च-मध्यां ज्ञानक्रियाबलवतीं जनिताण्डकोटिम् । कैवल्यधामफल-धारण-कल्पवल्लीं तामर्बुदां भगवतीं प्रणतोस्मि भक्त्या ॥ ३॥ सिद्धां वशिष्ठभृगुगौतम-सिद्धिदात्रीं नित्याचलेश्वर-निरीक्षणचञ्चलाक्षीम् । सिंहाधिरूढसुमुखीं शशिखण्डमौलिं तामर्बुदां भगवतीं प्रणतोस्मि भक्त्या ॥ ४॥ वात्सल्यसारपरिपूर्ण-विशालनेत्रां योगीशसेवित-कुलामृतवृष्टिरूपाम् । षट्पद्मकाननचरां प्रणव-द्विरेफां तामर्बुदां भगवतीं प्रणतोस्मि भक्त्या ॥ ५॥ श्रीमद् यतीन्द्र-परिभावित-ब्रह्मरूपां गुह्योपदेशकुशलां गिरिगर्भविष्टाम् । श्रुत्यन्तगीतविभवां विरतिप्रहृष्टां तामर्बुदां भगवतीं प्रणतोस्मि भक्त्या ॥ ६॥ अर्बुदाम्बां पदाम्भोजं यः स्मरेन् नियमान्वितः । अनेन श्लोकषट्केन भवेद्देवीप्रसादभाग् ॥ इति श्रीईश्वरनन्दगिरिविरचितं अर्बुदाभगवतीस्तोत्रं सम्पूर्णम् ।